भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0141-0160

0141

अक्षराणि परीक्ष्यन्ताम् अम्बराडम्बरेण किम् ।
शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते ॥

0142

अक्षराणि विचित्राणि येन जानन्ति मानवाः ।
बलीवर्दसमास्ते तु खुरशृङ्गविवर्जिताः ॥

0143

अक्षराणि समानानि वर्तुलानि घनानि च ।
परस्परविलग्नानि तरुणीकुचकुम्भवत् ॥

0144

अक्षिपक्ष्म कदा लुप्तं छिद्यन्ते हि शिरोरुहाः ।
वर्धमानात्मनामेव भवन्ति हि विपत्तयः ॥

0145

अक्षिभ्यां कृष्णशाराभ्याम् अस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशादिव ॥

0146

अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।
उक्त्वान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥

0147

अक्षीणभोगाद्विषमाद् इष्टानिष्टभयोज्झितात् ।
दुर्जनाद्वत देवा अप्य् अशक्ता इव बिभ्यति ॥

0148

अक्षेत्रे बीजमुत्सृष्टम् अन्तरेव विनश्यति ।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥

0149

अक्षेषु मृगयायां च स्त्रीषु पाने वृथाटने ।
निद्रायां च निबन्धेन क्षिप्रं नश्यति भूपतिः ॥

0150

अक्षेष्वियं व्यसनिता हृदये यदेते रागो घनो मधुमदोत्कटमाननं च ।
पद्मस्तथापि परमास्पदमेव लक्ष्म्यास् तद्दैन्यमेव किल दुर्भगता यदेभिः ॥

0151

अक्षोठशुण्ठिमरिचार्द्रकदाडिमत्वक् कुस्तुम्बुरूलवणतैलसुसंस्कृतान् यः ।
मत्स्यान् सुशीतसितभक्ततले दधाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा ॥

0152

अक्षौरेऽपि च नक्षत्रे कुर्वीत बुधसोमयोः ।
युक्तेऽपि तिथिनक्षत्रे न कुर्याच्छनिभौमयोः ॥

0153

अक्षौहिणी रिपुं हन्यात् स्वयं वा तेन हन्यते ।
ब्राह्मणो मन्त्रविद्धन्यात् सर्वानेव रिपून् क्षणात् ॥

0154

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
धूर्तानामभिसारसंभ्रमजुषां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥

0155

अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा- वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥

0156

अक्ष्णोर्युग्मं विलोकान्मृदुतनुगुणतस्तर्पयन्ती शरीरं दिव्यामोदेन वक्त्रादपगतमरुता नासिकां चारुवाचा ।
श्रोत्रद्वंद्वं मनोज्ञाद्रसनमपि रसादर्पयन्ती मुखाब्जं यद्वत्पञ्चाक्षसौख्यं वितरति युवतिः कामिनां नान्यदेवं ॥

0157

अक्ष्णोर्विपक्ष इति सानुशयं लुलाव नीलोत्पलं यदबला कलमस्य गोप्त्री ।
भूयस्तदेव शिरसावहदुन्नतानां वैरं विरोधिषु दृढं न पराजितेषु ॥

0158

अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवज्जातु कलावैकल्यमागतः ॥

0159

अखण्डितं च क्रमुकं चूर्णम् तु रसवर्जितम् ।
भूमौ निपतितं पत्रं शक्रस्यापि श्रिअयं हरेत् ॥

0160

अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति ।
अस्पृष्टसंदेहविपर्ययस्य कोऽयं तव न्यायनये निवेशः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc