भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0801-0820

0801

अथोच्यते श्वानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु ।
विस्पष्टचेष्टं शुभलक्षणं च शुभाशुभं प्राक्तनकर्मपाकम् ॥

0802

अथोत्तरस्यां दिशि खञ्जरीटम् आलोक्य कोऽपि स्मितमादधानः ।
कस्याश्चिदास्ये स्मितचारुभासि सभावयामास विलोचनानि ॥

0803

अथोद्ययौ बालसुहृत् स्मरस्य शयामाधवः श्यामललक्ष्मभङ्ग्या ।
तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥

0804

अथोपगूढे शरदा शशाङ्के प्रावृड् ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्ट्पयोधराणाम् ॥

0805

अदः समित्संमुखवीरयौवत- त्रटद्भुजाकम्बुमृणालहारिणी ।
द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति ॥

0806

अदण्डनमदण्ड्यानां दण्ड्यानां चापि दण्डनम् ।
अग्राह्याग्रहणं चैव ग्राह्याणां ग्रहणं तथा ॥

0807

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो महदाप्नोति नरकं चैव गच्छति ॥

0808

अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले ।
विपत् तस्माद् दूरं व्रजति रजनीवाम्बरमणेर् विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥

0809

अदत्तदोषेण भवेद् दरिद्रो दरिद्रदोषेण करोति पापम् ।
पापादवश्यं नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥

0810

अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् ।
मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥

0811

अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥

0812

अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः ।
धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥

0813

अदनस्पृहया दुरीश्वराणां सदन्द्वारि वितर्दिमाश्रयन्ताम् ।
अपुनर्भवसाधनं शरीरं जरयामो वयमों नमः शिवाय ॥

0814

अदभ्रमभ्रोपलपट्टकेषु ये शितीक्रियन्ते मदनेन पत्रिणः ।
तडिल्लता तन्निकषोत्थपावक- स्फुलिङ्गभङ्गीं ललिताङ्गि सेवते ॥

0815

अदम्भा हि रम्भा विलक्षा च लक्ष्मीर् घृताची ह्रिया चीरसंच्छादितास्या ।
अहो जायते मन्दवर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥

0816

अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥

0817

अदय दशसि किं त्वं बिम्बबुद्ध्याधरं मे भव चपल निराशः पक्वजम्बूफलानाम् ।
इति दयितमवेत्य द्वारदेशाप्तमन्या निगदति शुकमुच्चैः कान्तदन्तक्षतौष्ठी ॥

0818

अदर्शनादापतितः पुनश्चादर्शनं गतः ।
न त्वासौ वेद न त्वं तं कः सन् कमनुशोचसि ॥

0819

अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
न ते तव न तेषां त्वं तत्र का परिदेवना ॥

0820

अदर्शने दर्शनमात्रकामा दृष्टौ परिष्वङ्गरसैकलोला ।
आलिङ्गितायां पुनरायताक्ष्याम् आशास्महे विग्रहयोरभेदम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc