भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0261-0280

0261

अङ्कोल्लक्वथितं स्विन्नं नृमांसं छागदुग्धयुक् ।
पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥

0262

अङ्कोल्लतैलभावितम् उषितं गोशकृति कुमुदकन्दमलम् ।
करकाम्बुकर्दमभृते कलशे कुसुमं समुद्वहति ॥

0263

अङ्कोल्लतैलसूकर- शिशुमारवसासु भावितं बीजम् ।
सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥

0264

अङ्कोल्लपत्रधपेन यद्वा केशसमन्वितैः ।
सक्तुभिः कटुतैलाक्तैर् याति मत्स्यविषं क्षयम् ॥

0265

अङ्कोल्लबीजमज्जानां सूक्ष्मचूर्णं विधीयते ।
तिलतैलेन तच्चूर्णं सम्यक्कृत्वा च भावयेत् ॥

0266

अङ्गं गलितं पलितं मुण्डं दन्तविहीनं जातं तुण्डम् ।
करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥

0267

अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहुस् तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः ।
श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥

0268

अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽवरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तःपुष्पसुगन्धिरार्द्रकबरी स्वच्छं तनीयोऽम्बरं कान्तानां कमनीयतां बिदधते ग्रीष्मेऽपराह्णगमे ॥

0269

अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् ।
तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥

0270

अङ्गं दमनपत्त्राभमङ्गे यस्मिन् प्रतीयते ।
विद्याद्दमनवज्रं तु तीक्ष्णधारं महागुणम् ॥

0271

अङ्गं प्रतीयते यत्र बहुग्रन्थिसमन्वितम् ।
दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥

0272

अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः ।
अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥

0273

अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं रथकर्मसारत्थिकृतं श्वासस्तुरंगीकृताः ।
कोदऽडीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं वामाङ्गं विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान् ॥

0274

अङ्गणं तदिदमुन्मदद्विप- श्रेणिशोणितविहारिणो हरेः ।
उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥

0275

अङ्गणवेदिर्वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥

0276

अङ्गदोषपरित्यक्तश् चतुर्मार्गकृतश्रमः ।
ज्ञाता कुलकवाद्यस्य रञ्जको वादकः स्मृतः ॥

0277

अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा ।
तदा ते स्पृहणीयाः स्युर् इमे ह्यत्यन्तदुर्लभाः ॥

0278

अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना ।
इत्थमाकल्पिते मण्डले मध्यगः संजगौ वेणुना देवकीनन्दनः ॥

0279

अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता ।
आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥

0280

अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ।
तस्मात् प्रियतरो मातुः प्रियत्वान्न तु बान्धवः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc