भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0081-0100

0081

अकुण्ठोत्कण्ठया पूर्णम् अकण्ठं कलकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥

0082

अकुबेरपुरीविलोकनं न धरासूनुकरं कदाचन ।
अथ तत्प्रतिकारहेतवे- ऽदमयन्तीपतिलोचनं भज ॥

0083

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥

0084

अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥

0085

अकुलीनः कुलीनश्च मर्यादां यो न लङ्घयेत् ।
धर्मापेक्षी मृदुर्दान्तः स कुलीनशतैर्वरः ॥

0086

अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् ।
दुर्लभैश्वर्यसंप्राप्तो गर्वितः शत्रुतां व्रजेत् ॥

0087

अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥

0088

अकुले पतितो राजा मूर्खपुत्रो हि पण्डितः ।
निर्धनस्य धनप्राप्तिस् तृणवन्मन्यते जगत् ॥

0089

अकूपाराद् वारि प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि प्रकिरति जलं नाद्भुतमिदम् ।
स मेघो धन्यो यत् परिकिरति मुक्ताफलतया यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥

0090

अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतलं प्रतिज्ञायां कुर्वन् युवतिषु दृशं स्निग्धतरलां ।
कुमारोऽहं कारात् परिषदि समानानगणयन् भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥

0091

अकृतकवलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः ।
गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखैर् निपतति यथा शृङ्गाग्रेभ्योऽक्रमं नयनोदकम् ॥

0092

अकृतज्ञमनार्यं च दीर्घरोषमनार्जवम् ।
चतुरो विद्धि चाण्डालाञ् जात्या जायेत पञ्चमः ॥

0093

अकृतत्यागमहिम्नां मिथ्या किं राजराजशब्देन ।
गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥

0094

अकृतद्विषदुन्नतिच्छिदः श्रितसंरक्षणवन्ध्यकर्मणः ।
पुरुषस्य निरर्थकः करः किल कण्डूयनमात्रसार्थकः ॥

0095

अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा ।
उद्धृतनयनस्ताम्यति यथा हि न तथेह जातान्धः ॥

0096

अकृत विशदधाम्नो बिम्बसारं गृहीत्वा दयित युवतिवक्त्रं लोकधात्रेति विद्मः ।
न हि न हि भवदीयो मोह एवैष मित्र सितगरलनिधानं तत्त्वतो निश्चिनु त्वम् ॥

0097

अकृतस्यागमो नास्ति कृते नाशो न विद्यते ।
अकस्मादेव लोकोऽयं तृष्णे दासीकृतस्त्वया ॥

0098

अकृतात्मानमासाद्य राजानमनये रतम् ।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥

0099

अकृतेऽप्युद्यमे पुंसाम् अन्यजन्मकृतं फलम् ।
शुभाशुभं समभ्येति विधिना संनियोजितम् ॥

0100

अकृतेष्वेवकार्येषु मृत्युर्वै संप्रकर्षति ।
युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc