भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0821-0840

0821

अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः ।
गुरूनपि प्रतिक्षेप्तुं प्रयतन्ते क्षमाभृतः ॥

0822

अदाता पुरुषस्त्यागी दाता त्यागी च नित्यशः ।
इति ज्ञात्वा स्वयं बुद्धया धनं दद्यात् पुनः पुनः ॥

0823

अदाता पुरुषस् धनं संत्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥

0824

अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगतजयिनं विश्वजयिनम् ।
अकुल्यं कुल्यं त्वामहमवदमाशापरवशात् मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि ॥

0825

अदाता वंशदोषेण कर्मदोषाद् दरिद्रता ।
उत्मादो मातृदोषेण पितृदोषेण मूर्खता ॥

0826

अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः ।
दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥

0827

अदानमीषद् दानं च किंचित् कोपाय दर्धियाम् ।
संपूर्णदानं प्रकृतिर् विरामो वैरकारणम् ॥

0828

अदान्तस्याविनीतस्य वृथापण्डितमानिनः ।
न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥

0829

अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन ।
न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधर्मणः ॥

0830

अदीप्तेऽग्नौ हतो होमो हता भुक्तिरसाक्षिका ।
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ॥

0831

अदीर्घं कालमापन्नः प्रश्रयं युवतेः स्मरः ।
प्रगल्भ्यते मनस्येव मुघं वपुषि जायते ॥

0832

बिभेत्यङ्गार्पणे वाच्छत्यालिख्यातां रतिं प्रिये ।
उक्तप्रत्युक्तसंमूढा संमुखं न निरीक्षते ॥

0833

रतचूतफलोत्पाकरसैः कान्तं न धिन्वती ।
बाला निदाघलक्ष्मीव तापयत्येव केवलम् ॥

0834

अदीर्घदर्शिभिः क्रूरैर् मूढैरिन्द्रियसायकैः ।
हमद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥

0835

अदीर्घसूत्रः स्मृतिमान् कुतज्ञो नीतिशास्त्रवित् ।
धीमानायतिदर्शी च मन्त्री राज्ञः सुसंनिधिः ॥

0836

अदुर्गविषयः कस्य नारेः परिभवास्पदम् ।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥

0837

अदृष्टापतितां भार्यां मूढो यस्तु परित्यजेत् ।
सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥

0838

अदुष्टापतितां भार्यां यौवने यः परित्यजेत् ।
स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥

0839

अदूरगमनं तीर्थम् अदेहदमनं तपः ।
अनम्भःसंभवं स्नानं मातुश्चरणपङ्कजम् ॥

0840

अदृष्यन्ति पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।
अस्मय्रन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc