महासुभाषितसंग्रह · श्लोक 0321-0340
अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
व्यग्रचित्तेन यज्जप्तं त्रिविधं निष्फलं भवेत् ॥
अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥
अङ्गुष्ठतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् ।
मन्त्रेणानेन वश्याः स्युः पशवोऽश्वादयस्तथा ॥
अङ्गुष्ठनखदम्भेन पादयोः पतितः किमु ।
विभाति वक्त्रविजितः शशी विगतकल्मषः ॥
अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितं ।
मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥
अङ्गुष्ठाक्रमवक्रिताङ्गुलिरधः पादार्धनीरुद्धभूः पार्श्वाद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः ।
न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद् धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥
अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितं ।
काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥
अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि ।
शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती- रूर्ध्वाधोगमनेन वामपदगाः पक्षद्वये लक्षयेत् ॥
अङ्गुष्ठोदरमात्रं विशेषवित्प्राप्य पद्मरागमणिम् ।
सुखसंवाह्यमनुत्तरं अर्थं किं तेन नाप्नोति ॥
अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रं ।
न चेद्विशेषादितरच्छदेभ्यस् तस्यास्तु कम्पस्तु कुतो भयेन ॥
अङ्गेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यं ।
धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ॥
अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः ।
अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न तु त्वां विना क्वापि चेतः ॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेप्यास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
अष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥
अङ्गेनाङ्गमनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर्गन्धोऽपि चेत्के द्विपाः ।
जेतव्योऽस्ति हरेः स लाञ्छनमतो वन्दामहे तामभूद् यद्गभ शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥
अङ्गेषु चतुरश्रत्वं समपादौ लताकरौ ।
प्रारम्भे सर्वनृत्यानाम् एतत्सामान्यमुच्यते ॥
अङ्गेषु मुख्या द्विजमध्यसंस्था वाणानुसंधान परासि नित्यं ।
अधं स्थिरप्रेमरसा रसज्ञे नरस्तुतिं संत्यज कर्णवत् त्वं ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥
अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं प्रहरति ।
विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ॥
अङ्घ्रिदण्डो हरेरूर्ध्वम् उत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0