भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0521-0540

0521

अतस्करकरग्राह्यम् अराजाज्ञावशंवदम् ।
अदायादविभागार्हं धनमार्जयतस्थिरम् ॥

0522

अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥

0523

अतस्त्वष्टाङ्गया बुद्ध्या नृपतिर्नीतिशास्त्रवित् ।
समर्थः पृथिवीं कृत्स्नाम् अपि जेतुं विचक्षणः ॥

0524

अताडयत् पल्लवपाणिनैकां पुष्पोच्चये राजवधूमशोकः ।
तच्छेदहेतोरलिपङ्कि भङ्ग्या व्याकृष्यते वासिलता स्मरेण ॥

0525

अतिकलुषमाशुनश्वरम् आपातस्फुरणमनभिलाषकरम् ।
अपि हृष्यन्ति जनाः कथम् अवलम्ब्य ज्ञानखद्योतम् ॥

0526

अतिकुपितमनस्के कोपनिष्पत्तिहेतुं विदधति सति शत्रौ विक्रियां चित्ररूपाम् ।
वदति वचनमुच्चैर्दुःश्रवं कर्कशादि कलुषविकलता या तां क्षमां वर्णयन्ति ॥

0527

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥

0528

अतिकृष्णेष्वतिगौरेष्व् अतिपीनेष्वतिकृशेषु मनुजेषु ।
अतिदीर्घेष्वतिलघुषु प्रायेण न विद्यतेऽपत्यम् ॥

0529

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।
इदानीं राधायाः प्रियतमसमायातसमये पपातस्वे दाम्बुप्रसर इव हर्षाश्रुनिकरः ॥

0530

अतिक्रान्तं तु यः कार्यं पश्चाच्चिन्तयते नरः ।
तच्चास्य न भवेत् कार्यं चिन्तया तु विनश्यति ॥

0531

अतिक्रान्तः कालः सुचरितशतामोदसुभगो गताः शुक्ला धर्मा नवनलिनसूत्रांशुतनुताम् ।
परिम्लानः प्रायो बुधजनकथासारनिपुणो निरानन्दं जातं जगदिदमतीतोत्सवमिव ॥

0532

अतिक्रान्तः कालो लटभललनाभोगसुभगो भ्रमन्तः श्रान्ताः स्मः सुचिरमिह सं सारसरणौ ।
इदानीं स्वः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिव शिव शिवेति प्रतनुमः ॥

0533

अतिक्रान्तमतिक्रान्तम् अनागतमनागतम् ।
वर्तमानसुखभ्रान्तिर् नवा भोगिदरिद्रयोः ॥

0534

अतिक्लेशेन यद् द्रव्यम् अतिलोभेन यत्सुखम् ।
परपीडा च या वृत्तिर् नैव साधुषु विद्यते ॥

0535

अतिक्लेशेन येऽर्थाः स्युर् धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥

0536

अतिक्लेशे मनःस्थैर्यं क्रमेण सहनं तथा ।
जयलाभाय हेतू द्वौ सैन्यानामधिकौ विदुः ॥

0537

अतिगम्भीरमनाविलम् अक्षोभ्यमदृष्टपारमविलङ्घ्यम् ।
अविरलतरङ्गसंकुलम् एक्षिषि विज्ञानसागरं महताम् ॥

0538

अतिगम्भीरे भूपे कूप इव जनस्य दुःखतारस्य ।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥

0539

अतिचपलकलत्रं प्रातिवेश्मातिचौर- स्तनयगतिमांधं (?) बालरण्डा तनूजा ।
अतिशठमथ मैत्री (?) वश्यता सर्वजन्तो रिपुभयतनुरोगौ चाष्टदुःखं नराणाम् ॥

0540

अतिचारुचन्द्ररोचिः कुर्वन् कुसुमेषुकेलिकेतनताम् ।
सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc