महासुभाषितसंग्रह · श्लोक 0641-0660
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
अक्षमावान् परं दोषैर् आत्मानं चैव योजयेत् ॥
अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥
अतोगरीयः किं नुस्याद् अशर्म नरकेष्वपि ।
यत् प्रियस्य प्रियं कर्तुम् अधमेन न शक्यते ॥
अतो निजबलोन्मानं चापं स्याच्छुभकारकम् ।
देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥
अतोऽर्थं पठ्यते शास्त्रं कीर्तिर्लोकेषु जायते ।
कीर्तिमान् पूज्यते लोके परत्रेह च मानवः ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥
अत्तुं वाञ्छति शांभवो गणपतेराखुं क्षुधार्त्तः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाननम् ।
इत्थं यत्र परिग्रहस्य घटना शंभोरपि स्याद्गृहे तत्रान्यस्य कथं न भावि जगतस्तस्मात् स्वरूपं हि तत् ॥
अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कार्पुरं विधृतार्द्रचन्दनकुचद्वन्द्वाः कुरङ्गीदृशः ।
धारावेश्म सपाटलं विचकिलस्रग्दाम चन्द्रत्विषो धातः सृष्टिरियं वृथैव तव न ग्रीष्मोऽभविष्यद्यदि ॥
अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।
यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥
अत्यन्तं कुरुतां रसायनविधिं वाक्यं प्रियं जल्पतु वार्धेः पारमियर्तु गच्छतु नभो देवाद्रिमारोहतु ।
पातालं विशतु प्रसर्पतु दिशं देशान्तरं भ्राम्यतु न प्राणी तदपि प्रहर्तुमनसा संत्यज्यते मृत्युना ॥
अत्यन्तकण्डूतिपरो नराणाम् विरोधकारी शुनकः सदैव ।
स्यादूर्ध्वपादः शुनकः शयानः सिद्धिप्रदः कार्यविधौ विदुष्टे ॥
अत्यन्तकृष्णः स विनिर्मलस्त्वं स वामनः सर्वत उन्नतोऽसि ।
जनार्दनो यत् स दयापरस्त्वं विष्णुः कथं वीर तवोपमानम् ॥
अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
अत्यन्तचञ्चलस्येह पारदस्य निबन्धने ।
कामं विज्ञायते युक्तिर् न स्त्रीचित्तस्य काचन ॥
अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले ।
प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥
अत्यन्तपरिणाहित्वाद् अतीव श्लक्ष्णतावशात् ।
न कांचिदुपमां रोढुम् ऊरू शक्नोति सुभ्रुवः ॥
अत्यन्तभीमवनजीवगणेन पूर्णं दुर्गं वनं भवभृतां मनसाप्यगम्यम् ।
चौराकुलं विशति लोभवशेन मर्त्यो नो धर्मकर्म विदधाति कदाचिदज्ञः ॥
अत्यन्तमतिमेधावी त्रयाणामेकमश्नुते ।
अल्पायुषो दरिद्रो वा ह्यनपत्यो न संशयः ॥
अत्यन्तमन्थनकदर्थनमुत्सहन्ते मर्यादया नियमिताः किमु साधवोऽपि ।
लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरलं किमु नोज्जगार ॥
अत्यन्तमसदार्याणाम् अनालोचितचेष्टितम् ।
अतस्तेषां विवर्धन्ते सततं सर्वसंपदः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0