भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0121-0140

0121

अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।
निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥

0122

अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्योमानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥

0123

अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
अनसूयः सदाचारो दीर्घमायुरवाप्नुयात् ॥

0124

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥

0125

अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥

0126

अक्रोधस्य यदा क्रोधः सर्वनाशाय कल्पते ।
राघवस्य प्रकोपेन बद्धो नदनदीपतिः ॥

0127

अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् ।
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥

0128

अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन् कुन्तलान् अन्तः खेलति खञ्जरीटनयने कुञ्जेषु कञ्जेक्षणः ।
अस्मन्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसिकाग्रणीरसि घटी नेयं विलम्बक्षमा ॥

0129

अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं दशसि चेद् भ्रमर प्रियायास् त्वां कारयामि कमलोदरबन्धनस्थम् ॥

0130

अक्लेशादिव चिन्तितम् उपतिष्ठति सिद्धमेव पुण्यवताम् ।
उड्डीयापुण्यवतां गच्छन्ति कपोतकाः पश्य ॥

0131

अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रभ्रुवः पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः ॥

0132

अक्षदेवनपणीकृतेधरे कान्तयोर्जयपराजये सति ।
अत्र वक्तु यदि वेत्ति मन्मथः कस्तयोर्जयति जीयतेऽपि वा ॥

0133

अक्षद्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डना- दाधिक्ये वद को भवानिति मृषा कोपाञ्चितभ्रू लतम् ।
स्विद्यत्खिन्नकरा ।ग्रकुड्म। लपरायत्तीकृतास्यस्य मे मुग्धाक्षीप्रतिकृत्य तत् कृतवती द्यूतेऽपि यन्नार्जितम् ॥

0134

अक्षमः क्षमतामानो क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥

0135

अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा ।
ब्राह्मीव दौर्जनी संसद् वन्दनीया समेखला ॥

0136

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
अभिध्याप्राज्ञता चैव सर्वं लोभात् प्रवर्तते ॥

0137

अक्षमोऽसत्यसंधश्च परदारी नृशंसकृत् ।
पच्यते नरकेष्वेव दह्यमानः स्वकर्मणा ॥

0138

अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत् पुरा ।
तदिदं देहि देहीति विपरीतमुपस्थितम् ॥

0139

अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य ।
किं ब्रूमो सखि यूनो न हि न हि सखि पद्यबन्धस्य ॥

0140

अक्षराणामकारोऽहम् इति विष्णुः स्वयं ब्रुवन् ।
भवता सोऽपि यत् सत्यम् आकारेण लघूकृतः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc