भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0561-0580

0561

अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
परापवादिभीरूणां न भवन्ति विभूतयः ॥

0562

अतिदानाद्धतः कर्णस्त्व् अतिलोभात् सुयोधनः ।
अतिकामाद्दशग्रीवस्त्व् अति सर्वत्र वर्जयेत् ॥

0563

अतिदानाद्बलिर्बद्धो नष्टो मानात् सुयोधनः ।
विनष्टो रावणो लौ ल्याद् अति सर्वत्र वर्जयेत् ॥

0564

अतिदानाद्बलिर्बद्धो ह्यतिमानात् सुयोधनः ।
अतिकामाद्दशग्रीवो ह्यति सर्वत्र गर्हितः ॥

0565

अतिदाने बलिर्बद्धो अतिमाने च कौरवाः ।
अतिरूपे हृता सीता सर्वमत्यन्तगर्हितम् ॥

0566

अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त ।
कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥

0567

अतिदूरपथश्रान्ताश् छायां यान्ति च शीतलाम् ।
शितलाश्च पुनर्यान्ति का कस्य परिदेवना ॥

0568

अति धर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते ।
बले प्रतिष्ठितो धर्मो धर्ण्यामिव जङ्गमम् ॥

0569

अतिनीचानि वाक्यानि दृष्टिमात्रातिनिन्दकः ।
क्षुद्रसंवादभाषी यो ह्येवं दुष्टः शठो जनः ॥

0570

अतिपक्वकपित्थेन लिप्तपात्रे सुयामितम् ।
दुग्धमस्तुविहीनं स्याच् चन्द्रबिम्बोपमं दधि ॥

0571

अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥

0572

अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः ।
तत् किं न वाञ्छितं स्याद् अस्या यदि विधुरवीक्षणः पाता ॥

0573

अतिपरिगृहीतमौना वर्जितमाल्यानुलेपनस्नाना ।
दूरोत्सारितलज्जा निर्ग्रन्थग्रन्थरचनेव ॥

0574

अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः ।
लोकः प्रयागवासी कूपे स्नानं समाचरति ॥

0575

अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ॥

0576

अतिपरिचयादवज्ञेत्य् एतद् वाक्यं मृषैव तद्भाति ।
अतिपरिचितेऽप्यनादौ संसारेऽस्मिन् न जायतेऽवज्ञा ॥

0577

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥

0578

अतिपीतां तमोराजीं तनीयान् सोढुमक्षमः ।
वमतीव शनैरेष प्रदीपः कज्जलच्छलात् ॥

0579

अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥

0580

अतिपेलवमतिपरिमित- वर्णं लघुतरमुदाहरति शठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc