महासुभाषितसंग्रह · श्लोक 0181-0200
अगा गाङ्गाङ्गकाकाकगाहकाघककाकहा ।
अहाहाङ्क खगाङ्कागकङ्कागखगकाकक ॥
अगाधजलसंचारी विकारी न च रोहितः ।
गण्डूषजलमात्रे तु शफरी फर्फरायते ॥
अगाधहृदया भूपाः कूपा इव दुरासदाः ।
घटका गुणिनो नो चेत् कथं लभ्येत जीवनम् ॥
अगाधेनापि किं तेन तोयेन लवणाम्बुधेः ।
जनुमात्रं वरं वारि तृष्णाच्छेदकरं नृणाम् ॥
अगारेऽस्मिन् कान्ते गिरिशमनिशानाथशकलं भुजंगानुत्तुङ्गान् सकलमपि वातायनपथे ।
निकुञ्जेषु श्येनानधिगृहशिरो राहुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः ॥
अगुणकणो गुणराशिर् द्वयमपि दैवेन खलमुखे पतितम् ।
प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
दर्शितगुणैकवृत्तिर् यस्य जने जनितदाहेऽपि ॥
अगुरुसुरभिधूपाशोभितं केशपाशं गलितकुसुममालं धुन्वती कुञ्चिताग्रम् ।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्याप्य् उषसि शयनवासः कामिनी कामशोभा ॥
अगुरोरपि सत उच्चैः प्रशंसनं तद्गुणा वितन्वन्ति ।
अगुरुर्ज्वलनेऽप्यस्तः सौरभमिषतो गुणान् वमति ॥
अगूढविभवा यस्य पौरा राष्ट्रवासिनः ।
नयापनयवेत्तायः स राजा राजसत्तमः ॥
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥
अग्निं प्राप्य यथा सद्यस् तूलराशिर्विनश्यति ।
तथा गङ्गाजलेनैव सर्वपापं विनश्यति ॥
अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः ।
स वर्धमानो ग्रसते महान्तमपि संचयम् ॥
अग्निः स्तोको वर्धते चाज्यसिक्तो बीजं चैकं बहुसाहस्रमेति ।
क्षयोदयौ विपुलौ संनियम्य तस्मादल्पं नावमन्येत वित्तम् ॥
अग्निकुण्डसमा नारी घृतकुम्भसमो नरः ।
संगमेन परस्त्रीणां कस्य नो चलते मनः ॥
अग्निकुम्भसमा नारी घृतकुम्भसमो नरः ।
उभयोरपि संयोगः कस्य विश्वासकारकः ॥
अग्निदाहे न मे दुःखं छेदे न निकषे न वा ।
यत्तदेव महद्दुःखं गुञ्जया सह तोलनम् ॥
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥
अग्निना भस्मना चैव स्तम्भेन च जनेन च ।
अद्वारेणैव मार्गेण पङ्क्तितदोषो न विद्यते ॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0