भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0281-0300

0281

अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते ।
चर्मणाच्छादितः सप्त धातवः सुय्रनुक्रमात् ॥

0282

अङ्गमङ्गेन संपीड्य मांसं मांसेन तु स्त्रियः ।
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥

0283

अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।
नोच्छ्वसिति तपनकिरणैश् चन्द्रस्येवांशुभिः कुमुदम् ॥

0284

अङ्गयुक्तः कृतास्रश्च कुर्वन् सम्यक्पुरोविधिम् ।
विजानन् सिद्धसाध्यादीन् वैरिणोऽस्त्रैर्न पीड्यते ॥

0285

अङ्गसङ्गात् तथा जीवो भजते प्राकृतान् गुणान् ।
अहंकाराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥

0286

अङ्गाः संजातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः कलिङ्गास् तैलङ्गाःस्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः ।
लाटाःस्विद्यल्ललाटाः पदगमनदृढाश्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः प्रौढनिःसाणनादात् ॥

0287

अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतमधः संसक्तमूरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥

0288

अङ्गाकृष्टिर्व्यथयति नखाङ्केषु वक्षोजकुम्भा- वास्यं जृम्भा दशनवसने दन्तदष्टं दुनोति ।
यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः प्रातर्याति प्रगुणतरतां वैशसं नैशमस्याः ॥

0289

अङ्गाङ्गमागते शत्रौ किं करोति परिच्छदः ।
राहुणा ग्रसिते चन्द्रे किं किं भवति तारकैः ॥

0290

अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥

0291

अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात् कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरेपृच्छति ।
तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर- व्यापी बाष्पभरस्तया वलितया निःश्वस्य मुक्तोऽन्यतः ॥

0292

अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥

0293

अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च ।
स्वच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विबह्वश्च शेषः ॥

0294

अङ्गानि दत्त्वा हेमाङ्गि प्राणान् क्रीणासि चेन् नृणाम् ।
युक्तमेतन् न तु पुनः कोणं नयनपद्मयोः ॥

0295

अङ्गानि धीपटुत्वं शक्तिर्दशनाः शनैर्विशीर्यन्ते ।
निखिलेन्द्रियाणि येषां चिरायुषस्ते नरा ज्ञेयाः ॥

0296

अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन् मदलालसानि ।
भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम् ॥

0297

अङ्गानि मे दहतु कान्तवियोगवह्निः सम्रक्षतु प्रियतमं हृदि वर्ततेऽसौ ।
इत्याशया शशिमुखी जलदश्रुवारि- धाराभिरुष्णमभिषिञ्चति हृत्प्रदेशम् ॥

0298

अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रमश्- वासोत्कम्पितकोमलस्तनमुरः सायाससुप्ते भ्रुवौ ।
किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां स्वेदाम्भः स्तपिताकुलालकलतेष्वावासितो मन्मथः ॥

0299

अङ्गामोदसमोच्छलद्घृणिपतद्भृङ्गावलीमालित- स्फूर्जल्लञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीरिव ।
निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैरिवाभ्यर्चितः ॥

0300

अङ्गारपूर्वे गमने च लाभः सोमे शनौ दक्षिणमर्थलाभम् ।
बुधे गुरौ पश्चिमकार्यसिद्धी रवौ भृगौ चोत्तरमर्थलाभः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc