भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0201-0220

0201

अग्निर्गुरुर्द्विजातीनां वर्णानां पार्थिवो गुरुः ।
कुलस्त्रीणां गुरुर्भर्ता सर्वस्याभ्यागतो गुरुः ॥

0202

अग्निर्दहति तापेन सूर्यो दहति रश्मिभिः ।
राजा दहति दण्डेन तपसा ब्राह्मणो दहेत् ॥

0203

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमास्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥

0204

अग्निर्हि देवताः सर्वाः सर्वणं च तदात्मकम् ।
तस्मात् सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ॥

0205

अग्निष्टोमादिभिर्यज्ञैर् विविधैराप्तदक्षिणैः ।
न तत् फलमवाप्नोति तीर्थार्थे गमनेन यत् ॥

0206

अग्निश्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥

0207

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तदा तच्च वनं चान्यन् निर्दहत्याशु तेजसा ॥

0208

एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥

0209

अग्निहोत्रं गृहं क्षेत्रं गर्भिर्णीं वृद्धबालकौ ।
रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम् ॥

0210

अग्निहोत्रं त्रयो वेदास् त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥

0211

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥

0212

अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥

0213

अग्निहोत्रेषु विप्राणां हृदि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥

0214

अग्नेर्यथा दारुवियोगयोगयोर् अदृष्टतोऽन्यत्र निमित्तमस्ति ।
एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥

0215

अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥

0216

अग्नौ दग्धं जले मग्नं हृतं तस्करपार्थिवैः ।
तत्सर्वं दानमित्याहुर् यदि क्लैब्यं न भाषते ॥

0217

अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥

0218

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ।
तस्मात्तु पुरुषो यत्नाद् धर्मं संचिनुयाच्छनैः ॥

0219

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर् वृष्र्̥एरन्नं ततः प्रजाः ॥

0220

अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दह्यते पद्मिनीव ।
प्राणान् धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस् तत् केनासौ सुतनु जनितो माम्मथस्ते विकारः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc