महासुभाषितसंग्रह · श्लोक 0341-0360
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास् तव सुखशीतमुपैतुमङ्कमिच्छा ॥
अचञ्चलं मुग्धमुदञ्चितं दृशोर् अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर्भ्रुवोर् अबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः शंभुर् भगवान् बादरायणः ॥
अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः ।
अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥
अचला कमला कस्य कस्य मित्रं महीपतिः ।
शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना ॥
अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके ।
इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥
अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः ।
स्वयं समादाय करं निधाय वक्षोजयुग्मे स्वपिति श्वसन्ती ॥
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥
अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते ।
शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं विरतिमूर्जितां पापतः ॥
अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर् यदक्ष्णोऽभूत् तेजस्तदकृत कथाशेषमदनम् ।
मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥
अचिरात् परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन् कामदमनं धिगेकदारञ्जयन्तमात्मानम् ॥
अचिरादुपकर्तुराचरेद् अथ वात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोपणशिथिलस् तरुरिव सुकरः समुद्धर्तुम् ॥
अचिरेण परस्य भूयसों विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥
अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते ।
श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥
अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना ।
श्रियं श्रिता काचन तारकासखी कृताशशाङ्कस्य तयाङ्कवर्तिनी ॥
अचेतना अपि प्रायो मैत्रीमेवानुबध्यते ।
स्ववृद्धात् क्षीयते क्षीरात् क्षीरात् प्रागेव वारिणा ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कश्चित् कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥
अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्न् आह्लादकारिणि सुधावति पूर्णबिम्बे ।
धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0