भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0001-0020

0001

अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः ।
येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥

0002

अंशुकं हृतवता तनुबाहु- स्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥

0003

अंशुकमिव शीतभयात् संस्त्यानत्वच्छलेन हिमधवलम् ।
अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥

0004

अंशुकेन जघनं तिरोदधे क चुकेन च कुचौ मृगीदृशाम् ।
पीयमानमनिशं प्रियेक्षणैः क्षामतामिव जगाम मध्यमम् ॥

0005

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यंल् लोहितं वपुरुवाह पतङ्गः ॥

0006

अंशुमानपि विपाकपिशङ्गं रूपमाप परितो दिवसान्ते ।
कः परोऽत्र न विकारमुपेयाद् ध्वान्तभीमपरिवेल्लितमूर्तिः ॥

0007

अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः ।
विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥

0008

अंशोऽपि दुष्टदिष्टानां परेषां स्याद् विनाशकृत् ।
बाललेशोऽपि व्याघ्राणां यत् स्याज् जीवितहानये ॥

0009

अंसाववष्टब्धनता समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥

0010

अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंचित् कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् ।
अलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥

0011

अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर-द्वन्द्वोदीरितमन्दमन्दपवन्प्रारब्धमुग्धध्वनिः ।
ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन-न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥

0012

अंसेन कर्णं चिबुकेन वक्षः करद्वयेनाक्षि तिरोदधानाम् ।
संताडयामास हरिः समेत्य चकोरनेत्रां चलुकोदकेन ॥

0013

अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।
तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥

0014

अकण्टका पुष्पमही वेशयोषिदमातृका ।
मन्त्रिहीना च राज्यश्रीर् भुज्यते विटचेटकैः ॥

0015

अकण्ठस्य कण्ठे कथं पुष्पमाला विना नासिकायाः कथं धूपगन्धः ।
अकर्णस्य कर्णे कथं गीतनृत्यम् अपादस्य पादे कथं मे प्रणामः ॥

0016

अकपर्द्दकस्य विफलं जनुरिति जानीमहे महेशोऽपि ।
शिरसि कृतेन कपर्द्दी भवति जटाजूटकेनापि ॥

0017

अकरवमधिमौलि पादपद्माव् अपनय मानिनि मानितामकाण्डे ।
यदि पररमणीं गतस्तदाथ स्तनयुगलिङ्गयुगं स्प्र्शामि तन्वि ॥

0018

अकरुण कातरमनसा दर्शितनीरा निरन्तरालेयम् ।
त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥

0019

अकरुणत्वमकारणविग्रहः परधनापहृतिः परयोषितः ।
स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिधमिदं हि दुरात्मनाम् ॥

0020

अकरुण मृषाभाशासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् ।
अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc