महासुभाषितसंग्रह · श्लोक 0541-0560
अतिचिरादनुषङ्गवतः कणा- नवनिजान् यदि हेम जिहाससि ।
पटुपुटज्वलनज्वरवेदना तव भवत्यपयाति च गौरवम् ॥
अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च ।
दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥
अतिजीवति वित्तेन सुखं जीवति विद्यया ।
किंचिज्जीवति शिल्पेन ऋते कर्म न जीवति ॥
अतितामसोऽजगन्धिः काकरवो ह्रस्वकूर्चकः पापः ।
भीरुः कुधीः पिशाचो रासभलिङ्गस्तु विज्ञेयः ॥
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ।
अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान् ।
तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशम् ॥
अतिथिं नाम काकुत्स्थात् पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना ॥
. . . . . .
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥
अतिथिः द्वारि तिष्ठेत आपो गृह्णाति यो नरः ।
आपोशनं सुरापानम् अन्नं गोमांसभक्षणम् ॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः ॥
अतिथिः पूजितो यस्य ध्यायते मनसा शभम् ।
न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥
अतिथित्वेन वर्णानां देयं शक्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥
अतिथिर्बालकः पत्नी जननी जनकस्तथा ।
पञ्चैते गृहिणः पोष्या इतरे च स्वशक्तितः ॥
अतिथिर्बालकश्चैव राजा भार्या तथैव च ।
अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥
अतिथिर्बालकश्चईव स्त्रीजनो नृपतिस्तथा ।
एते वित्तं न जानन्ति जामाता चैव पञ्चमः ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ ।
अपवादी हरेत् पापम् अतिथिः स्वर्गसंक्रमः ॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामान्यं भोजनं सद्भिर् गृहस्थस्य प्रशस्यते ॥
अतिथीनां न सत्कारो न च सज्जनसंगमः ।
न यत्र स्वात्मवर्णास्था सा गृहाश्रमवञ्चना ॥
अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0