भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0761-0780

0761

अथ राज्ञा दरः कार्यो न तु कस्यां चिदापदि ।
अपि चेतसि दीर्णः स्यान् नैव वर्तेत दीर्णवत् ॥

0762

अर्थतुपक्वात् कलतोऽवशोषिताद् विकृष्य बीजं पयसा निषिच्य ।
विशोषितं पञ्चदिनानि सर्पिषा विडङ्गमिश्रेण च धूपयेत् ततः ॥

0763

अथर्वविधितत्त्वज्ञैर् ब्राह्मणैर्विजितेन्द्रियैः ।
मन्त्रतन्त्रविधानज्ञैर् दूरादुन्मूलयेद् रिपून् ॥

0764

अथर्वाम्नायतत्त्वज्ञस् तन्त्रज्ञः क्रतुकर्मठः धनुर्वेदस्य वेत्ता च पुरोधा राजसंमतः ॥

0765

अथ लक्ष्मणानुगतकान्तवपुर् जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगनैस् तिमिरौघराक्षसकुलं बिभिदे ॥

0766

अथवा नश्यति प्रज्ञा प्राज्ञस्यापि नरस्य हि ।
प्रतिकूले गते दैवे विनाशे समुपस्थिते ॥

0767

अथवा प्रोच्यते ध्यानम् अन्यदेवात्र योगिनाम् ।
रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥

0768

अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥

0769

अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरोष्विव ॥

0770

अथवा मम भाग्यविप्लवाद् अशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितः क्षिपता तद्विडपाश्रया लता ॥

0771

अथवा मूलसंस्थानाम् उद्घातैस्तु प्रबोधयेत् ।
सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिम् ॥

0772

अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलीनी पूर्वनिदर्शनं मता ॥

0773

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥

0774

अथ संसारसंहारवामनाबन्धवासितः ।
अजायत वृषारूढो भैरवो महसां निधिः ॥

0775

अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तुचूताङ्कुरास्त्रश् शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥

0776

अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥

0777

अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्- धृदयस्रुतासृगनुलिप्तमिव ॥

0778

अथ सामान्यशृङ्गारे युवतीनां प्रशंसनम् ।
स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनम् ॥

0779

अथ स्फुरन्मीनविधूतपङ्कजा विकङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥

0780

अथ स्वमादाय भयेन मन्थनाच् चिरत्नरत्नाधिकमुच्चितं चिरात् ।
निलीय तस्मिन् निवसन्नपांनिधिर् वने तडाको ददृशोऽवनीभुजा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc