भाषा

ENहिગુ
ग्रंथ पाठ

महासंनिपातरत्नकेतुधारणीसूत्र · भाग 2124

पुनर् अपरं कुलपुत्रा यावत् कर्कशत्वं तत् सर्व ं पृथिवीधातु । शक्तः स शाक्यमुनिस् तथागतस् तं सर्वपृथिवीधातुम् एक रजाग्रे प्रवेशयितुं । न च तस्यैकरजाग्रस्य सर्वपृथिवीधातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत । एवंरूपेणो पायकौशल्येन समन्वागतः स शाक्यमुनिस् तथा गतः ॥ पुनर् अपरं कुलपुत्रा यत् किंचिद् आर्द्रत्वं वा प्रज्ञायते तत् सर्वं अब्धातु । शक्तः स शाक्यमुनिस् तथागतस् तं सर्वम् अब्धातुम् एकवालाग्रे प्रवेशयितुं । न च तस्यैकस्य वालाग्रस्य सर्वाब्धातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत ॥ पुनर् अपरं कुलपुत्रा यः कश्चि द् वायुधातुः प्रज्ञायते शक्तः स शाक्यमुनिस् तथागत स् तं सर्वं वायुधातुम् एकस्मिन् रोमकूपे प्रक्षेप्तुं । तत्र च सर्वो वायुधातुस् तस् म् इन् ए कर् ओ मकूपे ( कुरुमिय 119 ) प्रवेशितो ऽपि विस्तीर्णावकाशः स्वविषयवत् संचरेत् ॥ पुनर् अपरं कुलपुत्रा यावद् उष्णत्वं प्रज्ञायते तत् सर्वं तेजोधातु । उत् ............... गतः । स च सर्वस् तेजोधातुस् तस्मिन् परमाणुरजसि विस्तीर्णावकाशः स्वविषयवत् संचरेत् ॥
पुनर् अपरं कुल पुत्रा यानि कानिचिद् दशसु दिक्षु बुद्धक्षेत्राणि तानि स र्वाणि सार्धं तैः सर्वस त् त्वैस् तैश् चतुभिर् महाभूतैः शक्तः स शाक्यमुनिस् तथागत एकरजाग्रे प्रवेशयितुं । शक्तस् तस्मिंश् च परमाणुरजसि ते सर्वसत्त्वाः सह तै र् महाभूतैः स्वविषयकर्मान्तचारिणो विस्तीर्णावकाशा विचरेयुः । न च परस्परं विहेठा भवेन् न च तस्यैकरजा ग्रस्योनत्वं वा पूर्णत्वं वा प्रज्ञायेत । एवंरूपे णोपायकौशल्येन समन्वागतः स शाक्यमुनिस् तथागतः । पुनर् अपरं कुलपुत्रा यावन्ति सर्वत्र्यध्वानु गतानां सत्त्वानां षडायतनचर्योपादानप्रणि धानाधिष्ठानवाक्पथरुताक्षरवाग्व्याहारतृसंस्कारकर्मान्तकृयास्कन्धविचारोपचय ना नोपचरणानि या च सर्व ................. क्रान्ता यावन्तश् च सर्वस त् त्वानां त्र्यध्वानुगता उपभोगपरिभोगाः सुखदुःखप्रतिसंवेदनीयाः तान् सर्वान् ए कक्षणे स शाक्यमुनिस् तथागतः प्रजाना ति । एवंरूपेण लक्षणविकुर्वाज्ञाने न स ( कुरुमिय 120 ) शाक्यमुनिस् तथागतो ऽकल्पो निर्विकल्पो ऽनाभोगः त्र्यध्वकोटीपरिज्ञातावी । एवं रूपेण कुलपुत्रा अप्रमेयेन बुद्धविषयावता रज्ञानकौशल्यसमतास त् त्वपरिपाकोपायैः समन्वागतः स शाक्यमुनिस् तथागत इति ॥ अस्मिं खलु पुनर् लक्षणानि ............... तथागता नां प्रतिप्रतिपर्षदो ऽप्रमेयासंख्येयानि बोधिस त् त्वशतसहस्राणि प्रणिधानर् द् धिविषयज्ञानपारंगतान्य् अ भवन् ॥ ॥
महासन्निपातान् महायानसूत्राद् रत्नकेतुप रिवर्तात् पंचमो लक्षणपरिवर्तः समाप्तः ॥
वि.
तेन खलु पुनः समयेन पूर्वदिग्भागाद् अभिरत्या ः लोकधातोर् अक्षोभ्यो नाम तथागतो ऽप्रमेयासंख्येयैर् बोधिसत्त्वै र् महास त् त्वैः सार्धं बुद्धविषयविकुर्वणाधिष्ठानबलेन संप्रस्थित एकक्षणमात्रेणेदं बुद्धक्षेत्रम् अनुप्रा प्तो मध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शा क्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः । आगत्य च यथाप्रादुर्भूते पद्मासने ऽस्थात् । ते ऽपि बोधिस त् त्वा महा सत्त्वाः स्वर्द्धिबलेन यथाप्रादुर्भूतेषु पद्मासनेषु तस्थुः । एवंप्रमुखाप्रमेयासंख्येया बुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः तिष्ठंतो ध्रियन्तो यापयन्त स् तेन क्षणलवमुहूर्तेनेदं बुद्धक्षे त्रं मध्यमां चातुर्द्वीपिकां लोकधातुं संप्राप्ता एकैकस् तथागतो ऽप्रमेयासंख्येयैर् बोधिस त् त्वमहा सत्त्वैः श्रावककोटीनयुतशत सहस्रैश् च सार्धं यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः । आगतागताश् च यथाप्रादुर्भूतेषु पद्मासनेषु न्यषेदुः ।
तेन खलु पुनः समये न दक्षिणदिग्भागाद् रत्नध्वजो नाम तथागत आगत्य यावद् विस्तरेण पद्मकेसरे न्यषीदत् । एवम् उत्तरदिग्भागा द् ( कुरुमिय 122 ) दुन्दुभिस्वरो नाम तथागत आगत्य पद्मकेसरे न्य षीदत् । तेन खलु पुनः समयेन पश्चिम दिग्भागाद् अमितायुर् नाम तथागत आगत्य यावत् पद्मकेसरे न्यषीदत् । यावद् अधस्ताद् वैरोचनो नाम तथागत आगत्य यावत् पद्मकेसरे न्यषीदत् । अग्रदिग्भा गाञ् ज्ञानरश्मिराजा नाम तथागतो ऽप्रमेयासंख्येयैर् गंगानदीवालुकोपमबुद्धक्षेत्रपरमाणुरजःस् अमैर् बोधिसत्त्वैर् महासत्त्वैः कोटीनय्तुतशतसह स्रैः सार्धं बुद्धविषयविकुर्विताधिष्ठानेन ततः संप्रस्थित एकचित्तक्षणेनेदं बुद्धक्षेत्रं संप्राप्तो म ध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शाक्यमुनिस् तथा गतो विहरत्य् अर्हान् सम्यक्संबुद्दः । आगत्य यथाप्रादुर्भूते पद्मसिंहासने न्यषीदत् । ते ऽपि बोधिस त् त्वा महा सत्त्वा यथैकैकपुण्यर्द्धिबलाधिष्ठानेन निर्मितेषु पद्मासनेषु न्यषेदुः । ते च दशदिक्संनिपतिता बोधिस त् त्वा ः केचिज् जाम्बूनदसुवर्णवृष्टिं ववर्षुः बुद्धानां भगवतां पूजाकर्मणे । ............. ः कृत्स्नं बुद्धक्षेत्रं प्रदक्षिणं चक्रुः । केचिद् धर्मश्रवणतृषिता बुद्धानां भगवतां पुरतः प्राञ्जलयस् तस्थुः । केचि त् ............. उः ॥
तेन खलु पुनः समयेन सुभूतिः कुमारभूतः प्रांजलिर् भूत्वा स्व र्द् ध्यनुभावेन बुद्धानां भगवतां बलाधाने न चेमं बुद्धक्षेत्रम् अशेषं गीतेन पूरयन्न् एव म् आह ।
सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता ।
अदृष्टाश्रुतपूर्वेयं संघसंपत् प्रदृश्यते ॥ र्क्प्_6.1
+ + + + + + + + + + + + + + + + ।
चैत्यभूतम् इदं क्षेत्रं सर्वक्षेत्रनमस्कृतं ॥ र्क्प्_6.2
नाहेतुर् अद्य संबुद्धा आगता मुनिभास्कराः ।
पंचकषाय + + + + + + + + + + + ॥ र्क्प्_6.3
+ + + अ द्य माराणां कृष्णपक्षप्रपातनं ।
संग्रहः शुभचर्याणाम् इत्य् अर्थं हि समागता ः ॥ र्क्प्_6.4
शृणुध्वं धर्मतां शा न्तिम् + + + + + + + + ।
+ + + + + + + भूत्वा संबुद्धा हि भविष्यत ॥ र्क्प्_6.5
मार्गचर्यं महायानं ज्ञास्यत क्षान्तिवर्मिताः ।
सर्वक्लेशक्षयार्थं श्रोष्यथा द्य धारणीम् इमाम् ॥ र्क्प्_6.6
+ + + + + + + + + + + + + + + कान् ।
आसनेषु निषण्णा हि रक्षां वै देशयन्त्व् इमाम् ॥ र्क्प्_6.7
संग्रहः सर्वधर्माणा ं धारणीम् अपराजितां ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_6.8

अथ खलु तावद् एवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिस त् त्वा महास त् त्वा एककण्ठेनैवम् आहुः । निषी दन्तु बुद्धा भगवन्त एषु पद्मासनेषु दे शयन्त्व् अद्य महाकारुणिका उत्तर महा मैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रह णीं भय ............... कर णीन् मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक् ल् एशावमर्दनीं ( कुरुमिय 124 ) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनी ं ............... सर्वरक्षाम् अनुत्तरां सर्वबोधिस त् त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञा नदर्शनीं सर्वसुखसंपन्नायतनाधि ष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणी ं यावत् सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ................ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ................ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये । बुद्धा भगवंत इहास्माकम् एतर्हीमां धार णीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै र त्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स .................. ल्पस त् त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणा भाव भूतकोट्यसंभेदतायै पृथिव्यप्तेजोवाव्याकाशविज्ञानधात्वसंभेदतायै । सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाष न् तां यद् इह सहश्रवणेनाप्रमेयाणि ( कुरुमिय 125 ) सत्त्वकोटीनयुतशतसहस्राणि त्रिरत्ने षु साक्षिणो भवेयुः । परस्परं च स त् त्वाः कल्याणमित्रहितकारिणो भवेयुः । अप्रमेयासंख्येयाश् च स त् त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयेयुर् अ वैवर्तिकाश् च भवेयुर् व्याकरणानि च प्रतिलभेरन् । सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास् तूष्णी ंभूताः ............ तेषु पद्मकेसरेषु । तादृशं च बुद्धविषयप्र णि धानसमतावतारं समाधिं समापेदिरे । यथा सर्वबुद्धक्षेत्रान्तर्गतानां ............... च बुद्धाना ं भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गत् आ न् आं ...................... श् चित्तचैत्तेषु प्रशेमुः । एकैकश् च स त् त्वः एवं संजानीते । ................. च्. त्. मामचैकस् तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ................ ॥
ते न् अ खलु पुनः समयेन ये ऽस्मिं कृत्स्ने बुद्धक्षेत्रे ऽन्तर्गताः ( कुरुमिय 126 ) सर्वस त् त्वाः सर्वेन्द्रियोपस्तब्धाः प्राञ्जलयस् त एककण्ठेनैवम् आहुः । देश यन्त्व् अस्माकं बुद्धा भगवन्तो धर्मं । देशयंत्व् अस्माकं भदन्ताः सुगात धर्मं । वयं बुद्धानां भगवतां धर्मेषु प्रतिप त्त्या ............... ॥
तेन खलु पुनः समयेन स शाक्यमुनिस् तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वम् इदं बुद्धक्षेत्रं स्फुटम् अ ध्यतिष्ठद् अपरेषां बुद्धानां भगवतां पूजा कर्मणे । सर्वबुद्धक्षेत्रान्तर्गतांश् च सर्वस त् त्वा न् नानारत्नपुष्पमाल्यविलेपनैर् नानाच्छत्रध्वजपताकालंकार व् इ भूषणैः पूर्णहस्तान् अधिष्ठायावशिष्टानां बु द्धानां भगवतां पूजाक र् म णे । एवम् आह । समन्वाहरंतु बुद्धा भगवन्तो ये केचिद् एतर्हि दशसु दिक् ष्व् .......... । अ हं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नष्टाशयानां ( कुरुमिय 127 ) प्रनष्टमा र् ग् आणाम् अविद्यान्धकारतिमिरपटलक्लेशान्धकारप्र क्षिप्तानां त्र्यपायसंप्रस्थितानाम् अकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिव र्जितानाम् आनन्तर्यकारिणां सद्धर्मपरिक्षेपकानाम् आ र्यापवादकानाम् अकृपाशयानां स त् त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रश मनाय ........ । ग्रामनगरनिगमजनपदराजधा नी ं पद्भ्याम् उपसंक्रमामि । स त् त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलम् आहा रं भुनज्मि । ............ कर्पास.ंगचीवरपांसुकूलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड ....... र् श् अं शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणा वीर्यसंनाहसंनद्धो ऽहं सत्त्वेभ्यो नानाद्यां कथां क थयामि । क्षतृयेभ्यो राजैश्वर्यकथां कथयाम् इ । ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि । अमात्येभ्यो ( कुरुमिय 128 ) जनपदकर्मान्तक थां वैद्येभ्यो धात्वौषधिसाधनकथां वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः क्षान्तिसौरत्यत्रिकर्माभियुक्तां क थां कथयामि । स त् त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रि यायै । अमुक्तानां प्रमोचना य नानाद्यानि दुःखान्य् उत्सहामि । स त् त्वपरिपाकाय जनपदचर्यां चरामि ॥
अथ च पुनर् इमे स त् त्वास् तत्र माम् आक्रोशंति परिभाष न्ति ............ धर्मेणाभूतेनाभ्याख्यान्ति । कुहनलपनमायाशाठ्यमृषावादपारुष्यै ः स्त्रीवचनैर् अभ्याख्यान्ति । पांसुभिर् माम् अवकिरंति । शस्त्रविषाग्नि चक्रतोमरशरखड्गशक्ति परश्वधशिलायुधवृष्टिभिर् मम वधाय पराक्रमंति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्ना ं श् च मद्वधायोत्सृज न्ति । ममावासविहारकूटागारान् आशु चिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्त र् नगरम् ( कुरुमिय 129 ) अनुप्रविष्टानाम् इमे अनार्याः स त् त्वा अनाचारेण नृत्यगीत् एन् आनुविचारि नः । अनेकैः शतसह स्रोपायैर् मद्वधायोद्युक्ता ः । शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदा य मद्धर्मयज्ञावकिर णायोद्युक्ताः ॥

तत् खल्व् एतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां धर्म नेत्री ं व्यवलोकयन्ति । यथा तैर् बुद्धैर् भगवद्भिर् अस्मिं क्लिष्टे पंच कषाये बुद्धक्षेत्रे मह् आसन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना र्थं त्रिरत्नवंशस्थित्यनुपच्छेदार्थं स त् त्वानां कुशल मूलवर्धनार्थं सर्वामित्र परप्रवादिसहधर्मनिग्रहार्थं स त् त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि वायुकायवाङ्मनोदोषकुदृ ष् ट् इप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्राम निगम राष्ट्ररक्षणार्थं सर्वशाठ्यविषका खोर्दमोहनदुःस्वप्नदुर्निमित्तविन् आशनार्थं ( कुरुमिय 130 ) सर्वधान्यौषधिफलपुष्परसस त् त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधि चित्तोत्पादनार्थं पारमितावतारणा र्थं बोधिस त् त्वानां महास त् त्वानाम् उपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थम् अभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तै ः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यम् अनुमोदितः । ते साध्व् एवम् एवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठंतो ध्रियन्तो यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास् ते सर्वे ऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वम् अधितिष्ठतान्योन्यं भाषितम् अनुमोदध्वं स द् धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावद् अनावरणज्ञानपारंगमार्थम् अनुकंपायै ममाध्येषणाय यद् इह बुद्धक्षेत्रे सद्धर्मनेत्री चिर ं तिष्ठेद् अनतिक्रमणी सर्वपरप्रवादिभिर् अविप्रलोपधर्मिणी स्या त् । त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वस त् त्वोपजीव्यः ( कुरुमिय 131 ) स्यात् ।
अथ ते बुद्धा भगवंत एवम् आहुः । एवम् एतद् अवश्यम् एवास्माभिर् बुद्धकार्यं करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीम् अधिष्ठास्यामश् चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावद् अनावरणज्ञानपारंगमाय यद् इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्याय ं भाषिष्यामः । शृण्वन्तु सर्वस त् त्वा ये केचिद् इह बुद्धक्षेत्रे ऽन्तर्गता ः ॥ तद्यथा ।
अङ्कर अङ्गर । भङ्कर प्रभङ्कर । भयम् इह । मित्रं भसे । अखे अखमंबरे । दोमे दोमन्ते केवट्टे केयूरे । समवहने । समन्तभद्रे । धर्मे धर्मे । धर्मके । जफले । मित्रानुफले । फलवते । गणे गणबरंते । हिलि हिलि । हिला हिलके । जंभवते टकसे टकंते । टकवरान्ते । गणवहन्ते । हिरिन्ते । शिरिन्ते । विन्दुवते । गोवाहे जुरे मित्रजुरे । जुसे अग्रे । अबमे सत्य तथतां । ( कुरुमिय 132 ) हुलु । हिले । चन्द्रे । सम धर्मे । धर्मे । कुचुरु । मुचुरु । अचिट्ट चिलि चिलि । चिचवह । चुलु चुलु । मित्रवह कुलु कुलु । सर सर । कुटु कुटु । महासर । तुटु तुटु । महासत्य हृदय । पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे । करक्षे । अभयम् अस्तु विवाह । तितिले । ममले । पश्वख । शिशिर लोकविनायक । वज्रे वज्रे धरे । वज्रवते । वज्रददे । चक्रवज्रे चक्रे । चवते धरे धरे । भरे भरे पूरे टरे । हुहुरे । भंगविवरे । शरीश । चिलि चुरु । मूले मण्डले । मण्डने । गगरणे । मूडके सर्वमूडके । धिधिरयनि । मखिश्वरलयनि । ( कुरुमिय 133 ) रिषिजनि । धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना । ममिनि । फलरति ओजाग्रे । विचिनि । वनरह । बुबुरे गुरु गुरु मुरु मुरु । हिलि हिलि । हर हर । काकण्डवह हिहितां । आयुहन । कुण्ड ज्वाल भसे । गर्दने । आदहनि । मार्गाभिरोहणि । फलसत्ये । आरोहवति । हिलि हिलि । यथा वजय । स्वाग्र यथापरं च हृदयब् आ हसत्य । परिभाव । मार्गाभिरोहणे । अचल । बुद्धि । दद प्रचल पचय । पिण्डहृदय चन्द्रचरह । अचले । शोधने । प्रकृतिमार्गे इल् इ इलिले प्रभे सारप्रते सर्वत्र तथता सत्यानुगते । ( कुरुमिय 134 ) अनावरणब्रते । अलत । अंगुरे शामिनि । विब्रह्मवयो हि अहित । अवाहि । निरवयव । अच् इ रमार्ग । लन लघुसरे । त्रिरत्नवंशे धर्मकाय । ज्वलचन्द्रे समुद्रवति । महाद्भूतव्यय समुद्र वेगव । धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविद् अमुद्र । आवर्तनि । संमोह स्कार विद्युतरसेन । क्षिति मुद्रितो सि । ये केचि प्रथिवी वाह । बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर धर धर । दन्तिला दन्तिन्दाला । हुस्क सर्वहृदय मुद्रितो सि । जड जवट्ट जखवट । सुमति मति । महाद्भूत मुद्रिता । ये केचि षडायतननिशृता भूता इनि मिने सचने । घोषसचने । मुद्रिता चर्याधिष्ठान । वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता । सर्वसम्यक्प्रतिपत् ( कुरुमिय 135 ) चिररात्रं ज्वलतु ध र्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा ॥
अथ तावद् एव सर्वबुद्धक्षेत्रान्तर्गताः सर्वस त् त्वास् त्रिष्कृत्वैवम् आहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवम् चाहुः । अहो महाश्चर्यो मुनिसन्निपातः । अहो महाश्चर्यो बोधिस त् त्वानां महास त् त्वानां महाश्रावकाणां च सन्निपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्याय ः सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वं स नो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् एतर्हि सर्वबुद्धैर् भगवद्भिर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वस त् त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वस त् त्वानाम् अनुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिं खलु पुनर् धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां ( कुरुमिय 136 ) बोधिस त् त्वानां महास त् त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् ॥

तेन खलु पुनस् समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्रा ञ्जलि र् भूत्वा समन्ततो ऽवलोक्य बुधाधिष्ठानेन स्वर् द् धिबलानुभावेन सर्वम् इदं बुद्धक्षेत्रं स्वरेणापूर्यैवम् आह ।
दुर्लभा जिनचन्द्राणाम् ईदृशी पर् इ षत् पुनः ।
विद्वांसो दुर्लभाश् चेमे बोधिस त् त्वा महाव्रता ः ॥ र्क्प्_6.19
ईदृशायाश् च मुद्राया ः श्रवणं परमदुर्लभम् ।
येयं कारुणिकैर् नाथैर् धर्मनेत्री स्वधिष्ठिता ॥ र्क्प्_6.20
सर्वेषां मारपक्षाणां शत्रूणां च पराजयः ।
रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः ॥ र्क्प्_6.21
सर्वावरणनाशाय क्षान्तिसौरत्यवर्धनी ।
स त् त्वानाम् आवर्जनी चेह राज्यराष्ट्रस्य पालनी ॥ र्क्प्_6.22

वारणी दुष्कृतस्येह कुदृष्टिप्रतिषेधनी ।
आश्वासो बोधिस त् त्वाना ं बोधिमार्गप्रदर्शनी ॥ र्क्प्_6.23
पारमितावर्धनी चैव भद्रचर्याप्रपूरणी ।
उपायज्ञानप्रतिभानवृद्धये स्व धिष्ठिता ॥ र्क्प्_6.24
संग्रहः शुक्लपक्षस्य धारणी स्वपराजिता ।
निरञ्जाना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् ॥ र्क्प्_6.25
सर्वां विनीय विमतिन् धारणीम् अधिमुच्यते ।
एष वै सकलो मार्गो येन बोधि ः प्रवर्तते ॥ र्क्प्_6.26
वयं भूयः प्रवक्ष्यामो धारणीम् अपराजितान् ।
धर्मभाणकरक्षायै श्रोत्रीणाम् अभिवृद्धये ॥ र्क्प्_6.27
छन्दं ददाति को न्व् अत्र बोधिस त् त्वो महायशाः ।
अनावरणभावाय स त् त्वानां हितवृद्धये ॥ र्क्प्_6.28
तेन खलु पुनः समयेन गंगानदीवलुकासमाः कुमारभूता बोधिस त् त्वा महास त् त्वा एककण्ठेनैवम् आहुः । वयम् अप्य् अस्यान् धारण्या ं छन्दं ददामो ऽधिष्ठामः । यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंछन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते च्छत्रध्वजपताकोच्छ्रेपिते स्वलंकृते मण्डलमाडे मृदुसुखसंस्पर्शे सिंहासने ऽभिरुह्येमान् धारणीं संप्रकाशये त् । न चास्य कश्चि च् चित्तसंक्षोभं धातुसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति । न चास्य कश्चित् काये श्वासं मोक्ष्यति । शीर्षरोगं च कर्तु ं शक्ष्यति । नेदं स्थानं विद्यते । न कायरोगं वा न जिह्वारोगं न दन्तरोगं नास्थिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठिरोगं नान्त्ररोगं नोदररोगं न श्रोणीरोगं नोरुरोगं न जंघारोगं कश्चित् कर्तु ं शक्ष्यति । न चास्य स्वरसंक्षोभो भविष्यति यश् ( कुरुमिय 138 ) च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमान् धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति । कर्मपरिक्षयात् स्वस्तिर् भविष्यति । ये ऽपि तत्र धार्मश्रावणिकाः सन्निपतिष्यंति तेषाम् अपि न कश्चिद् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा । ये च तत्रेमान् धारणीं श्रोष्यंति तेषा ं यद् अशुभेन कर्मणा दीर्घगैलान्यं धातुसंक्षोभो वा स्वरसंक्षोभो वा स्या त् तत् सर्वं परिक्षयं यास्यति ॥
अथ खलु चन्द्रप्रभ ः कुमारभूतः येन ते बुद्धा भगवन्तो गंगानदीवालुकासमा बोधिस त् त्वपरिवारास् तेनांजलिं प्रणम्यैवम् आह । समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददन्तु ॥ तद्यथा ।
क्षन्ते असमारोपे । मेत्रे सोमवते । एहि नवकुंजवे नवकुंजवे नवकुंजवे । मूलशोधने । वढक वढक । मार व तथता परिच्छेद बढसे बढसे । अमूल अचले दद प्रचला । विधिले एकनयपरिच्छेद । चण्डतृणे बो स रे बोसरतृणे । खगसुरतृणे स्नवसुरतृणे भूतकोटी ( कुरुमिय 139 ) परिच्छेद । जलख । जलख । वये जलख । नमक्षख । ककख । ह ह ह ह । फु फु फु फु । स्पर्शवेदनपरिच्छेद । अमम । न्यमम ख्यमम समुद्र मुद्रबख संस्काराणां परिच्छेद बोधिस क्षितिविम । महाविम भूतकोटि आकाशश्वासपरिच्छेदे स्वाहा ॥
तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिस त् त्वा महास त् त्वास् ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा स् ते च महौजस्कमहौजस्काः स त् त्वाः सर्वे साधुकारं प्रददुः । ते च बुद्धा भगवन्त एवम् आहुः । महाबलवेग व ती सर्वशत्रुनिवारणी बतेयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमि त् तमोक्षणी यावद् अनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्देयं धारणी भाषिता ॥
तेन खलु पुनः समयेन भूतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायु षः पुरतो निषसाद । परमवर्णपुष्कलतया समन्वागतः दिव्यातिक्रान्तैः परमोदारैर् वस्त्रालंकारैः पुष्पगन्धमाल्यविलेपनैश् चाभ्यालंकृतः । अथ भूतेश्वरो महाब्रह्मा उत्थायासनाद् अंजलिं प्रणाम्यैवम् आह । अधितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयं । न च मे ऽत्र कश्चिद् विघ्नो ( कुरुमिय 140 ) भवेत् ।
यावद् अहम् एतर्हि धर्मभाणकानां धार्मश्रवणिकानां चार्थे तादृशी ं मन्त्रपदरक्षां भाषेत । यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो व नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो नागपार्षदि वा नागपोतको वा नागपोतिका वा विस्तरेण कर्तव्यम् । यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो पिशाचपार्षदि वा पिशाचपोतको वा पिशाचपोतिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धार्मश्रवणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतांतशो धर्मभाणकानां धार्मश्रवणिकानां वा एकरोमकूपम् अपि विहेठयेद् विहिंसयेद् विप्रलोपयेद् ओजो वाहरेच् छ्वासं वा काये प्रक्षिपे द् दुष्टचित्तो वा प्रेक्षेतान्तशः एकक्षणम् अपि तेषाम् अहं माराणां यावन् मनुष्यामनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्यां जम्भनं मोहनं शपथं दद्या ं । अधितिष्ठंतु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यद् अहम् इदं कृ त्स्न ं बुद्धक्षेत्रं स्वरेणापूरयेयं । कश् चात्र मे साहयो भविष्यतीति ॥
अथ खलु ते बुद्धा भगवन्तस् तूष्णींभावेनाधिवासयाम् आसुः । तत्र ( कुरुमिय 141 ) च शिखिन्धरो नाम शक्रः जांबूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः । अथ शिखिन्धरश् शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह । मा भगिन्य् अमितायुषस् तथागतस्य पुरतो निषीदस्व । मा भगिन्य् अत्र प्रमद्यस्व । मा भगवन्तं विहेठय । तत् कस्य हेतोः ।
प्रपंचाभिरता बाला निष्प्रपंचास् तथागताः ।
संस्कारं दर्शयन्ते चोत्पादव्यवलक्षणम् ॥ र्क्प्_6.29
सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तस् तथागतः । न भगिनि तथागत स् तथतां विरोधयत्य् एकसमतया तथतया । यदुताकाशसमतया । आकाशम् अप्य् असमारोपतृसंस्कारव्ययलक्षणं । यथाकाशम् अकल्पम् अविकल्पं संस्कारेषु । एवम् एव तथागतः कामगुणा न् न प्रपंचयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति । एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धधात्वायतनानि प्रपंचयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति । कथं नाम त्वं भगिनि तथागतकायं प्रपंचयसि । अमितायुस् तथागत आह । समीक्ष्य देवानाम् इन्द्र वाचं भाषस्व । मा ते स्याद् दीर्घरात्रम् अनिष्टं फलं । महासत्पुरुषो ह्य् एष बहुबुद्धकृताधिकारो ऽवरोपितकुशलमूलो बुद्धानां भगवताम् अन्तिके ।

अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपम् अभिनिर्मितं । मा त्वम् एनं स्त्रीवादेन समुदाचरे ।
अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह । क्षमस्व कुलपुत्र ममानुकंपाम् उपादाय । मा चाहम् अस्याभिभाषितस्यानिष्टं ( कुरुमिय 142 ) फलं प्राप्नुयाम् इति ॥
अथ कौतूहलिको बोधिस त् त्व आह । यदि भगवञ् छक्रेणेदं वचनम् अप्रतिदेशितम् अभविष्यत् कियांश् तस्य फल्विपाकः । अमितायुषस् तथागत आह । यदि कुलपुत्रानेन न प्रतिदेशितम् अभविष्यच् चतुरशीतिर् जन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीत ः स्यात् । तस्मात् तर्हि रक्षितव्य ं वाक्कर्म । प्रतिभातु ते कुलपुत्राधिष्ठितस् तथागतैः तव स्वरमण्डलवाग्व्याहारः ॥
अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्रांजलिर् दशदिशो व्यवलोक्यैवम् आह । समन्वाहरंतु मां बुद्धा भगवन्तो बोधिस त् त्वाश् च महास त् त्वा महाश्रावकाश् च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश् चात्र च्छन्दं ददन्तु यस्यायम् अभिप्रायः स्याद् इयं धर्मनेत्री चिरस्थितिका भवेद् धर्मभाणकानां धार्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठा भवेद् इति । स च मे च्छन्दं ददातु यत् पश्चिमे काले न मारा यावन् मनुष्यामनुष्यास् तेषां विहेठां कुर्युः । अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय ..... .आय च स्वरशब्दं मुमोच । तेन च शब्देन सर्वाम् इमां लोकधातुम् आपूरयाम् आस ॥
तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवम् आहुः । ( कुरुमिय 143 ) वयम् अपि अस्यां धारण्यां छन्दं ददामः । स्वयं च पश्चिमे काले इमान् धारणी ं धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामस् ता ं श् च धर्मभाणाकान् धार्मश्रावणिकांश् च प्रतिपत्तियुक्तान् रक्षिष्यामः । वद त्वं सत्पुरुष । वयं बुद्धानां भगवतां बोधिस त् त्वानां महास त् त्वानां च महाश्रावकानाम् च पुरतो ऽस्यान् धारण्यां छन्द ं ददाम ः ॥
अथ खलु भूतेश्वरो ब्रह्मा एवम् आह । अधितिष्ठंतु मे बुद्धा भगवंतो बोधिस त् त्वा महास त् त्वा महाश्रावकाश् च ॥ तद्यथा ।
अमले विमले गणषण्डे । हारे चण्डे महाचण्डे चमे महाचमे सोमे स्थामे । अबह विबह । अंगजा नेत्रखवे मूलपरिच्छेदे यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि संकारणि जंभनि मोहनि । उच्छाटनि हमह । मह मह मह आकुंचने । खगशव । अमल । मूल मूलपरिवर्तते असारखव स्वाहा ॥
य इमान् अतिक्रमे न् मन्त्रान् न चरेद् गणसंनिधिं ।
अक्षि मुष्येत् स्फलेत् शीर्षम् अंगभेदो भवेद् अपि ॥ र्क्प्_6.30
तद्यथा ।
अच्च अवह चचचु क्रक्ष चचट क चचा नखग चच । चच चच । न च हमूल चच । चमूल चचह । अमूल चच । हमूल । मू बडबहा स्वाहा ॥
अथ तावद् एव सर्वे ब्रह्मेन्द्रा यावत् पि शा चेन्द्राः साधुकारं ददुः । एवं चाहुः । अतीव महासहस्रबलवेगप्रमर्दनान्य् एतानि मन्त्रपदानि । पाशो ऽयं सक्तः सर्वाहितैषिणां भूतानां कुत ः पुनस् तेषां जीवितं । भूतेश्वरो ब्रह्मा एवम् आह । ये दुष्टाशया अकृपा अकृतज्ञा भूताः स त् त्वानां विहेठकामा वा मारपार्षद्या वा अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञा ं क्षत्रियाणां मूर्धाभिषिक्तानां अवतारप्रेक्षिण उपसंक्रमेयुर् अग्रमहिषीणां पुत्रदुहितॄणा ं चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानाम् अन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषदारकदारिकाणाम् उपासकोपसिकानां वा धर्मभाणाकानां धार्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां ( कुरुमिय 145 ) वैयापत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः अन्तश एकच् इ त्तक्षणं तेषाम् एकरोमकूपम् अपि विहेठयेयुर् विहिंसेयुर् विप्रल् ओ प ये युर् ओजो वापहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षे र् अङ् क्लि न् नदुर्गन्धकायानां तेषा ं माराणां यावन् मनुष्यामनुष्याणां सप्तधा मूर्धं स्फलेद् अक्षीणि चैषां विपरिवर्तेरन् हृदयान्य् उच्छुष्येरञ् छ्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीणा भूमिश् च तेषां विवरम् अनुप्रयच्छेत् । वायवश् च तांश् चतुर्दिशं विक्षिपेयुः । पांसुभिर् अवकीर्णास् तत्रैव विक्षिप्तचित्ताः पर्यटेयुः । ये भूमिचरास् ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतिर् योजनसहस्राण्य् अधस् तत्रैव तेषाम् आयुःपरिक्षयः स्यात् । ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्ना ः स्यु राज्ञा ं क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद् वैयापत्याभियुक्तानां भिक्षूणां विहेठां कुर्युस् तेषाम् अपि तथैव सप्तधा मूर्धं स्फलेत् । यावत् तत्रैव तेषाम् आयुःपरिक्षयः स्याद् य इमान् मन्त्रान् अतिक्रमेयुः । अपि च यस्मिं विषये ऽयं मारमण्डलापराजितो धारणीमुद्राधर्मपर्यायः प्रचरिष्यति तत्र वय ं रक्षावरणगुप्तये ( कुरुमिय 146 ) औत्सुक्यम् आपत्स्यामः । सर्वा ं श् च तत्र धर्मकामान् स त् त्वान् परिपालयिष्यामः । सर्वां
............................. @fओलिओ 72 तो 87 अरे मिस्सिन्ग् इन्च्लुदिन्ग् छप्तेर्स् विइ तो इx@@
x.
......................................................................................................................................................
सर्वो ऽब्धातुः सर्वस् तेजोधातुः सर्वो वायुधातुः सर्व आकाशधतुर् अधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वस त् त्वपरिपाकार्थं यावत् संसारपारंगमनार्थं ॥

अथ खलु सर्वे ते बुद्धा भगवंतो ये तद्बुद्धक्षेत्रनिवासिनो बोधिस त् त्वा महास त् त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः स त् त्वा ये च चातुर्द्वीपिकायां लोकधातौ नेवासिकास् ता न् सर्वान् आम न् त्र्यैवम् आह । युष्माकं मार्षा हस्ते भूयिष्ठतरम् इमां सद्धर्मनेत्रीम् अधिष्ठाय परिन्दामः सर्वस त् त्वपरिपाकार्थं । तथा युष्माभिर् इयं सद्धर्मनेत्री मनसिकर्तव्या उ ज् ज्वालयितव्या रक्षितव्या यथा न क्षिप्रम् इहायं सद्धर्मः प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च इमां महासन्निपातधर्मपर्यायं धारयिष्यंति यावल् लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः ( कुरुमिय 148 ) सद्धर्मधारका ः पुद्गलास् तान् सर्वान् युष्माकं हस्ते न्यायतः परिन्दामः आरक्षपरिपालनतायै । धर्मभाणकाः पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रवणिकाः सद्धर्मधारकाः युष्माभि रक्षितव्याः यावत् परिपालयितव्याः । तत् कस्य हेतोः । येह ते भूतास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वैस् तैस् तथागतैः क्लिष्टे पंचकषाये बुद्धक्षेत्रे सन्निपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परीत्तारक्षायै अनन्तर्धानाय सद्धर्मधारकपुद्गलारक्षायै यावत् सर्वस त् त्वपरिपाकाय । एवम् एव ये भविष्यन्त्य् अनागते ऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः ते ऽपि सर्वे क्लिष्टेषु पंचकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य स त् त्वहितार्थम् एतानि धारणीमन्त्रपदानि भाषिष्यंते । इमां च धर्मनेत्रीम् अधिष्ठास्यंते । सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीम् अनुपरिन्दीष्यंति रक्षापरिपालनार्थं । तथा वयम् अप्य् एतर्हि युष्माकम् इह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकानिवासिनां च शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै स त् त्वपरिपाकार्थं । तथा युष्माभिर् इयं सद्धर्मनेत्री ( कुरुमिय 149 ) मनसिकर्तव्या प्रो ज् ज्वालयितव्या यथा न क्षिप्रम् एव प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च सद्धर्मधारकाश् च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका य इमं महासन्निपातं धर्मपर्यायं धारयंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयन् ति धर्मभाणका धार्मश्रवणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस् ते रक्षितव्याः पूजयितव्याः । तत् कस्य हेतोः । सर्वबुद्धाधिष्ठितो ऽयं धर्मपर्यायः । यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येतोद्दिश्येत पर्यवाप्येत वान्तशः पुस्तकलिखितम् अपि कृत्वा धार्येत तेन धर्मरसेन पृथिवीरसस त् त्वौजांसि विवर्धिष्यन्ति । तेन यूयम् ओजोवन्तस् तेजोबलवीर्यपराक्रमवन्तो भविष्यंति । परिवारविमानवृद्धिश् च युष्माकं भविष्यति । मनुष्यराजा अप्य् आरक्षिता भविष्यंति । राजैश्वर्येण ते विवर्धिष्यन्ति । सर्वराष्ट्रं च तेषाम् आरक्षितं भविष्यति । तेन च धर्मरसेन सन्तर्पिता जंबुद्वीपराजानः परस्परहितचित्ता भविष्यंति । कर्मविपाकं श्रद्दधास्यंति कुशलचित्ता भविष्यन्त्य् अमत्सरचित्ता हितवस्तुचित्ता सर्वस त् त्वदयाचित्ताः यावत् सम्यग्दृष्टिका राजानो भविष्य न्ति । प्रति प्रतिस्वविषये ऽभिर ं स्यन्ते । ( कुरुमिय 150 ) अयं च जंबुद्वीप ः स्फीत उदारजनाकीर्णो भविष्यति सुभिक्षतरो रमणी य तरश् च भविष्यति । बहुजनमनुष्याकीर्णा ओजोवति च पृथिवी भविष्यति स्निग्धतराणि च मृष्टतरफलानि च पत्रौषधिधनधान्यसमृद्धतरा चारोग्यसुखस्पर्शविहारसंजननी च भविष्यति । सर्वकलिकलहदुर्भिक्षरोगपरचक्रदंशमशकशलभाशीविषदुष्टयक्षराक्षसमृगपक्षिवृकाकालवातवृष्टयः प्रशमिष्यन्ति । सम्यङ्नक्षत्ररात्रिदिव समा सार्धमासर्तुसंवत्सराणि प्रवहिष्यंति । स त् त्वाश् च प्रायो दशकुशलकर्मपथचारिणो भविष्यंति । इतश् च्युताः सुगतिस्वर्गगामिनो भविष्यंति । ते ऽपि युष्मत्परिवारो भविष्यति । एवं बहुगुणमहानुशंसो ऽयं धारणीधर्मपर्यायः । सर्वबुद्धाधिष्ठितो महासन्निपातः स त् त्वानां संस्कारपारंगमाय यशोविवृद्धिपारिपूर्यै भविष्यति निरवशेषमातृग्रामभावपरिक्षयायोपपत्तिवेदनीयो ऽपरपर्यायवेदनीयः संक्षेपाद् ( कुरुमिय 151 ) दृष्टधर्मवेदनीयो ऽपि सो मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वार्यापवादकं वा । यद् अन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति । य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितम् अपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशावरणानि परिक्षय ं यास्यंति । सर्वकुशलमूलारंबणानि च विवृद्धिं पारिपूरिं यास्यंति । सर्वांगपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि विवर्धिष्यंति । सर्वकुदृष्टिप्रहाणं सर्वशत्रुसहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति । अस्य सर्वबुद्धाधिष्ठितस्य महासन्निपातधारणीधर्मपर्यायस्य प्रभावेन ॥ यत्र च विषये पुनर् अयं धारणी धर्मपर्यायः
प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति । ओजोवती मृष्टफलरसा भविष्यति । तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति । पुष्पफलसमृद्धतरा धनधान्यकोशकोष्ठागारकुंभकलशवृद्धिर् भविष्यति । वस्त्रान्नपानौषधोपकरणभूयिष्ठतराः ये च तत्रान्नपानोपजीविनः स त् त्वास् ते ऽरोगतरा भविष्यंति वर्णवन्तो बलवन्तः स्मृतिवन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिता ः । ते ततश् च्यवित्वा युष्माकं सहभाव्यतयोपपत्स्यंते । ( कुरुमिय 152 ) तया यूयं परिवारवृद्ध्या बलवन्तो ऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यत । स त् त्वान् धर्मार्थेषु नियोक्ष्यत । एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति ॥

अथ खलु मान्दारवगन्धरोचस् तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नम् इदं बुद्धक्षेत्रम् आपूर्य सर्वे च बोधिस त् त्वा महास त् त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां वचनेन चास्य महा सन्निपातसूत्रस्य धर्मनेत्र्या धारणाय प्रकाशना य रक्षणायोत्साहयाम् आस ॥
तेन खलु पुनः समयेन मैत्रेयपूर्वंगमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महास त् त्वानाम् इह बुद्धक्षेत्रे निवासीनि तानि सर्वाण्य् एककण्ठेनैवम् आहुः । वयम् अपि सर्वबुद्धानां भगवतां वचनेन सर्वनेत्र्यध्वानुगतानां तथागतानां पूजार्थम् इमं धर्मपर्यायं न्यायतः शास्तृसंमतं गुरुगौरवेण प्रतिगृह्णीमः । कारुण्येन स त् त्वपरिपाकार्थं यावद् अनुत्तरे मार्गे प्रतिष्ठापनार्थं वयम् इमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेणो द् द्योतयिष्यामः । स त् त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं । तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस् तद्बुद्धक्षेत्रान्तर्गता ः साधुकारं प्रददुः । साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् ॥
अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चैह बुद्धक्षेत्रे ऽपराणि चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां स त् त्वानां ते सर्वे एककण्ठेनैवम् आहुः । वयम् अपीमं महासन्निपातं धर्मपर्यायम् उद्गृहीष्यामो यावद् विस्तरेण संप्रकाशयिष्यामः समु द् द्योतयिष्यामः स त् त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं । सद्धर्मधारकान् धार्मश्रवणिकांश् च रक्षिष्यामः परिपालयिष्यामः । यत्र चायं धर्मपर्यायः प्रचरिष्यति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानि दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः । क्षेमरमणीयतां सुभिक्षसामग्री ं संपादयिष्यामः । सद्धर्मनेत्रीचिरस्थित्यर्थम् उद्योगम् आपत्स्यामः । भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः । ध्यानाभिरतांश् च स त् त्वान् रक्षिष्यामः । अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः । साधु साधु भद्रमुखा एवं युष्माभिः करणीयं । आत्मोभयपरार्थम् उद्योगम् आपत्तव्यं । एवं च युष्माभिस् त्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । यत्र हि नाम यूयं स त् त्वपरिपाकार्थं सद्धर्मनेत्र्युज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्युक्ता न चिरेण यूयं क्षिप्रम् अनुत्तरां सम्यक्संओधिम् अभिसंभोत्स्यत ॥
अथ खलु ये ऽस्यां मध्यमायां चातुर्द्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महौजस्कमहौजस्काः स त् त्वास् ते सर्वे ( कुरुमिय 154 ) उत्थायासना त् प्रांजलयः स्थित्वैवम् आहुः । वयम् अपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीम् उ द् द्योतयिष्यामः रक्षिष्यामः । इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्पपर्यायं न्यायतः प्रतिग्रहीष्यामः यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण सम्प्रकाशयिष्यामः । सद्धर्मधारकांश् च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः । ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धार्मश्रवणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्रद्धाः कुलपुत्रा ः कुलदुहितराश् च इमं धर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति ध्यानाभियुक्ताः तां वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर् याव त् सर्वभैषज्यपरिष्कारैः सत्करिष्यामः । अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयम् उपसंक्रमिष्यामः श्रवणाय । शास्तृसंज्ञया वयम् इमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः छत्रध्वजपताकाभिः । तत् कस्य हेतोः । अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेनौजोवन्तो भविष्यामः । बलवन्तो वीर्यवन्त ः स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः । एवं ( कुरुमिय 155 ) वयं सर्वविषये सर्वां कलिकलह विग्रह विवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानाव्र्ष्टिदु ः स्वप्नदुर्निमित्तदुष्टरूक्षपरुषतिक्तकटुकविरसाकुशलपक्षकरान् भावान् प्रशमयिष्यामः । भूयस्या मात्रया क्षेमस् उ भिक्षान्नरमणीयारोग्यसामग्रीं संपादयिष्यामः । कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः । सम्यग् रात्रिदिवसमासार्धमासर्तुसंवत्सरान् आ वा हयिष्यामः । सम्य ग् ग्रहनक्षत्रसूर्यचन्द्रमस आवाह्यिषामः । नद्युत्ससरस्तडाकपुष्करिणीः प्रपूरयिष्यामः । यत्र स त् त्वानाम् उदकौघेन पीडा भविष्यति तद् वयं प्रतिनिवारयिष्यामः । भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु स त् त्वहितार्थं पत्त्रशाखापुष्पफलकन्दधान्यौषधसस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः । धनधान्यौषधवस्त्राभरणैः स त् त्वानाम् अवैकल्यं संपादयिष्यामः । तेषां च स त् त्वानां कुशलपर्येष्टि .... येषु गृहनगरनिगमजनपदराजधानीष्व् अयं सर्वबुद्धाधिष्ठि तो धारणीमुद्राधर्मपर्यायः प्रकाश्येतान्तशः पुस्तकलिखितम् ( कुरुमिय 156 ) अपि कृत्वा धार्येत वाच्येत वा पूजासत्कारेण वा धार्येत । तेषु ये राजानो भविष्यंति तान् वयं क्षत्रियां मूर्धाभिषिक्तान् रक्षिष्यामः परिपालयिष्यामो ऽहितं चैषाम् अपनयिष्यामो हितं चैषाम् उपसंहरिष्यामः । सर्वकौतुकामङ्गलकुदृष्टिकुकार्यक्वधिष्ठानकुप्रणिधकुशरणकुहनलपनमायाशाठ्यमृषावादेर्ष्यारोषमात्सर्याणि प्रशमयिष्यामः । सम्यग्दृष्टिमार्गे ऋजुके श्रद्धादमसंयमह्री-र्-अवत्राप्येषु सन्नियोक्ष्यामः । एवम् अग्रमहिषीणाम् अन्तःपुरक् आ णाम् अमात्यगण क महामात्रनैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुअषदारकदारिकाणाम् अपि रक्षां करिष्यामः परिपालनं यावद् ध्री-र्-अवत्राप्ये सन्नियोक्ष्यामः । अन्तशश् चतुष्पदान् अपि तेषु विषयेषु रक्षिष्यामः । एष्व् अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल् लिखितम् अपि पुस्तके स्थास्यति । एवंरूपैर् वयं महद्भिर् उद्योगपराक्रमैः तां स त् त्वान् परिपालयिष्यामः । धर्मनेत्रीसमुद्द्योतार्थम् अनन्तर्धानायोद्योगम् आपत्स्यामः ॥
अथ ते सर्वे बुद्धा भगवन्तस् तेभ्यः सत्पुरुषेभ्यः साधुकार ं प्रददुः । साधु साधु भद्रमुखाः । एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास् त्रिरत्नवंशस्य चानंतर्धानायोद्युक्ता एवं युष्माभिः ( कुरुमिय 157 ) सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यतीति ॥ ॥

रत्नकेतुसूत्राद् दशमः आरक्षापरिवर्तस् समाप्त ः ॥ ॥
xइ.
अथ खलु भगवाञ् छाक्यमुनिस् तथागतः शक्रब्रह्मविरूढकविरूपाक्षधृतराष्ट्रकुवेरान् आमन्त्रयति स्म । अहं भद्रमुखा इह क् ल् इष् ट् ए पंचकषाये बुद्धक्षेत्रे स त् त्वा नां कारुण्यप्रणिधानेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो धर्म दुर्भ् इ क्ष् ए ऽविद्यान्धकारप्रक्षिप्ताना ं क्लेशतस्करधूर्त् ओ पद्रु तानां सत्त्वानां क्लेशप्रशमनार्थम् । मारपक्ष् ओ मे पराजितः सद्धर्मध्वजोच्छ्रेपितो ऽप्रमाणाः स त् त्वा दु ःखाच् च परिमोक्षिताः सद्धर्मवृष्टिर् उत्सृष्टाः मारकोट्यो मे पराजिता । ........ भद्रमु खा युष्माकं हस्ते ऽनुपरिन्दामि । यद् एभिर् अप्रमाणैर् गणनासमतिक्रान्तैर् बुद्धैर् भगवद्भिर् बोधिस त् त्वैर् महास त् त्वैश् च दशदि ग्भ्यो लोकधातुभ्यः ( कुरुमिय 159 ) सन्निपतितैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसर्वसमुच्छ्रयविध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो ध र्मपर्यायो ऽधिष्ठितो बुद्धक्षेत्रपृ थिवीरसस त् त्वसंवासदोषाणां प्रशमाय स त् त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्नवं शचिरस्थित्यर्थं यावत् सकल बुद्धक् आर्यपरिनिष्प त् त्यर्थं तथा युष्माभिर् अप्य् अधिष्ठाय रक्षितव्य इति ॥ यश् च मे स द्धर्मनेत्रीसंरक्षाकुशलमूलपुण्या भिसंस्काराणि ..... य श् च ......... स्म रणोच्चारणपरदेशनतृशरणगमनोपासकसंवरब्रह्मचर्यवासेभ्यः कुशलमूलपुण्या भि सं स्कार ......... यश् च प्रथममध्य् आनभावना ......... यावत् संज्ञावेदयितनिरोधभावनायाः यश् च श्रोतापत्तिफलसाक्षाकृ त यावद् अपराणि कुशलमूलपुण्याभिसंस्काराणि एतर्हि कृतानि अनागते करणीयानि वा मम सद्धर्मप्रदीपप्रज्वालनपुण्याभिसंस्काराणि सर्वम् एतद् युष्माकं हस्ते परिन्दामि ...............
@fओलिओस् 94 तो 97 अरे मिस्सिन्ग्@@
धर्म भाणकम् पुद्गलं संचोदयिष्यामः अस्य धर्मपर्याय स् य प् रकाश णस्य । धर्मभाणकधर्मश्रावणिकानां धनधान्यसर्वभोगसंपद्विवृद्धीं निष् दयिष्यामः । अविप्रलोपधर्मं जिनशासनं संधारयिष्यामः । अथ खलु सर्वे ते बुद्धा भगवन्तः तेषां सर्वेषां मनुष्यामनुष्याणां साधुकारं प्रददुः ......... ॥
अथ कौतूहलिको बोधिस त् त्वो महास त् त्वः तं शाक्यमुनिं तथागतं प प्रच्छ । किं भगवन् मारकोट्यः सपरिवाराः समाग ताः । भगवान् आह । सर्वे सपरिवाराः । कौतूहलिको बोधिस त् त्व आ ह । किं सपरिवारा मारा त्रिरत्ने लब्धप्रसादाः । भगवान् आह । न कु लपुत्र अयं खलु मारः पापीमां सहस्रपरिवारो ऽलब्धप्रसा दः कुपितो ऽनात्तमना वर्तमाने ऽनागतकाले ऽपि यावत् सद्धर्मनेत्र्य् उज्ज्वल ति तावद् एषो ऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थम् ( कुरुमिय 161 ) अन्तर्धानार्थं प्रयतते ... । .............. ए कविंशतिपरिवारे एते अलब्धप्रसादाः कुपिता अनात्तमन सो वर्तमानो ऽनागतकाले ऽपि यावत् सद्धर्म नेत्रीप्रविस्तारस् तावद् एते मम शासने अवतारप्रेक्षिणो अवतारगवेषि णः सद्धर्मनेत्रीविप्रलोपार्थम् अन्तर्धनार्थं प्रयतन्ते । तत् कस्य हेतोः । पूर्व वैराधिष्ठितत्वाद् अनवरोपितकुशलमूलत्वाद् अकल्याणमित्रपरिगृही तत्वात् ..... निर्वाणसुखे अलब्धप्रसादत्वात् प्रणिधानापरिगतत्वात् ....... न चित्तेन चित्तं संदधति न प्रसीदंति न संतिष्ठंति न विप्रम् ओचय ं ति । ईदृशां महासन्निपातं बुद्धं दृष्ट्वा ईदृशां च गम्भीरां धारणीं श्रु त्वानेनैव हेतुना पश्चाच् छ्रद्धां प्रतिलप्स्यते ऽनुत्तरायां सम्यक्संबो धौ । कौतूहलिको बोधिसत्त्व आह । ........... मायं धर्मपर्यायो ऽनवरुप्तकुशलमूलानाम् ( कुरुमिय 162 ) अपि स त् त्वानां सचे त् ............ श्रवणपथगत ..... अनुत्तरायां सम्यक्संबो धौ ॥
तेन खलु पुनः समयेनागस्ति नाम मारः पूर्वजि नेषु कृताधिकारः ............. अ नुत्तरायां सम्यक्संबोधौ । स महर्षिवेषेण शाक् य् अमु न् ए स् त था गतस्य ........................................
@fओलिओ 99 इस् मिस्सिन्ग्@@
हाण्या चित्तसंक्षोभो ऽस्य भवेत् । षडिन्द्रियाणि चास्य गोचरासमर्था स्यु ः ॥ तद्यथा ।
अमले । अहं मले । अहं मले । अजवव । अजवव । मूलसरे व्याखसले । जमसले । हह हह हह घोरसट्ट । जतखग ज्ञेयखग । विज्ञेवासखग । अमूक्षर । क्षक्षक्ष क्षक्ष क्ष । मूलबह । खगस्वकज्ञ । स्वपरिवर्तमूर । अज्ञज्ञ । वायुज्ञज्ञ । चन्द्रसूर्यौज्ञज्ञ नावहज्ञज्ञ । खुरक्षज्ञज्ञ । बबज्ञज्ञ । भूतकोटितथताज्ञज्ञ । सर्वज्ञेभिर् ( कुरुमिय 163 ) अधिष्ठज्ञज्ञ वक्रम । त्रिगतक्षव क्षममक्षमज्ञ क्षितामारविषय स्वाहा ॥
सर्वज्ञानाम् अधिष्ठानेन क्षणिका मारविषया अवक्रान्ता निष्फलीगताः । एवम् एव ये केचिद् अहितकामा ः । अत्र तावद् एव सर्वे बुद्धा भगवन्तः साधुकारं प्रददुः । सर्वे च बोधिस त् त्वा महास त् त्वाः मनुष्यामनुष्या देवाश् च साधुकारं प्रददुः । अथ तावद् एव तस्यां वेलायाम् अकंपद् वसुमती चक्षुभुर् जलधराः चकंपिरे शैलराजनः । चक्षोभ तत्र स मारः सपरिवारः स्थाप्य देवकटपूतनां बोधिस त् त्वांश् च क्षान्तिप्रतिलब्धान् ॥
अथ खलु मारः पापीमां दृढमतिं बोधिस त् त्वम् आमन्त्रयति स्म । कुलपुत्र कुतो ऽस्याग स्तिनो मारस्य बलं । कुतः प्रभावः । यद् अनेनाकृपेण सर्वः स्वपक्षो मम च विषयबलपराक्रमः सर्वो विधू त ........ ना ... पमोच्छेदवादिनः श्रमणस्य गौतमस्य पक्षः समुच्छ्रेपितः । अहं च सहश्रवणाद् एवास्या धारण्या दुर्गन्धक्लिन्नकायो ऽकर्मण्यः संवृत्तः । सर्वदिशो मे ऽन्धीकृताः अदर्शनाभासा । महापरिदाघेन च दह्यामि । दृढमतिर् बोधिस त् त्व आह । सर्वबुद्धानां भगवताम् अधिष्ठानेन पापीमं सर्वमनुष्यामनुष्याणां च बलाधानेनागस्ती मारः इमं सर्वमारबलविषयपराक्रमं विध्वंसयति । इमानि चानेनापराजितानि ( कुरुमिय 164 ) मन्त्रपदानि भाषितानि । प्रसादय त्वं पापीमंस् तथागतानाम् अन्तिके चित्तम् उत्पादयस्व चानुत्तरायां सम्यक्स ं बोधौ चित्तं यथा त्वम् एभ्यः कायवाङ्मानसेभ्यो दुःखेभ्यः परिमोक्ष्यसि । मारः पापीमान् आह । उत्सहाम्य् अहम् अपरान्तकोट्यो ऽसंख्येयाः अतः पापिष्टतराणि कायवाङ्मनोदुःखानि न त्व् एवाह म् अ न् उ त् त रायां सम्यक्संबोधौ चित्तम् उत्पादयामि ॥
महासन्निपा ता न् म हायानसूत्राद् रत्नकेतुपरिवर्ताद् एकदशमः सद्धर्मनेत्र्यारक्षणपरिवर्तः समाप्ता ः ॥ ॥
xइइ.

अथाटवको महायक्षसेनापतिर् भीषणकयक्षरूपेण संज्ञिको मृगरूपेण ज्ञान् ओ ल्को मर्कटरूपेण तृष्णाजहश् छगलरूपेण च्छिन्नस्रोतो हस्तिरूपेण एते पंचमहास त् त्वाः शाक्यमुनेस् तथागतस्य नातिदूरे कौण्डिन्यार्चिषस् तथागतस्य पुरतः पुनर् निषण्णा अभूवन् । सर्वकाया च् चैषां विशुद्धा सौगन्धिका प्रभा निश्चचार । अथ ते पंचमहास त् त्वा उभाभ्यां पाणिभ्यां ज्योतिष्प्रभं नाम महामणिरत्नं भगवतः पूजाकर्माय दध्रिरे ॥
अथ कौतूहलिको बोधिस त् त्वो महास त् त्वः योनिशस् तेषाम् आशयविशुद्धिम् अवेक्ष्य बोधिस त् त्वा ह्य् एते महास त् त्वा इति तम् आटवकं महायक्षसेनापतिम् आमंत्र्योवाच । किं भो सत्पुरुषा अर्थवशं संपश्यमाना यूयम् एवंरूपैर् ईर्यापथैर् बुद्धानां भगवतां पूजाकर्मायोद्युक्ता ः । आटवक आह । भूतपूर्वं कुलपुत्रातीते ऽध्वन्य् एकनवतिमे कल्पे यद् इह बुद्धक्षेत्रे विपश्यिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो ऽभूत् । तेन खलु पुनः समयेन वयं पंच भ्रातरः सहोदरा अभूवन् । तथास्माभिर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उ त्पाद्य स त् त्वपरिपाकायोद् य् ओगः कृतः । ततो .एण शिखिनस् तथागतस्यैवं विश्वभुवः यावद् एव सहप्रविष्टे भद्रके महाकल्पे ककुत्सुन्दस् त थाग तो लोक उदपादि ( कुरुमिय 166 ) तत्र वयं तथैव पूर्वप्रणि धानेन सहोदरा एव भ्रातरो ऽभूत् । तस्य चास्माभिस् तथागतस्य बहुविधं पू ज् ओ पस्था नं कृतम् अभूत् । अथ तत्र संज्ञिको महास त् त्व उपासको ध् य् आनाभिर तस् तत्रेदम् एवंरूपं महाप्रणिधानं चकार । अहम् इह नित्यं भद्रके महाक ल्प् ए मह् आयक्ष सेनापतिर् भवेयं । ये तत्राटविकान्तारनिवासिनो दुष्टा अकृपा अदयापन्नाः स त् त्वेषु नानाविकृतरूपा यक्षा यावत् कटपूत ना स् तेभ्यो ऽहं तादृशीं धर्मदेशनां कुर्याम् । यत् प्रसादप्रतिलब्धा ङ् कृत्वा शिक्षाग्रहणे निवेश्य शिवे मार्गे प्रतिष्ठापयेयं यावत् तत्र तिर्यग्योनिगतेभ्यो ऽपि मृगहरिणसूकरादिभ्यो धर्मं देश ये यं यावद् गंगानदीवलुकासमान् दुष्टयक्षान् यावत् तिर्यग्योनिगतान् अप्य् अनवरोपितकुशलमूलान् धर्मदेशनया परिपाच्य त्रिषु यानेषु प्रतिष्ठापयेयं ततः पश्चाद् अहं व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलभेय । एवं ज्ञानोल्को यक्षो मर्कटरूपेण मर्कटपरिपाकाय प्रणिधानं चकार । तृष्णाजहश् छगलरूपेणाक्षणसंकटप्राप्तानां स त् त्वानां परिपाकाय प्रणिधानं चकार । छिन्नश्रोतो गजरूपेण गजपरिपाकाय प्रणिधानं चकार । एवं द्वादशभि र् महर् द् धिकयक्षसहस्रैश् चातुर्द्वीपिकानिवासिभिः स त् त्वपरिपाकाय नानाविधानि प्रणिधानानि कृतान्य् अभूवन् अनुत्तरां सम्यक्संबोधिं पर्येषमानैः । तस्यैव चाहं ककुत्सुन्दस्य तथागतस्य ( कुरुमिय 167 ) पुरतो ऽनुत्तरां सम्यक्संबोधिं पर्येषमाणो दुष्टयक्षपरिपाकाय प्रणिधानं कृतवान् इह कृत्स्ने भद्रके महाकल्पे । हंत दुष्टयक्षान् अकृपान् अकृतज्ञा न् विषमचारां पापेच्छान्न् अदयापन्नान् यावत् कटपूतना न् स त् त्वविहेठकान् ओजोहराञ् चित्तविक्षोभकान् अकुशलचित्तकारकां प्राणातिपातिकान् यावन् मिथ्यादृष्टिकां क्षत्रियब्राह्मणविट्छूद्रचित्तसंक्षोभकान् राष्ट्रग्रामनगरनिगमजनपदसंक्षोभका ङ् ग्रहनक्षत्रचन्द्रसूर्यरात्रिदिवसमासार्धमासर्तुसंवत्सरसंक्षोभकाङ् कलिकलहदुर्भिक्षरोगपरचक्राकालवातवृष्ट्यतिशीतोष्णनियोजकान् बीजौषधिपत्रपुष्पफलरसविनाशकान् स त् त्वसुखसौमनस्यारोग्यसामग्रीक् उ शलधर्मच्छन्दपृथिवीरसौजार्थधर्मरसविमुक्तिरसान् अन्तर्धापकाञ् शिक्षाग्रहणे नियोज्यावैवर्तिकत्वे स्थापयेयं ततः पश्चाद् अहम् अनुत्तरायां सम्यक्संब् ओ धौ व्याकरणं प्रतिलभेयं ॥
ततश् चाहं प्रभृति नित्य ं यक्षसेनापतिषूपपद्य पापयक्षान् याव त् पापकटपूतनान् त्रिषु यानेषु परिपाच्यावैवर्तिकत्वे प्रतिष्ठापयामि । ततः प्रभृति हीनमध्योत्कृष्टभूतां दृष्ट्वा नाभिजानामि परिभवितुं । यद्रूपांश् च पश्यामि तेनैव रूपेण तान् अहम् आलपामि संलपामि समुत्तेजयामि संप्रहर्षयामि पापात् प्रतिनिवारयामि मैत्रकरुणाचित्ततायां प्रतिष्ठापयामि । यथाभिप्रायेण त्रिषु रत्नेष्व् अवैवर्तिकां प्रतिष्ठापयामि । यां याम् एव यक्षपर्षदम् उपसंक्रमामि तत्र ते मां यक्ष आटवक-म्-इति स्वागतवाचा आमन्त्रयंति । तेन मे आटवक-म्-इति नाम समाज्ञा उदपादि । ये चैतर्हि मनुष्याः पुराणधर्मरहिता असंवरस्था एकान्तकृष्णकर्मसमाचरास् ते कालं कृत्वा तृष्व् अपायेषूपपद्यंते परित्ता मनुष्येषु । ये व्यामिश्रकर्मसमाचारास् तृषु रत्नेषु अचलप्रसादास् ते कालं कृत्वा यद्भूयसा पाप यक्षेषु पापकटपूतनेषूपपद्यंते । तद् एतर्हि भूयिष्ठतरं पापयक्षेषु यावत् पापकटपूतनेषूपपद्यंते । तेनैतर्हि पापय क् षाणां यावत् ( कुरुमिय 168 ) पापकटपूतनानां लोके वृद्धिः । सर्वे च ते शुक्लपक्षस्यान्तर्धानायोद्युक्ताः । तेनैतर्ह्य् अतीव कलियुगे प्रवर्तते न चाहं भगवं छक्तः सर्वकालं तान् दुष्टयक्षान् याव द् दुष्टकटपूतनान् मार्दवशुक्लधर्मेषु विवर्धयितुं । न चाहं शक्तो भूयः सर्वक्षत्रियब्राह्मणविट्छूद्रश्रमणस्त्रीपुरुषदारकदारिकासंक्षोभं प्रशमयितुं । न च गृअमनगरनिगमजनपदराष्ट्रसंक्षोभं प्रशमयितुम् । न च भूयो ऽहं शक्तो भूतानां चित्तचैतसिकेषु विमुक्तिरसं प्रतिष्ठापयितुं । परिज्ञाता मया कुलपुत्र सर्वबुद्धतेजसा सर्वयक्षकटपूतनानां हृदयशाठ्यप्रयोगावक्रमणज्ञानता ॥
अस्ति कुलपुत्र वज्रखवसरी नाम भूतानां हृदयं महाचण्डदारुणविद्यामन्त्रधारणी यैर् मंत्रपदैः प्रयुक्तैर् न भूयश् कश्चिद् यक्षो वा यक्षिणी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षदारको वा यक्षदारिका वा यक्षपार्षदो यक्षपार्षदि वा राक्षसो वा राक्षसी वा यावन् नागो वा ना गी वा कु ंभाण्डो वा कुं भाण्ड् ई वा एकाहिको वा यावच् चतुर्थको वा पूतनो वा कटपूतनो वा कटपूतना वा कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतन् अपोतको वा कटपूतन पोतीका वा कटपूतनपार्षदो वा कटपूतनपा र् षद् ई वा शक्ता ः क्षत्रियसंक्षोभं यावज् जनपदसंक्षोभं वा कर्तुम् ॥

यत्र पुनः कुलपुत्र गृअमे वा नगरे वा निगमे वा यावत् कुटुम्बिकगृहे वा अस्या वज्रखवसर्या ः सर्वभूतहृदयायाः महाचण्डदारुणविद्यायाः मन्त्रपदानां प्रकाशनं स्यात् तत्र ते दुष्टयक्षकटपूतनाः तां पूर्ववैरानुबद्धाम् ( कुरुमिय 169 ) अकुशलकर्मकृयां प्रजहुः । मैत्रीकरुणामृदुचित्ताः सर्वभूतदयापन्नाः हितचित्ता भवेयुः । तांश् च सर्वान् राष्ट्रकुटुंबदेवनागयक्षकटपूतनसंक्षोभां सर्वचन्द्रसूर्यग्रहनक्षत्रदण्डविषशस्त्रकाखोर्दसंक्षोभां छारिरांश् च वातपित्तश्लेष्मसन्निपातज्वरैकाहिकद्वैतीयकत्रैतीयकचातुर्थककुष्ठमर्जकण्डुकासवीसर्पोदरशूलांगप्रत्यंगव्याधिसंक्षोभां प्रशमेयुः । तत्र च मनुष्यामनुष्यान् मृगपक्षिणः शुक्लकर्मान्ताभियुक्तां सर्वभयप्रहीणान् सर्वसु खसौ ख्यसमन्वितान् रात्रिंदिवसातिनामनकुशलां दानदमसम्यमाभिरतान् अक्लान्तकायचित्तां बोधिमार्गपर्येषणाभियुक्तां कुर्यु ः ॥
अथ आटवको महायक्षसेनापतिर् एवम् आह । सचेत् मे कुलपुत्राः सर्वे बुद्धा भगवन्त एषु म न् त्रपदेषु कर्मसिद्धिन् दद्युर् अधिष्ठितेषुर् अनुमोदेयु र् यद् अहम् एतानि सर्वसंक्षोभप्रशमनकराणि सर्वप्रसादकराणि सर्वाकुशलपक्षनिवारकाणि सर्वकुशलपक्षविवर्धनानि सर्वभूतखवसरीमंत्रपदानि भाषिता । अधितिष्ठ तु मे शाक्यमुनिस् तथागतः स्वरमण्डलवाग्व्याहारं यद् अहं कृत्स्नम् इदं बुद्धक्षेत्रं स्वरमण्डलवाग्व्याहाराक्षररुतेनापूरयित्वा एतां यथासन्न् इपा तां पर्ष दं स् वरमण्डल् अवाग्व्याहार् आर्थपदव्यंजनैः परितोषयेयम् ॥
अथ खलु शक्यमुनिस् तथागत आटवकं महायक्षसेनापतिम् आमन्त्रयैवम् आह । अधिष्ठितस् ते कुलपुत्रैर् बुद्धैर् भगवद्भिः स्वरमण्डलवाग्व्याहारः अस्या वज्रखवसर्याः सर्वभूतहृदयाया मंत्रधारण्याः कृष्णपक्षविद्रापणाय शुक्लपक्षज्वालनाय । उत्सह त्वं सत्पुरुष वदस्वेमानि संक्षोभप्रशमनकार्या वज्रखवसर्याः सर्वभूतहृदयमन्त्रधारण्याः सर्वदुष्टनिवारणानि मन्त् र् अपदानि ॥
अथाटवको महायक्षसेनापतिर् उत्थाया सन् आद् येन शाक्यमुनिस् तथागतस् तेनांजलि ं प्रणाम्य कृत्स्नम् इदं बुद्धक्षेत्रं स्वरेणाभिविज्ञपय ति स्म । इमान् इ च मन्त्रपदानि भाषते स्म ॥ तद्यथा ।
धुम धुम । धम धम । धूम धूम । निलि न नल नोल । मिला कुटनी कुटने । महाकुटने । टट टटो महाटटो । अभष अभि अभि । रिणि रिणि । महारिणि रिणि । रिमि रिमि । रिमि रिमि । दारिमि रिषे । महारिषे । शुलु शुलु । महाशुलु शुलु । शुलुथ महाशुलु शुलु । उगुम । गुम गुमन । रिमि रिमि । हिरि हिरि हिरि हिरि । हिरि हिरि हिरि हिरि हिरि हिरि । निमि निमि । निहि निहि । मुनि मुनि । बुद्धि लि प्रवरा सृष्ठलोक चर्याजिने जिने । जिनर्षभ जिना जिन जिनर्षभ स्वाहा ॥
यत्र यत्रैव भगवन् ग्रामे वा नगरे वा यावत् कुटुंबिकगृहे वा अस्यां सर्वभूतहृदय वज्र खवसर्यां महामन्त्रपदविद्यायां भाष्यमाणायां ये तत्र दुष्टयक्ष् आ यावद् दुष्ट् अकटपूतनाः न चित्तं प्रसादयिष्यंति न च कायवाङ्मनोभिः शिक्षासंवरं प्रतिग्रहीष्यंति न च तेषां स त् त्वानां ( कुरुमिय 171 ) अन्तिके मैत्रचित्तम् उपस् थ् आपयिष्यंति तेषाम् अर्थायाहं भूयो दारुणतराणि मन्त्रपदानि भाषिष्ये ॥ तद्यथा ॥
अच्छे अच्छे । मुने मुने । अग्ने हु हु । मुने मुने । मनार्षभ हु हु । अक्रदण्डे । अतदण्डे । अत अति । अट हिनि हिनि । हिरि हिर् इ हिरि हिरि हिरि हिरि । त्रगुम । गु म गुम गुम । हिलि हिलि । निलि निलि । महानिलि समुद्रमेख । हट हट हट धरणमेख । क्षभख क्षभख । पृथिवी अप तेजो वाय्व् आकाश । ठ ठ ठ गुंभे । भगुम्भे । अक्षि कुम्भे । जिह्वागुगुम्भे । सर्वागुंभे । रजगुम्भे । सभास्तुगुम्भे स्वाहा ॥
समनन्तरभाषिता चाटवकेन महायक्षसेनापतिना इमानि मन्त्रपदान्य् अथ तावद् एव सर्वे देवनागयक्षकटपूतनाः क्षुब्धास् त्रस्ता इह सकले बुद्धक्षेत्रे क्षितिगगनस्थाः प्रचकंपिरे । अथ तत्क्षणाद् एव सर्वेषां बुद्धानां भगवतां पुरतः प्रांजलयस् त्रिष्कृत्वा एवम् आहुः । नमः सर्वबुद्धेभ्यो नमो नमः सर्वबुद्धेभ्यः । परमदारुणान्य् एतानि अनेनातवकेन महायक्षसेनापतिना सर्वभूतहृदयावक्रान्तिमंत्रपदानि भाषितानि ॥ ॥
महासन्निपातान् महायानसूत्राद् रत्नकेतुपरिवर्ता द् द्वादशम आटवकपरिवर्तः समाप्ता ः ॥ ॥
xइइइ.
अथ खलु ते सर्वे बुद्धा भगवन्तः स्वेषु स्वेषु बुद्धक्षेत्रेषु गगननिमित्तानि प्रदर्शयाम् आसुः प्रत्युत्थाननिमित्तानि च । अथ तावद् एव सर्वावतीयं पर्षा क्षितिगगनस्थाश् च स त् त्वाः प्रचकंपिरे । सर्वावती चेयं भूश् चकंपे । नभसि पुष्पवृष्टि र् व वर्ष । अन्तरीक्षाच् च तूर्यकोट्यः पराजघ्नुः । सर्वगन्धधूपां प्रमुमुचुः । सर्वं चेदं बुद्धक्षेत्रम् अवभासेन स्फुटम् अभूत् । प्रांजलिः सर्वा पर्षत् तस्थौ ॥

अथ खलु ब्रह्मा सहांपतिर् महाचन्दनगन्धं तथागतं पप्रच्छ । कियता भगवं कुशलमूलेन ते समन्वागता भविष्यंति कतिभिर् वा धर्मैर् अधिष्ठितास् ते स त् त्वा भविष्यंति बुद्धैर् भग व द्भिर् ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति धारयिष्यंति ॥ एवम् उक्ते भगवां स महाचन्दनगन्धस् तथागतस् तं ब्राह्मण ं सहांपतिम् एतद् अवोचत् । यथैव ब्रह्मं षड्धातवः सर्वबुद्धैर् अधिष्ठिता मारपक्षविग्रहार्थं सर्वकलियुगप्रशमार्थं सर्वस त् त्वपरिपाकार्थं सद्धर्मनेत्र्या श् चिरस्थित्यर्थं मार्गविशुद्ध्यर्थम् । एवं सर्वबुद्धबोधिस त् त्वैर् दशभिर् धर्मैस् ते स त् त्वा अधिष्ठिता ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति यावल् लिखित्वा धारयिष्यंति । कतमैर् दशभिर् ( कुरुमिय 173 ) यद् उतेह ब्रह्मंस् ते स त् त्वाः सर्वबुद्धबोधिस त् त्वैः सर्वेषां देवनागयक्षगन्धर्वराक्षसकुंभाण्डानां न्यायतः परित्ता नित्यकालं युष्माभि रक्षितव्याः । अनर्थात् प्रतिनिवारयितव्याः कुशले कायवाङ्मनस्कर्मणि नियोजयितव्या उदारान्नपानोपभोगपरिभोगारोग्यकौशल्येनात्मजीवितपरित्यागेनापि ते स त् त्वाः सन्धारयितव्या निर्दोषाणि च तेषां स्मृतिमतिगतिप्रतिभानकौशल्यानि भविष्यंति । न च तैः कामगुणसंसक्तैर् मनःसंकल्पैर् विहरिष्यंति । शून्यताविहारिणश् च ते भविष्यंति । धरणिसमचित्ताः गम्भीरक्षान्तिसमन्वागताः संग्रहवस्तूद्युक्ताश् च ते भविष्यंति । कुशलधर्मावस्थिताः स त् त्वाः परिषत् कायादत्तसाराः त्रिवस्तुपरिशुद्धा बोधिचर्याम् उत्तरिष्यंति । रत्नध्वजं समाधिं प्रतिलप्स्यन्ते येन समाधिना सर्वसमाधिषु व्यवचारज्ञानकुशला भविष्यंति । मरणकालसमये च ते स त् त्वा ः पुरस्ताद् अप्रमेयासंख्येया न् बुद्धा न् भगवतः भिक्षुगणपरिवृतां बोधिस त् त्वगणपुरस्कृतां तिष्ठतो यापयतो धर्मन् देशयमाना न् द्रक्ष्यंति । तेषां च बुद्धानां भगवताम् अन्तिका त् तादृशम् अर्थपदव्यंजनोपेतं धर्मन् देश्यमानं श्रोष्यंति । यत् सर्वविशिष्टम् आर्यं निरामिषप्रीतिप्रामोद्यं प्रतिलब्धा ः सर्वं तत् कर्मावरणम् अकुशलं ( कुरुमिय 174 ) चरिमविज्ञाने समश्. तेषां सहधर्मेणा निरोत्स्यंति । सर्वाभिप्रायेण च परिशुद्धेषु बुद्धक्षेत्रेष्व् औपपादिक उपपत्स्यंते । येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्तो यापयन्तः शुद्धां महायानकथां देशंति तेषु बुद्धक्षेत्रेषु ते स त् त्वास् तैर् महायानसंप्रस्थितैर् अनावरणज्ञानसमन्वागतैर् गगनसमचित्तैः सार्ध ं संवसिष्यंति । न चिरेणैव तैर् गुणैः समन्वागता भविष्यंति । न च ते स त् त्वा भूयः क्लिष्टे पंचकषाये बुद्धक्षेत्रे उपपत्स्यंते ऽन्यत्र स्वप्रणिधानेन क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यंते । एभिर् दशभिर् धर्मैर् अधिष्ठितास् ते स त् त्वा बुद्धैर् भगवद्भिर् भविष्यंति य एतर्हि ऽनागते ऽप्य् अध्वनीमां सद्धर्मनेत्रीम् उ ज् ज्वालयिष्यंति इमं च धारणीमुद्राधर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति । सर्वबुद्धबोधिस त् त्वाधिष्ठितास् ते सर्वोपक्लेशविनिर्मुक्ता बोधिस त् त्वा महास त् त्वा भविष्य न् तीति ॥
अथ भगवां छाक्यमुनिस् तथागतः शक्रब्रह्मलोकपालान् आमन्त्रयति स्म । ये केचिद् इह मार्षा बुद्धा भगवन्तो दशभ्यो दिग्भ्यः समागताः सर्वै र् युष्मत्कारुण्यार्थम् इह लोकधातौ बाह्यभावविशोधनार्थं स त् त्वपरिपाकाय बोधिचर्याप्रदर्शनार्थं मारपक्षपराजयाय धर्मध्वजोच्छ्रेपणाय सकलबुद्धकार्योपदर्शनाय त्रिरत्नवंशानुपच्छेदाय सर्वव्याधिप्रशमनाय सर्वदुष्टनिवारणाय सर्वभयारक्षायै सर्वकुदृष्टिप्रहाणाय ( कुरुमिय 175 ) बोधिमार्गावतारदशतथागतबलपारिपूर्यै सर्वकर्मक्लेशक्षयाय-म् एवंरूप आश्चर्याद्भुतो ऽश्रुतपूर्वो गंभीरधारणीपदप्रवेशव्याकरणो धर्मपर्यायो भाषितः येन गृहग्रामनगरविषयारक्षा यावच् चातुर्द्वीपिकारक्षा देवनागयक्षमनुष्यामनुष्यारक्षा धान्यौषधपत्रपुष्पफलसस्यारक्षा धर्मभाणकानां धर्मश्रावणिकानां चारक्षा भवत्य् असंग धा रणीप्रतिलाभाय आकाशसमज्ञानावताराय एकनयसर्वज्ञज्ञानप्रतिलाभाय ।
अस्मिं खलु पुन र् मार्षा धर्मपर्याये एभिर् बुद्धैर् भगवद्भिर् इह बुद्धक्षेत्रे एकैको भावो महाकरुणावतारज्ञाननिष्यन्दैर् दशभिः प्रकारैर् अधिष्ठितः । सर्वबुद्धबोधिस त् त्वैर् इदं मार्षा बुद्धक्षेत्रम् अखिलं परिभुक्तं सर्वकुशलधर्माधिष्ठानाय । सर्वबुद्धक्षेत्रोपपन्नानाम् इदं बुद्धक्षेत्रं चैत्यभूतं गुरुस्थानीयं शास्तृसंमतं नमस्करणीयं संवृत्तं यत्र हि नामेह पंचानन्तर्यकारिणाम् अप्य् अकुशलधर्मसमन्वागतानां तत् कर्मावरणम् अनिष्ठफलं निरवशेषं परिक्षयं गच्छति । सर्वे च ते प्रहीणकर्मावरणाः कुशलेषु धर्मेषु प्रतिष्ठन्ते । महापुरुषकारो ऽयं मार्षा बुद्धानां भगवताम् । इह बुद्धक्षेत्रे सत्कृत्य मार्षा युष्माभिर् अयं धर्मः परिगृहीतव्यो रक्षितव्यः । सद्धर्मधारकाश् च गृहस्थप्रव्रजिताः पुद्गलाः धर्मप्रतिपन्नाश् च रक्षितव्याः । एवं युष्माकं हिताय सुखाय भविष्यति ॥
अथ खलु कुसुमध्वजस् तथागतस् तस्यां वेलायाम् अस्य धर्मपर्यायस्य गुणानुशंसप्ररूपणार्थम् एवम् आह ।
सर्वक्षेत्र संप्रपूर्य कांचनेन तायिषु
प्रपूजनाय नायकेषु संसृजेद् य एव तद् ।

इदं तु यः प्रधानसूत्रम् उत्तमं हि धारयेत्
स पुण्यम् अप्रमेयम् एवम् आप्नुयाद् विशारद ः ॥ र्क्प्_13.1
अथ खलु रत्नच्छत्रश्रीस् तथागतो ऽप्य् एवम् आह । दत्वा स्वर्णनिष्कां गंगान दी सिकतोपमां मुनिवृषभेभ्यः प्राप्नोति पुण्यम् एवं यथा समुद्दिश्य सूत्रम् इदम् ॥
अथ खलु गिरिकूटस् तथागतो ऽप्य् एवम् आह ।
आकाशं छादयित्वा वरकुसुमचयच्छत्रसंघातमेघैर्
बुद्धेभ्यः संप्रदद्यात् प्रमुदितसुमनाः पूजनार्थं हि कश्चित् ।
यः पश्चात् क्षीणकाले प्रतिभयरभसे धारयेत् सूत्रम् एतत्
पुण्यस्यास्य प्रमाणं न खलु कथयितुं सर्वस त् त्वो ऽपि शक्त ः ॥ र्क्प्_13.2
अथ खलु भगवान् अपि शाक्यमुनिस् तथागत एवम् आह ।
वर्तिं मेरुप्रमाणां पुरत इह मुने गन्धतैलावसिक्तां
दीपस्यो ज् ज्वाल्य भक्त्या विकसितवदनो धारयेत् कल्पकोट्यः ।
यः कश्चित् पुण्यकामो निवरणतनुतां प्रार्थयन् यस् त्व् इहान्यः
सूत्रं प्रक्षीणकालेषु सदसि कथयेत् पुण्यम् अस्माद् विशिष्टम् ॥ र्क्प्_13.3
अथ खल्व् अक्षोभ्यस् तथागतो ऽप्य् एवम् आह ।
क्षान्ति ं यश् च विभावयेत् मतिधरो वीर्यं सदा चारभे न्
नित्यं ध्यानपरः समाहिततनुः प्रज्ञां च विस्फारयेत् ।
क्षीणे यस् त्व् इह धारयेत् कलियुगे सद्धर्ममुद्राम् इमाम्
एषा क्षान्तिर् इदं च वीर्यम् असमं प्रज्ञा च तस्यातुला ॥ र्क्प्_13.4
अथ खलु विरजबलविक्रामी तथागतो ऽप्य् एवम् आह ।
एतत् सूत्रं प्रकाश्येह धारयित्वाभिलिख्य च ।
ग्राहयित्वा परान् युक्त्या वाचयित्वा पुनः सदा ॥ र्क्प्_13.5
पूजयित्वाथ धूपैश् च पुष्पमाल्याग्रचीवरैः ।
यत् पुण्यं समवाप्नोति न तच् छक्यं प्रकीर्तितुम् ॥ र्क्प्_13.6
इति ॥
अथ खलु ते ऽप्रमेयासंख्येया बुद्धा भगवन्तो ऽस्य सूत्रस्याप्रमेयां वर्णगुणानुशंसान् उदीरयित्वा शक्रब्रह्मलोकपालान् आहूयैवम् ऊ च् उः ॥ उद्गृह्णीध्वं मार्षा इमं धर्मपर्यायं सर्वकर्मावरणक्लेशक्षयंकरं यस्य पश्चात्काले श्रवणमात्रेण् आपि सत् त्व् आ नां सर्वकर्मावरणक्लेशक्षयो भविष्यति ॥ इदम् अवोचद् भगवान् । आत्तमना सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दत् ॥ ॥
महासन्निपातान् महायानसूत्राद् रत्नकेतुनिष्ठागमपरिवर्तस् त्रयोदशमः समाप्ताः ॥ ॥
[चोलोफोन्]
संस्कृत्वा रत्नकेतुं प्रचुरभयहरान् धारणीं यन् मयाग्र्यं
पुण्यं किंचित् प्रसूतं प्रमुदितमनसा सर्वभक्त्यादृतेन ।
सर्वो ऽयं तेन लोको मुनिवचनकथालंकृतां रत्नकेतुं ह्य्
एताम् एव स्फुटार्थाम् अतिगुणविशदां प्राप्नुयात् सद्य एव : ॥ ॥
सद्धर्मसंग्रहो श्रीपटोलषाहि विक्रमादित्यनन्दस्य् श्रीमहादेव्यां सुरेन्द्रमालायां तथा सार्धं उवखी श्रीमहादेव्यां दिल्नितपुण्यां ॥ तथा सार्धं पुस्तकलिखापितम् इदं महादानपतिम् एतलगोर् निक्षिणस्य तथा सार्धं भार्या आश्णाति कसुमो.वल्तायां तथा सार्धं माता अस्पिनशूलायां ॥

मूल पाठ: Mahāsaṃnipātaratnaketudhāraṇīsūtra or Ratnaketuparivarta (=RKP) · Edition: Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc