महासुभाषितसंग्रह · श्लोक 0301-0320
अङ्गारशूलाश्मपलालकेश- विस्तीर्णविट्चर्ममृतेषु दृष्टः ।
श्वा मूत्रयन्यच्छति कार्यनाशं दारिद्र्यमृत्युप्रमुखाननर्थान् ॥
अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।
ये प्रसक्ता विलीनास्ते ये स्थितास्ते पदे स्थिताः ॥
अङ्गारसदृशी योषित् सर्पिःकुम्भसमः पुमान् ।
तस्याः परिसरे ब्रह्मन् स्थातव्यं न कदाचन ॥
अङ्गारहासिषु विलासगृहोदरेषु तल्पेषु तूलपटकल्पितवेष्टनेषु ।
उष्णेषु च प्रणयिनीकुचमण्डलेषु शान्तिं जगाम शिशिरस्य तुषारगर्वः ॥
अङ्गारैः खचितेव भूर्वियदपि ज्वालाकरालं करैस् तिग्मांशोः किरतीव तीव्रमभितो वायुः कुकूलानलम् ।
अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नववह्निदीपितमिवाशेषं जगद्वर्तते ॥
अङ्गारैः शाकवृक्षस्य चूर्णितैः सघृतैस्त्र्यहम् ।
दत्तैर्नश्यत्यतीसारस्त्र्य् अहं पानीयवारणात् ॥
अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद् गाहते ।
दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥
अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् ।
एतावतैव सुकरो ननु विश्वमात- रुद्दण्डदण्डधरकिंकरमौलिभङ्गः ॥
अङ्गीकुर्वन्ति भङ्गीमखिलगिरिगणास्तप्तजाम्बूनदीयां दूरीकुर्वन्ति पूरीकृतकनकगिरिस्फारगवं च यस्याः ।
उन्मत्तध्वान्तधारासुरवरपटलीदाहसञ्जातकीर्तिः सेयं प्राची प्रदीप्तिर्दलयतु दुरितं सर्वदा सर्वदा मे ॥
अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं छायामन्तस्तव मणिमयो माल्यवानेष शैलः ।
शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोर् देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥
अङ्गीकृततितिक्षः सेड् गुणी निष्ठापरो यथा ।
मृषिस्तथा विजयते श्रीरामो राजसत्तमः ॥
अङ्गीकृत्ताः क्षतिमिमामपि ये विषह्य गोप्तुं गुणान् किमिति वाञ्छसि तान्मुधैव ।
मुक्तामणेर्विमलरूपतया नितान्तम् एते तव स्वयमपि प्रकटीभवन्ति ॥
अङ्गुलिभङ्गविकल्पन- विविधविवादप्रवृत्तपाण्डित्यः ।
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः ॥
अङ्गुलीभिः कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः ।
प्रोतेव बाणैः पञ्चेषोः सूक्ष्मा लक्ष्यपरम्परा ॥
अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥
अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च षष्ठमे ।
संचारः सप्तमे मासे अष्टमे नयनेषु च ॥
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः ।
बाहू लते वसन्तश्रीस् त्वं नः प्रत्यक्षचारिणी ॥
अङ्गुल्यग्रनखेन बाष्यसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥
अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं तन्वती कर्कया न परं पयो निपुणिका दातुं प्रपापालिका ।
विश्लिष्टाङ्गुलिना करेण दशनापाडं शनैः पान्थ हे निश्पन्दोर्ध्वविलोचनस् त्वमपि हा जानासि पातुं पयः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0