भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0101-0120

0101

अकृतोपद्रवः कश्चिन् महानपि न पूज्यते ।
पूजयन्ति नरा नागान् न तार्क्ष्यं नागघातिनम् ॥

0102

अकृतयं नैव कृत्यं स्यात् प्राणत्यागेऽप्युपस्थिते ।
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥

0103

अकृतयं मन्यते कृतयं अगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥

0104

अकृत्रिमप्रेमरसा विलासालसगामिनी ।
असारे दग्धसंसारे सारं सारङ्गलोचना ॥

0105

अकृत्रिमविलासाङ्कम् अशिक्षितकलाक्रमम् ।
अविभागाङ्गसुभगं बभूव सुरतं तयोः ॥

0106

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः ।
स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥

0107

अकृत्वा निजदेशस्य रक्षां यो विजिगीषते ।
स नृपः परिधानेन वृतमौलिः पुमानिव ॥

0108

अकृत्वा परसंतापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां वर्त्म यत् स्वल्पमपि तद् बहु ॥

0109

अकृत्वा पौरुषं या श्रीः किं तयालसभाग्यया ।
कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥

0110

अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥

0111

अकृत्वा हेलया पादम् उच्चैर्मूर्धसु विद्विषाम् ।
कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥

0112

अकृपणमशठमचपलं योगिनमविषादिनं बुधं शूरम् ।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता भवति ॥

0113

अकृशं कुचयोः कृशं वलग्ने विततं चक्षुषि विस्तृतं नितम्बे ।
अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ॥

0114

अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः ।
अत्यायतं नयनयोर् मम जीवितमेतदायाति ॥

0115

अकृष्टफलमूलेन वनवासरतः सदा ।
कुरुतेऽहरहः श्राद्धम् ऋषिर्विप्रः स उच्यते ॥

0116

अकेकी किं केकी वचसि चतुरः किन्न कुररः शुकः किंवा मूकः स च कलरवः किं क्षतरवः ।
त्वयागण्यैः पुण्यैः पिकमधुरिमा धीरगरिमा यतो लब्धः स्तब्धः किमसि रुचिरं नेह सुचिरम् ॥

0117

अकौसुमी मन्मथचापयश्टि- रनंशुका विभ्रमवैजयन्ती ।
ललाटरङ्गाङ्गणनर्तकीयम् अनञ्जना भ्रूरनुयाति दृष्टम् ॥

0118

अक्रत्वङ्गमतस्तक्रं न शतक्रतुना हुतम् ।
नादत्तमिति वाक्यार्थात् तक्रं शक्रस्य दुर्लभम् ॥

0119

अक्रत्वर्थमिति ज्ञात्वा शक्रे न हुतवान् पुरा ।
नादत्तमिति शास्त्रार्थात् तक्रं शक्रस्य दुर्लभम् ॥

0120

अक्रमेणानुपायेन कर्मारम्भो न सिध्यति ।
दधिसर्पिःपयांसीव शबरस्य यथा हि गोः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc