भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0741-0760

0741

(श्रीभगवानुवाच) काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥

0742

धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदमावृतम् ॥

0743

अथ कोकिल कुरु मौनं जलधरसमयेऽपि पिच्छिला भूमिः ।
विकसति कुटजकदम्बे वक्तरि भेके कुतस्तवावसरः ॥

0744

अथ धूकस्वरो वामे यात्रायां गच्छतः शुभः ।
दक्षिणे मृतये किंचिद् दुष्टं दर्शनमस्य हि ॥

0745

अथ जगदवगाढं वासरान्तापचारात् तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।
शशिभिषगनुपूर्वं शीतहस्तो भिषज्यन्न् अधिकविशदवक्त्रः स्वैरभावं चकार ॥

0746

अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥

0747

अथ देहं स्थिरीर्क्तुं योगिनां सिद्धिमिच्छताम् ।
कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥

0748

अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः ।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥

0749

अथ नभसि निरीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं प्राप्तहऋषप्रकर्षः ।
विहितविपुलबर्हाडम्बरो नीलकण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥

0750

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥

0751

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥

0752

अथ पङ्क्तिमतामुपेयिवद्भिः सरसैर्वक्रपथश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ॥

0753

अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥

0754

अथ प्रसन्नेन्दुमुखीन् सिताम्बरा समाययावुत्पलपत्रलोचना ।
सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥

0755

अथबद्धजेटे रामे सुमन्त्रे गृहमागते ।
त्यक्तो राजा सुतत्यागाद् अविश्वस्तैरिवासुभिः ॥

0756

अथ भद्राणि भूताणि हीनशक्तिरहं परम् ।
मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥

0757

अथ मनसिजदिग्ज्याभिशंसी जलधरदुग्दुभिराततान शब्दम् ।
तदनु तदनुजीविभिः कदम्बैः कवचितमुन्मदषट्पदच्छलेन ॥

0758

अथ मन्त्रमिमं कर्ने जपेद्दंशं स्पृशेत् तथा ।
एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥

0759

अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत् पुरस्तात् ।
तिमिरस्य जरा चकोरकूरं कुलडाकेलिबनीदवानलार्चिः ॥

0760

अथ रतिरभसादलीकनिद्रा- मधुरविघूर्णितलोचनोत्पलाभिः ।
शयनतलमशिश्रियन् वधूभिः सह मदमन्मथमन्थरा युवानः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc