भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0721-0740

0721

अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ।
यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥

0722

अत्रायातं पथिक भवता कर्मणाकारि पथ्यं तथ्यं ब्रूमः पुनरपि सखे साहसं मा विधासीः ।
वामाक्षीणां नयननलिनप्रान्तनिर्धूतधैर्याः स्वां मर्यादामिह हि नगरे योगिनोऽपि त्यजन्ति ॥

0723

अत्रर्द्रचन्दनकुचार्पितसूत्रहार- सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥

0724

अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम् ।
सस्नेहाः सरसाः सहासरभसाः सभ्रू भ्रमाः सस्पृहाः सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः ॥

0725

अत्रावासपरिग्रहं गृहपतेराचक्ष्व चण्डोद्यमैः चण्डालैरुपसेविताः सखि धनुर्हस्तैः पुरस्तादिमाः ।
उत्कालाकुलसारमेयरसनालेलिह्यमानोन्नत- द्वाराग्रत्वगवास्थिसास्रशकलस्रग्वल्लयः पल्लयः ॥

0726

अत्राशितं शयितमत्र निपीतमत्र सायं तया सह मया विधिवञ्चितेन ।
इत्यादि हन्त परिचिन्तयतो वनान्ते रामस्य लोचनपयोभिरभूत् पयोधिः ॥

0727

अत्रासीत् किल नन्दसद्म शकटस्यात्राभवद् भञ्जनं बन्धच्छेदकरोऽपिदामभिरभूद् बद्धोऽत्र दामोदरः ।
इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्न् आनन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥

0728

अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद् देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठ्टवी ॥

0729

अत्रास्थः पिशितं शवस्य कठिनैरुत्कृत्य कृत्स्नं नखैर् नग्नस्नायुकरालघोरकुहरैर्मस्तिष्कदिग्धाङ्गलिः ।
संदश्यौष्ठपुटेन भुग्नवदनः प्रेतश्चिताग्निद्रुतं सूत्कारैर्नलकास्थिकोटरगतं मज्जानमाकर्षति ॥

0730

अत्रास्मिन् सुतनु लतागृहेऽस्ति रम्यं मालत्याः कुसुममनुच्चितं परेण ।
इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षी रहसि निनाय कोऽपि धन्यः ॥

0731

अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः ।
सदृशण् शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ॥

0732

अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् ।
अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥

0733

अत्रैव सरसि जातं विकसितमत्रैव निर्भरं नलिनैः ।
कालवशागततुहिनैर् विलीनमत्रैव हा कष्टम् ॥

0734

अत्रैष स्वयमेव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान् ।
बाष्पव्याकुलमीक्षितः सरभसं चूताङ्कुरैरर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥

0735

अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना धृष्टस्वप्रकृतिक्रियासमुचिते ग्रमे तथा जृम्भितम् ।
रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं नाप्यज्ञायि जनैर्यथौघपयसां स्रोतोजलानामपि ॥

0736

अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥

0737

अत्वरा सर्वकार्येषु त्वरा कार्यविनाशिनी ।
त्वरमाणेन मूर्खेण मयूरो वायसीकृतः ॥

0738

अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता ।
ज्वाला दहति तत्सर्वं निर्वाणं ब्रह्मणो यतः ॥

0739

अथ कृतकविहङ्गैः पार्थिवोद्दूलयन्तैस् तुमुलमुपरिपातादम्बुवर्षात् त्रसन्त्यः अविगलितसपत्नीगात्रसंमर्ददुःखाः प्रणयिनमभिपेतुर्हानिनादेन देव्यः ॥

0740

(अर्जुन उवाच) अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc