भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0421-0440

0421

अज्ञातदोषैर्दोषज्ञैर् उद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥

0422

अज्ञातनामवर्णेष्व् आत्मापि ययार्प्यते धनांशेन ।
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥

0423

अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् ।
ते गारुडीयाननधीत्य मन्त्रान् हालाहलास्वादनमारभन्ते ॥

0424

अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना ।
हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥

0425

अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा ।
रसातिरेकादौचित्यभङ्गः स्त्रीणां क्व लभ्यते ॥

0426

अज्ञातमातृल लन- मैणशिशुं कश्चिदङ्कमारोप्य ।
अद्यापि रक्षसि विधो धर्मात्मा कोनु भवदन्यः ॥

0427

अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति ॥

0428

अज्ञातशास्त्रसद्भावाञ् छास्त्रमात्रपरायणान् ।
त्यजेद् दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥

0429

अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः ।
दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥

0430

अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं गदिते विमुच्य रभसात् कण्ठेवलग्नो युवा ॥

0431

अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू लतमैणनाभितिलकं श्रीखण्डपत्रालकम् ।
बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥

0432

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् ।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥

0433

अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥

0434

अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः ।
भावोदकेन संवृद्धिस् तस्याश्रद्धा ऋतुः प्रिय ॥

0435

अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या ।
चक्षुरुन् मीलितं येन तस्मै श्रीगुरवे नमः ॥

0436

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ।
लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ॥

0437

अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
पारिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥

0438

अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः ।
कः समर्थः प्रबीद्धुं तं ज्ञानभेरीशतैरपि ॥

0439

अज्ञानवलितो बाल्ये मदमूढश्च यौवने ।
वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥

0440

अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता ।
गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc