महासुभाषितसंग्रह · श्लोक 0161-0180
अखर्वपर्वगर्तेषु विच्छिन्नो यस्य वारिधिः ।
स एव हि मुनेः पाणिर् अधस्ताद्विन्ध्यभूभृतः ॥
अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥
अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु ।
शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे ॥
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।
भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥
अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः समयमविदन् मुग्धः कालासहो रतिलम्पटः ।
कृतककुपितं हस्ताघातं त्रपारुदितं हठा- दपरिगणयन् लज्जायां मां निमज्जयति प्रियः ॥
अगणितनिजश्रमाणां परकृत्येऽभ्येत्य वर्तमानानाम् ।
सुजनघनदिनमणीनां परोपकारार्थमजनि जनिः ॥
अगणितयशसा त्यक्त- स्थितिना क्रियतेऽथ याकृतज्ञेन ।
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता ।
त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥
अगतीनां खलीकाराद् दुःखं नैवोपजायते ।
भवन्त्यशोकाः प्रायेण सांकुराः पादताडिताः ॥
अगदैः सर्वसामान्यैर् व्यन्तराणां विषं हरेत् ।
धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥
अगम्यगमनात् प्रायः प्रायश्चित्तीयते जनः ।
अगम्यं त्वद्यशो याति सर्वत्रैव च पावनम् ॥
अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥
अगम्यो मन्त्राणां प्रकृतिभिषजामप्यविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः ।
जगद्भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥
अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोलितुल्या वटकाद्रिभेदने ।
शाकावलीकाननवह्निरूपास् त एव भट्टा इतरे भटाश्च ॥
अगस्तिहस्तचुलुकमितेऽब्धौ वाहनाकृतौ ।
मग्नः समुद्रो वेलायाम् इति देवास्तदा जगुः ॥
अगस्त्य इव यस्यासिर् न्यञ्चितक्षितिभृद्बभौ ।
चित्रं सोऽप्यकरोन्नृत्यत् कबन्धं समरार्णवम् ॥
अगस्त्यस्य मुनेः शापाद् ब्रह्मस्यन्दनमास्थितः ।
महासुखात् परिभ्रष्टो नहुषः सर्पतां गतः ॥
अगस्त्येन पयोराशेः कियत् किं पीतमुज्झितम् ।
त्वया वैरिकुलं वीर समरे कीदृशं कृतम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0