महासुभाषितसंग्रह · श्लोक 0501-0520
अतः परं प्रवक्ष्यामि शराणां लक्षणां शुभम् ।
स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम् ।
हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥
अतः परमगम्योऽयं पन्था विश्रम्यतामिति ।
प्रत्यक्षियुगलं तस्याः कर्णौ वक्तुमिवागतौ ॥
अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता ।
औषधं विधिवद्ग्राह्यं स्मृत्वा देवीं च सुप्रभाम् ॥
मन्त्रः -- ओं सुप्रभायै नमः ॥
अतः संदेहदोलायां रोपणीयं न मानसम् ।
ग्रन्थेऽस्मिंश्चापचतुरैर् चीरचिन्तामणौ क्वचित् ॥
अतः समीक्ष्य कर्तव्यं विशेषात् संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥
अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने ।
स्मृत्वा क्षेमंकरीं देवीं पश्यता शकुनाञ्शुभान् ॥
अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
उत्पत्तये हविर्भोंक्तुर् यजमान इवारणिम् ॥
अत एव हि नेच्छन्ति साधवः सत्समागमम् ।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥
अतटस्थस्वादुफल- ग्रहणव्यवसायनिश्चयो येषाम् ।
ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥
अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥
अतथ्यास्तथ्यसंकाशास् तथ्याश्चातथ्यदर्शनाः ।
दृश्यन्ते विविधा भावास् तस्माद्युक्तं परीक्षणम् ॥
अतथ्येनोच्यमानस्य कः कोपो यन्न तत्तथा ।
तथ्येनापि हि कः कोपो यदनुक्तेऽपि मत्तथा ॥
अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः ।
रसमर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने समर्था ॥
अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
उचितमायतनिःश्वसितच्छलाच् छ्वसनशस्त्रममुञ्चदमुं प्रति ॥
अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा- वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली ।
अकाण्डा दोर्वल्ली वदनमलकलङ्कः शशधरस् तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥
अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥
अतन्द्रितचमूपतिप्रहितहस्तमस्वीकृत- प्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम् ।
अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥
अतसीकुसुमोपमेयकान्तिर् यमुनालकुकदम्बमूलवर्ती ।
नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलानि ॥
अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।
ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0