भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0241-0260

0241

अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् ।
परिणामाभिमुखमृतोर् उत्सुकयति यौवनं चेतः ॥

0242

अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति नितरां संनिधौ सारमेयाः ।
एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं करोमि क्व यामिः ॥

0243

अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः ।
वृन्ते कर्कशकीरपिच्चहरिभिः स्थूलैः फलैर्बन्धुराः संप्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥

0244

अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः ।
सिद्धिस्तदोत्तमा स्याद् दृष्टाप्यादौ वरा दुर्गा ॥

0245

अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥

0246

अग्र्यो मुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः ।
उच्चायां निरतो रतोऽर्थकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचालितमना भद्दोट्टमो राजते ॥

0247

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ॥

0248

अघटितं घटनां नयति ध्रुवं सुघटितं क्षणभङ्गुरताचलम् ।
जगदिदं कुरुते सचराचरं विधिरहो बलवानिति मे मतिः ॥

0249

अघटितघटितं घटयति सुघटितघटितानि जर्जरीकुरुते ।
विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥

0250

अघृष्टमिव माणिक्यम् अमत्तमिव च द्विपम् ।
अशूरं पार्थिवं लोको जात्यमप्यवमन्यते ॥

0251

अङ्कं केऽपि शशङ्किरेजलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूमेश्च बिम्बं परे ।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तन्मन्ये रविभीतमन्धतमसं कुक्षिस्थमालक्ष्यते ॥

0252

अङ्कनिलीनगजानन- शङ्काकुलबाहुलेयहृतवसनौ ।
सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥

0253

अङ्कन्यासैर्विषमैर् मायावनितालकावलीकुटिलैः ।
को नाम कामचारैः कायस्थैर्मोहितो न जनः ॥

0254

अङ्कमल्लविनोदेषु तथान्येषूत्सवादिषु ।
अन्तःपुरप्रचारेषु देवपूजापरेषु च ॥

0255

अङ्काधिरोपितमृगश् चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥

0256

अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
अङ्कुरितः पल्लवितः कोरकितो विकसितश्च मदनः ॥

0257

अङ्केकृत्वोत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुर् दत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय ।
बाणं रक्षः कुलघनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥

0258

अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।
आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर् दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥

0259

अङ्केषु शून्यविन्यासाद् वृद्धिः स्यात्तु दशाधिका ।
तस्माज्ज्ञेया विशेषेण अङ्कानां वामतो गतिः ॥

0260

अङ्कोल्लक्वाथतोयेन मिश्रितं घृतमाक्षिकम् ।
वसा किटिकुङ्गाणाम् एतैः सिक्ता महीरुहाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc