महासुभाषितसंग्रह · श्लोक 0781-0800
अथ स्वस्थाय देवाय नित्याय हतपाप्मने ।
त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥
अथागत्य भुवं राज्ञां गता वाहनतां हयाः ।
तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥
अथाङ्गराजादवतार्य चक्षुर् याहीति जन्यामवदत् कुमारी ।
नासौ न काम्यो न च वेद सम्यग् दृष्टुं न सा भिन्नरुचिर्हि लोकः ॥
अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम् ।
शुभानि वर्णैरावर्तैस् तानि विद्याद्विचारतः ॥
अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।
येन विज्ञातमात्रेण रेवन्तः प्रियतां व्रजेत् ॥
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥
अथानन्दकरं वक्ष्ये षडर्तूनां च वर्णनम् ।
यद्रसास्वादमुदिता विभान्ति विबुधालयः ॥
अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥
अथापि नापसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥
अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कूनखा विवर्णाः ।
निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये वा सिततालुजिह्वाः ॥
अथायतनसंनिधौ भगवतो भवानीपतेर् मनोहरमचीखनद् भुवनभूषणं भूपतिः ।
विगाहनकुतूहलोत्तरलपौरसीमन्तिनी- पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥
अथाशुद्धोद्भवो ग्राम्यनर्तक्स्येव यो भवेत् ।
कैतवस्नेहमापन्नो भवः संकीर्ण उच्यते ॥
अथाश्वानां जन्मदेशान् प्रवक्ष्याम्यनुपूर्वशः ।
उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥
अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः ।
उत्पत्तिमद्वस्तु विनाश्यवश्यं यथाहमित्येवमिवोपदेष्टुम् ॥
अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च चक्रुः कुशं रत्नविशोषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितैर् अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥
अथेह कथ्यतेस्माभिः कर्मना येन बन्धनम् ।
छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यताम् ॥
अथैतत् पूर्णमभ्यात्मं यच् च नेत्यनृतं वचः ।
सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्तिः स्वसन् मृतः ॥
अथो गणपतिं वन्दे महामोदविधायिनम् ।
विद्याधरगणैर्यस्य पूज्यते कण्ठगर्जितम् ॥
अथोच्चकैर्जरठकपोतकंधरा- तनूरुहप्रकरविपाण्डुरद्युति ।
बलैश्चलच्चरणविधूतमुच्चरद् धनावलीरुदचरत क्षमारजः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0