महासुभाषितसंग्रह · श्लोक 0221-0240
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान् विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥
अग्रच्छाया तृणाग्निश्च नीचसेवा पटे जलम् ।
वेश्यारागः खलप्रेम सर्वं बुद्बुदसन्निभम् ॥
अग्रतः पृष्ठतो मध्ये पार्श्वतोऽथ समन्ततः ।
विद्युच्चकितवद्भाति सूर्यकोटिसमप्रभः ॥
अग्रतश्चतुरो वेदान् पृष्ठतः सशरं धनुः ।
उभाभ्यां च समर्थोऽहं शापादपि शरादपि ॥
अग्रतो वामपादं च दक्षिणं जातु कुञ्चितम् ।
आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥
अग्रसानुषु नितान्तपिशङ्गैर् भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥
अग्राह्यं श्रवणस्य भूषणमलंकारो न भावोचितः कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुम् ।
वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये नाभवस् सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥
अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
न लताः पल्लवच्छेदम् अर्हन्त्युपवनोद्भवाः ॥
अग्रे कस्यचिदस्ति कंचिदभितः केनापि पृष्टे कृतः संसारः शिशुभावयौवनजराभारावतारादयम् ।
बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्तद्विष्याद्बहिष्कृत इव व्यावृत्य किं पश्यति ॥
अग्रे कुग्रामवर्गः पिशितरसलसच्चण्डचण्डायमानः पश्चाद्व्याधो वधार्थो निशितशरकरः पादमुद्रानपायी ।
विष्वग्दीप्तो वनाग्निर्वनमतिगहनं धूमवात्या च दृष्टेः सरोद्धी कान्दिशीको हरि हरि हरिणःकं शरण्यं प्रयातु ॥
अग्रे गच्छत धेनुदुग्धकलशानादाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनरियं राधा शनैर्यास्यति ।
इत्यन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः कारणनन्दसूनुरशिवं कृष्णः स मुष्णातु वः ॥
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥
अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर्बाहुभिर् व्यामथ्योपरतप्रपेषु पथिकैर्मार्गेषु मध्यंदिने ।
आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥
अग्रे तिष्ठति दारुणाकृतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः ।
किं कुर्मः सहसा विहाय कलभानेतान् ब्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताभ्यति ॥
अग्रे धनुः शरकरः स्वयमस्ति कामः पश्चात्त्वरा शशधरोदयसंशयोत्था ।
ध्वान्तं दिनान्तविकसद्विभवं समन्तात् किं केवला पथि वधूर्दयिताभिसारे ॥
अग्रे प्रस्तुतनाशानां मूकता परमो गुणः ।
तथापि प्रभुभक्तानां सौधर्म्यादेवमुच्यते ॥
यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनावटम् ।
पश्चान्मूकत्वमापन्नैर् डद्धर्त्तुं नैव शक्यते ॥
अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् ।
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥
अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश् चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम् ।
चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥
अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रमम् अभिदधति दशावतारविदः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0