महासंनिपातरत्नकेतुधारणीसूत्र · भाग 120
fओलिओस् 1-4 अरे मिस्सिन्ग्
इ.
पापिकां दृष्टिं ग्रा हयेयं ॥
अथ तेन क्षणेन मारः पापीमाञ् छीघ्रम् एव स्वभवनाद् अन्तर्हायायुष्मतो ऽश्वजितो वेषलिंगेर्यापथेन तयोः सत्पुरुषयोः पुरतो ऽन्तर्मा र्गे स्थित्वैवम् आह ॥
उक्तं पूर्व म् इदं मया हि वितथं हेतूपमं कारणं
युवयोर् एव मनःप्रचारनियमं विज्ञायतुं किं युवां ।
सर्वं चैतद् अपार्थकं हि कथितं नास्त्य् अत्र हेतुः पुनः
कृष्णस्यास्य शुभस्य कर्मण इह प्रा प्तिः फलं वा कुतः ॥ र्क्प्_1.9
क्षिप्रं कामगुणेष्व् अतीव चरतं क्रीडां युवां विन्दतं
मृत्युर् नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वा ।
पुण्यापुण्यफलं च कर्मजनितं नास्त्य् अत्र हेतुक्रि या
लाभाये वद तीह शाक्यतनयो मा श्रद्धया गच्छथः ॥ र्क्प्_1.10
अथोपतिष्यकौलितयोर् एतद् अभूत् । मारो वतायं पापीमान् उप स ंक्रान्त आवयोः
प्रव् र् अज्याविच्छन्दनार्थं । अथोपतिष्यः पराङ्मु खः स्वप रिषदम् आहूयैवम् आह । श्रुणत यूयं माणवकाः स्मरत संसारदोषान् ।
जरया पीडितो लोको मृत्युना परिवारितः ।
उभयोस् तत्प्रहाणाय प्रव्रज्या ं साधु गृह्णथ ॥ र्क्प्_1.11
अथ कौलितो मारं प्रोवाच ॥
आज्ञातः प्रवरः सतां मतिधरो धर्मस् त्रिदुःखान्तकृत्
कश्चिन् नास्ति यदावयोर् मतिम् इमां व्युच्चालयेत् सर्वथा ।
तृष्णायाः प्रशमाय धीरमनसाव् आवां सदा व्युत्थितौ
मा सिंहाकृतिना सृगालवचनैर् आवां मतेर् भ्रामय ॥ र्क्प्_1.12
याश् च देवता दृष्टसत्यास् ता गगनस्थितास् ताभ्यां सत्पुरुषाभ्यां साधुकार ं ( कुरुमिय 3 ) प्रददुः । साधु साधु सत्पुरुषौ सर्वलोकविशि ष्ट एष मार्गो यद् उत प्रव्रज्यानिष्क्रमः । सर्वदुःखोपशान्त एष मार्गः । सर्वतथागतगोचरावतार एष मार्गः । सर्वबुद्धैर् भग व द्भिर् व र् णितः प्रशस्त एष मार्गो यद् उत प्र व्रज्यानि ष्क्रम इति । अथ खलु मार ः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धानं जगमा ॥
अथ खलूपतिष्यकौलितौ परिव्राजकौ स्वपरिषदम् अवलोकयैवैव म् ऊच तुः । यत् खलु माणवका यूयं जानीध्वम् आवां जरामरणसागरपारंगमाय तथागतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ । यः पुनर् युष्माकं नेच्छति भ गवतः शासने प्रव्रजितुम् इहैव निवर्ततां । सर्वाणि च तानि पंचमाणवका ना ं शतान्य् एवम् आहुः । यत् किंचिद् वयं जानीमस् तत् सर्वं युवयोर् अनुभावेन । नूनं युवाम् उदारस्थाने प्रव्र जितौ । यम् उद्दिश्य प्रव्रजितौ युवां तम् उ द्दिश्य वयम् अपि प्रव्रजिष्यामः ॥
अथोपतिष्यकौलितौ परिव्राजकौ पंचशतपरिवारौ भगवंतम् उद्दिश्य प्रव्रज्या ं संप्रस्थितौ विदित्वाथ मारः पापीमान् बहि राजगृहस्य महान गरस्य महाप्रपातम् अभिनिर्मितवान् योजनशतम् अधस्ताद् ( कुरुमिय 4 ) यथा तौ न शक्ष्यतः श्रवणस्य गौतमस्यान्तिकम् उपसंक्रमितुम् इति । भगवा ं श् च पुनः तादृशम् ऋद्ध्य भिसंस्कारम् अभिसंश्चकार यथा ताव् उपतिष्यकौलितौ परिव्राजकौ तं महाप्रपातं न ददृशतुः । ऋजुना मार्गेण गच्छतः । पुनर् अपि मारः पापीमांस् तयोः पुरतः पर्वतम् अभिनिर्मिमीते दृ ..... सुषिरं योजनसहस्रम् उच्चत्वेन सहस्रं च सिंहानाम् अभिनिर्मिमीते चण्डानां दुष्टानां घोराणां । तौ च सत्पुरुषौ भगवतस् तेजसार् द् ध्यनुभावेन च तं पर्वतम् अपि न द दृशतुः न च सि ं हा न् न च सि ं हन् आ दञ् छुश्रुवतुः । ऋजुना च मार्गेण येन भगवांस् तेनोपसंक्रामतुः । भगवांश् चानेकशतसहस्रया परिषदा परिवृतः पु रस्कृतो ध र्मं देशयति स्म ॥
अथ खलु भगवान् भिक्षून् आमन्त्रयते स्म । पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ । आहु ः । पश्यामो वयं भगवन् ॥ भ गवान् आह । एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावताम् अग्रो ( कुरुमिय 5 ) भविष्यति द्वितीयो ऋद्धि म ताम् ॥
अथान्यतरो भिक्षुस् तस्या ं वेलायाम् इमा गाथा अभाषत ॥
एतौ च विज्ञपुरुषौ परिवार व न्तौ यौ व् य् आकृतौ हितकरेण नरोत्तमेन ।
समन्विताव् ऋद्धिधिया विशारदाव् उपेम्य् अहं गौरवजात एतौ ॥ र्क्प्_1.13
अथ खलु स भिक्षुर् उत्थायासनाद् बहुभिर् भिक्षुभिः सार्धं बहुभिश् च गृहस्थप्रव्रजितैर् अभ्युद्गम्य तौ सत्पुरुषौ पर्युपासते स्म । अथ तौ सत् पुरुषौ येन भगवांस् तेनोपजग्मतु ः । उपेत्य भगवतः पादौ शिरसा भि वन्द्य तृप्रदक्षि ण ं कृत्वा भगवतः पुरतः स्थित्वा भगवंतम् एतद् ऊचु ः । लभेवह्य् आवां वा भगवतो ऽन्ति के प्रव्रज्यो पसंपद्भिक्षुभावम् । चरेयम् आवां भगवतो ऽन्तिके ब्रह्मचर्यं ॥ भगवान् आह । कि ं नाम युवां कुलपुत्रौ । उपतिष्य आह । तिष्यस्य ब्राह्मणस्याहं पुत्र उपतिष्यो नाम । मा ता मे शारिका नाम । ततो मे जन्म । तेन मे शारिपुत्र इति नामधेयं कृतं । अभ्यनुज्ञातो ऽहं ( कुरुमिय 6 ) पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ कोलित आह । पिता मे कौ ण्डिण्यो नाम । तेन मे कौलितो नाम । माता मे मुद्गला नाम । तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतं । कश्चि न् मे जनो कौलित-म्-इति संजानाति । कश् च् इन् म् औद् ग ल् य् आ यन इति ॥ अभ्यनुज्ञातो ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ भगवान् आह । चरतां शारिपुत्रमौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यम् इति । सैव तयोः प्रव्रज्य् आ उपसंपद् भिक्षुभाव श् च । अचिरप्रव्रजितौ च शारिपुत्रमौद्गल्यायनौ सपरिवारौ ॥
अथ मारः पापीमान् महेश्वररूपेण भगवतः पुरत ः स्थित्वैवम् आह ॥
ये शास्त्रार्थप रिचरियासु निपुणा विद्यासु पारंगताः
ते सर्वे प्रणमंति मत्सुचरणौ तेषाम् अहं नायकः ।
क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाद्य भो गौतम
स्फीतं निर्वृति + + + + + तं वक्ष्यामि मार्गं तव ॥ र्क्प्_1.14
भगवान् आह ।
त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको
मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः ।
किं भूयो लपसि प्र गल्भमुखरो धृष्टं सृगालस्वरः
व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः ॥ र्क्प्_1.15
अथ मारः पापीमान् महेश्व र रूपम् अंतर्धाय ब्रह्मवेषेण पुनर् भगव तः पुरतः स्थित्वैवम् आह ॥
कर्मक्लेशभवांकुरप्रमथन ं यत् ते कृतं प्रज्ञया
दुःखान्य् उत्सहसीह किं पुनर् इतस् स त् त्वार्थम् एवं मुने ।
नास्त्य् अस्मिं जगति प्रभो क्वचिद् अपि त्वत्पात्रभूतो जनः
कस्मा त् त्वं विगतामयो न त्व रितं निर्वासि कालो ह्य् अय म् ॥ र्क्प्_1.16
भगवान् आह ।
गंगावालुकसन्निभान् असदृशा न् स त् त्वान् प्रपश्याम्य् अहं
ये मे वैनयिकाः स्थिता ः करुणया ते संप्र मो क्ष्या मया ।
मध्योत्कृष्टजघन्यताम् उपगतो निर्मोक्ष्य निष्ठा जगत्
निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते ॥ र्क्प्_1.17
अथ पुनर् अपि मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रै वान्तर्धाय स्वभवनं गत्वा शोकागारं प्रविश्य निषण्णः । तत्क्षणम् एव च सर्वमारभवननिवासिनश् च स त् त्वा ः परस्परं पृच्छंति स्म । को हेतुर् यद् अयम् अस्माकं म हाराजः शोका गारं प्रविश्य निषण्णो न च कश्चिज् जानीते ॥
अथ पंच मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर् वस्त्राभ रणैर् आत्मानम् अ लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयंत्यः परममनोज्ञस्वरेण नृत्यंत्यो गाय ं त्यो वादयंत्यो महता दिव्येन पंचांगिकेन तूर्येण रतिक्रीडायु क्तेन मारस्य पापीमतः पुरत ः स्थिताः । स च मारः पापीमान् बाहून् प्रगृह्य प्रक्रोशितुम् आरब्धः । मा शब्द ं कुरुत मा शब्दं कुरुतेति । एवम् उक्ताश् च् अ म् उ ह् ऊ र् तं ता अप्सरसस् तूष्णीं तस्थुः । पुनर् अपि प्रगायंत्यस् तूर्याणि पराजघ्नुः । मारश् च पापीमान् पुनर् अपि बाहुद्वयम् उत्क्षिप्य प्रक्रोशितुम् आरब्धो यावत् सप्तकृत्वस् ता अप्सरसस् तां रतिनिबद् द् ह न् ऋत्तवा .......... पुनर् मारः पापीमान् त थैव ( कुरुमिय 9 ) बाहुद्वयम् उन्नाम् य् ओत्क्रोशं च कार । मा शब्दं कृध्वं मा शब्दं कृध्वम् इति । एवम् उक्ताश् च ता अप्सरसस् तूष्णी ं तस्थुः ॥
अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा य् एन मारः पापीमां स् तेनांजलिं प्रणाम्यैवम् आह ।
किं ते विभो च्युतिनिमित्तम् इहाद्य दृष्टं
किं वा जगद् धुतवहाकुलम् अद्य जातं ।
शत्रुस् तवाधिकबलः किम् इहास्ति कश् चित्
+ + + + + + स माश्रयसे सशोकः ॥ र्क्प्_1.18
मार ः प्राह ॥
शत्रुर् ममास्ति बलवा न् निगृहीतचेता
मायासु शिक्षित मति र् भुवि शाक्यपुत्रः ।
तत्प् र् अक्षयो यदि न चास्ति क थं चिद् एवं
शून्यं करिष्य ति ममेह स कामधातु म् ॥ र्क्प्_1.19
सा अप्सरा प्रोवाच ।
स्वामिन्न् उपायबलवीर्यपराक्रमैः कैः
कर्तुं क्षयं पर म् अ शेषम् इहाद्य तस्य ।
क ः शक्नुयात् त्रिभव बन्ध नदीर्घतीरं
तृष्णार्णवं क्षपयितुं वलसा + युक्तः ॥ र्क्प्_1.20
मार ः प्राह ।
दानव्रताशयदयाप्रणिधानपाशः
शून्यानिमित्तपरमास्त्रगृहीतचापः ।
निःशेषतो भव नि वृ त् त्युपदेशकर्ता
संसारनि ः सृतपथप्रशमानुकूलः ॥ र्क्प्_1.21
शून्येषु ग्रामनगरेषु वनान्तरेषु
गिरिकन्दरेष्व् अपि वसंति तस्य शिष्याः ।
ध्यानाभियुक्तमनसः प्रविविक्तचारा
दोषक्षयाय सततं विधिवत् प्रयुक्ताः ॥ र्क्प्_1.22
ऋद्ध्या बलैः करुणया च सहायवन्ताव्
उपतिष्यकौलितव् अनौ मुनिना विनीतौ ।
त्रैलोक्यसर्वविधिना सुविनीतधर्मा
शून्यं करिष्यति स मे किल कामधातुं ॥ र्क्प्_1.23
अथ तै ः पंचभिर् मारकन्याशतैर् मारस्य पापीमतो ऽन्तिकाद् भगवतो गुणवर्ण ं श्रुत्वा सर्वैर् आकारविगतविद्युन् नाम बोधिस त् त्वसमाधिः प्रतिल ब्धा । अथ तानि पंच मारकन्याशतानि दिव्यानि तूर्याणि तांश् च ( कुरुमिय 11 ) दिव्यपुष्पगन्धमाल्यविलेपनाभरणविभूषणा लं कारान् येन भगवांस् तेनाक्षिपन् भगवतः पूजाकर्मणे । तानि च दिव्यानि तूर्याणि ते च यावद् अलंकारा भगव त ऋद् ध्यनुभावेन वेणुवने ववर्षुः । ताश् च मारकन्या ः स्वयम् अद्राक्षुः सपरिवारः । दृष्त्वा च पुन र् अपि ताः प्रसाद प्रमोद्य जाता बभूवुर् य द् वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टम् इति ॥ ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः । यद् भगवन्न् अ न योः शारिपुत्रमौद्ग ल्या य नोः सपरिवारयोर् इदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टम् । को न्व् अत्र भगवन् हेतुः । कः प्रत्ययः । भगवान् आह । नानय् ओः कुलपुत्रयोर् अनुभावः । मार स्य तु पापीमतः पंचमात्रैः परिचारिकाशतैस् ततो मारभवनाद् इदम् एव ं रूपं महापुष्पवर्षं यावद् अलंकारवर्षम् उत्सृष्टं मम पूजाकर्मणे । अ चिरा त् ता अत्रागता म मान्तिकाद् व्याकरणं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधौ ॥
अथ तानि पंचमात्राणि मारकन्याशतानि स्वयम् एव भगवतो वा क् श्रुतघोषव्याहारम् अ भ् इ श्रुत्य भूयस्य मा त्रया च भगवतो ऽन्तिके प्रसादजातास् तास् तेन प्रसादप्रमोद्येन बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलेभिरे ॥
अथ खलु ता मारकन्या स् तत्र मारभ वने एकांसं चीवर ं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्यांजलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवम् ऊचुः ॥
तृष्णासरिन्निखिलशोषक सर्वलोकम्
आलोक्य नेत्रविकलं जगद् एकचक्षुः ।
त्वं तारको ऽद्य जगतः सनरामरस्य
बुद्धा वयं कथम् इहाशु मुने भवेम ॥ र्क्प्_1.24
नरदेवपू ज् य भगवन् परमार्थवादिन्
स्त्रीत्वं जुगुप्सितम् अपोह्य वयं समग्राः ।
ऋद्ध्या तवो त्त ममते त्वरितं समीपे
गत्वा मुनीन्द्रवचनं श्रुणुयाम एवं ॥ र्क्प्_1.25
नैरात्म्यवादि भगवन् परमार्थदर्शिन्
बोध्यंगरत्नधर निर्मलवाक्प्रदीप ।
आक्रम्य मारबलम् अप्रतिम त्वम् अस्मान्
बोधाय शीघ्रम् अधुना सम ं व्याकुरुष्व ॥ र्क्प्_1.26
अथ खलु मारक न्या उत्थायासनाद् एककण्ठेन मारं पापीमन्तम् एतद् ऊचु ः ॥
त्वं नाम दुष्कृतमते भगव त् सकाशे
दुष्टः कथं शृयम् अवाप्य चलाम् असाराम् ।
जात्यादिदु ःखस मुपद्रुतसर्वमूर्तिः
घोरां दशाम् उपगतो ऽसि मदावलिप्तः ॥ र्क्प्_1.27
श्रद्धां जिने कुरु तथा व्यपनीय रोषं
संसारदोषमदपंकसमुद्धृतात्मा ।
एष स् वयं विदित सर्वजगस्वभाव
आगच्छ कारुणिकम् आशु गतिं प्रयामः ॥ र्क्प्_1.28
अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतद् अभूत् । य न् न्व् अह ं तादृशं म् आरबलविषयवेगं सम नुस्मरेयं यद् एतानि पंच परिचारिकाशतानि पंचपाशबन्धनबद्धाम् आत्मान संपश्येयुर् इहैव निवर्तेरन् न पुनर् गन्तु ं शक् नु य् उ ः । स च मारस् तानि बन्द्धुं न शक्तः । तत् कुतस् तथा हि तानि पंच परिचारिकाशतानि तथागताधिष्ठानानि ॥
अथ खलु ताः पंचशतपरिचारिका मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः । ( कुरुमिय 14 ) अथ मारः पापीमान् भूयस्या मात्र या र् उष्टः । तस्यैतद् अभवत् । य न् न्व् अहं पुनर् अपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वम् इदम् आकाशवैरंभसंघातैर् महाकालमेघैर् महाकालवाय् उभिश् चावृतं यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणं गौतमं न पश्येयुः । पुनर् एव मे भवनम् आगच्छेयुः । तथापि बुद्धाधिष्टानबलेन किय न्तम् अपि वायुं न शक्नोत्य् उत्पादयितुं यो ऽन्ततो बालाग्रम् अपि कंपयेत् प्राग् एव बहुतरम् ।
अथ मारः पापीमान् भूयस्य मात्रया दुष्टदुःखितो दुर्मना विप्रतिसा री रुदन् महा स्वरेण स्वपुत्रगणपारिषद्यान् विक्रोशन् सर्वं मारभवनं शब्देन पूरयाम् आस ।
आगच्छथ प्रियसुता गणपारिषद्या
भ्रष्टा वयं स्वविषयात् स्वबलाच् च रिद्धे ः ।
जातो ऽत्र एष विषवृक्ष इवान्तरात्मा
मायाशठो मधुरवाग् इह शाक्यपुत्रः ॥ र्क्प्_1.29
अथ तेन शब्देन सर्वास् ता मारकन्याः मारदुहितराश् च सर्वे च मारपुत्रा ( कुरुमिय 15 ) गणपार्षद्या श् च त्वरितमानरूपाः शीघ्रम् उपगम्य मारस्य पापीमतः पुरतस् तस्थुः । तस्यां च परिषदि जयमतिर् नाम मारपुत्रः । स प्रांजलिर् भूत्वैवम् आह ।
किं दुर्मना ः परमकोपविदुष्टचेता
नो कल्पदाह इह न च्युतिर् अद्य ते ऽस्मात् ।
शत्रुर् न चास्ति तव कश्चिद् इह प्रवृद्धो
मोहं गतो ऽसि किम् इवान्यमति र् व कस्मात् ॥ र्क्प्_1.30
मार ः प्राह ।
न त्वं पश्यसि शाक्यपुत्रविष लञ् छा यानिष ण् णं द्रुमे
यद् वाक्यं वदसीह नास्ति बलवाञ् छत्रुस् तवेत्य् अग्रतः ।
सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो
अ ङ्गारेण वयं सुताश् च चमवः यद्वद् विदह्यामहे ॥ र्क्प्_1.31
विद्वांसो बहुशास्त्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् ।
एतं शाक्यसुतं गता द्य श रमं ध र्माङ्कुशेनोद्धृता
तत्व् एष प्रियविग्रहः शठमतिः शत्रुर् ममात्युद्धतः ॥ र्क्प्_1.32
एता वै परिचारिका ः प्रियतमाः प्रोत्सृज्य मां निष्कृपा ः
भो भोस् तं श्रमणं गता द्य शरणं कृ त्वापि मां साक्षिणम् ।
कुर्यात् कृत्स्नम् इदं भवत्रयम् अतः शून्यं शठो मायया
भस्मीकुर्म इहाद्य यद्य् अतिबलं नाशु प्रयत्नाद् वयं ॥ र्क्प्_1.33
अथ ते सर्वे मारपुत्राः स गणपार्षद्याः प्राञ्जलयो भूत्वैवम् आहुः । एवम् अस्तु यद् अस्माकम् ऋद्धिबलविषयानुभावविकुर्वितं सर्वं दर्शयिष्यामः । यदि शक्ष्याम एतं शाक्यपुत्रं भस्मीकर्तुम् इत्य् एव ं कु शलम् । यद्य् एवं न शक्ष्यामस् तं शरणं गमिष्यामः । स्वयम् एव तात प्रत्यक्षो ऽसि यद् वयं महासैन्यपरिवृताः प्राग् एव एकाकिनाद्वितीय् एन् आनेन शाक्यपुत्रेणर्द्धिबलेन पराजिताः किं पुनर् एतर्ह्य् अनेकपरि वारपरिवृतेन । मारः पापीमान् एवम् आह । गच्छत तावद् भद्रमुखा ः । यदि शक्नुतैनं श्रमण ं गौतमं घातयितुं पुनर् आगच्छत ॥ अथ न शक्तास् तथाप्य् आगच्छत । स्व भवनं पुनः प रिपालयिष्याम ः ॥
अथ मारपर्षद्द्वादश ब् इंबराणि ततो ऽतिक्रम्य इत ऊर्ध् व् अं याव च् ( कुरुमिय 17 ) चतुराशीतिं योजनसहस्राणि स्फरित्वा तादृशं मारबलरिद्धिवेगं दर्शया म् आसुः । स र्वचातुर्द्वीपिकायाम् आकाशं महाकालमेघैर् आपूरया म् आ सुः । महाकालवायुभिश् चोल्कापातैश् च सुमेरुं पर्व त राजानं पाणिभिः पराजघ्नुः । सर्वं चातुर्द्वी पिकां प्रकम्पया म् आ सुः । परमभैरवांश् च शब्दान् समुत्ससर्जुः । यतो नागा महानागाः यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्याः सगिरिशैलपर्वतायाः सुमेरोश् च पर्व तराज्ञः कंपं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणां च संक्षोभं ज्ञात्वा गगनतले तस्थुः । सा च मारपर्षत् सुमेरुमूर्धनि स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मिमीयांगमगधेषु समुत्ससर्ज । महान्तं चासिमुसलपा षा णतोमरभिण्डिपालनाराचक्षु र प्रक्षुरमुखक्षुरकल्पवासिमुखवासि धा रकरालचक्रविकरालचक्रदृढखरपरुषरूक्षवर्षं निर्मायोत्ससर्ज ॥
अथ भगवांश् तस्मिन् समये मारमण्डलविध्वंसनं नाम समा धिं समापदे । यत् स र्वां शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवपुष्पवृष्टिम् अध्यतिष्ठत् । ( कुरुमिय 18 ) तांश् च शब्दान् नाना वा द्यान् अध्यतिष्ठत् । यद् उत बुद्धशब्दं धर्मश ब्दं संघशब्दं पारमिताशब्दं अभिज्ञाशब्दं अवैवर्तिकशब्दं अभिषेकशब्दं चतुर्मारपराजयशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत् सोपादा ननिरुपादानशब्दा न् अध्यतिष्ठत् ॥ सर्वा रजोन्धकारवायवः प्रशेमुः । ये केचिद् इह चातुर्द्वीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास् तान् सर्वान् स प् तरत्न मया न् अध्यतिष्ठत् ॥
अनव लोक्यमूर्ध्नो भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयाम् आस । एकैकस्माच् च लक्षणाद् भगवतस् तादृशी प्रभा निश्चचार यया प्रभया त् ऋ साहस्रमहासाहस्री लोकधातुर् उ दारेणावभासेन स्फुटो ऽभूत् । ये चास्यां त्रिसाहस्रमहासाहस्र्यां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकु म्भाण्डमनुष्यामनुष्या नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवंतम् अद्राक्षुः । बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्प् ऐ र् अ वकीर्य प्र दक्षिणं चक्रुः स्तुवंतो नमश् चक्रुः । बहूनि च नैरयिकतैर्यग्योनिकयामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे । पूर्वावरोपितकुशल मूलम् अनुस्मृत्य नमो बुद्धायेति कृत्वा तेभ्यो ( कुरुमिय 19 ) ऽपायेभ्यश् चवित्वा देवेषूपपन्नाः ॥
ततश् च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि स गण पार्षद्यानि भगवत ए वंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके ऽतीव प्रसादं प्रतिलब्ध्वा येन भगवांस् तेनोपजग्मुः । उपेत्य सार्धं तैः पंचभिर् मारकन्याशतैर् भगवतः पादौ शिरसाभिवन्द्यांजलीन् प्रगृह्याभिर् गाथाभिर् अधिभाषंते स्म ॥
विशुद्धमूर्ते परमाभिरूप ज्ञानोदधे कांचनमेरुतुल्य ।
वितत्य लोकं यशसा विभासि त्वाम् एव नाथं शरणं व्रजामः ॥ र्क्प्_1.34
प्रणष्टमार्गे विनिमीलिताक्षे उल्कायसे त्वं जगतीव सूर्यः ।
अपराजितप्राणभृद् एकबन्धो त्वां सार्थवाहं शरणं व्रजामः ॥ र्क्प्_1.35
सुसंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त ।
करुणाशय स्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः ॥ र्क्प्_1.36
संसारकान्तारविमोक्षक्स् त्वं सामग्रितो हेतु फल प्रदर्शकः ।
म् ऐत्राविहारी परमविधिज्ञ करुणाविहारींश् छरणम् व्रजामः ॥ र्क्प्_1.37
मायामरीचिदगचन्द्रसन्निभे भवे ऽप्रसक्ताविषयाश्रयेण ।
अज्ञानरुग्नाशक लोकनाथ त्वां वैद्यराजं शरणं व्रजामः ॥ र्क्प्_1.38
त्वं सेतुभूतश् चतुरौघमध्याद् उत्तारकः सप्तधनार्यवृत्तैः ।
सन्मार्गसन्दर्शक लोकबन्धो कृपान्वितं त्वाम् इह पूजया मः ॥ र्क्प्_1.39
क्षम्यामहे त्वां व यम् अग्रबुद्द्धिम् आसं प्रदुष्टास् त्वयि यद् वयं तु ।
तम् अत्ययं वीर गृहाण नाथ त्वम् एकबन्धुर् जगति प्रधानः ॥ र्क्प्_1.40
वयं समुत्सृज्य हि मारपक् ष म् उत्पादयामो वरबोधिचित्तम्
निमंत्रयामः किल सर्वस त् त्वान् ( कुरुमिय 21 ) बोधि ं लभेमो वयम् उत्तमातु ॥ र्क्प्_1.41
निदर्श या स्माकम् उदारचर्यां यथा वयं पारमिताश् चरेम ।
अनन्यवादैः कतिभिस् तु धर्मैः समन्विता बोधिम् अवाप्नुवंति ॥ र्क्प्_1.42
पुष्पाणि यत् ते ऽभिमुखं क्षिपाम श् छत्राणि तान्य् एव तु सर्वदिक्षु ।
तिष्ठंतु मूर्ध्नि द्विपदोत्तमानां क्षेत्रेषु सर्वर्तुसुखाकरेषु ॥ र्क्प्_1.43
अथ खलु ते सर्वे मारपुत्रा मार कन्याः सगणपार्षद्या भगवन्तं मुक्तकुसुमैर् अभ्यवाकिरन् । तानि च मुक्तकुसुमानि भगवत रिद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गंगानदीवा लुकाधिकानि पुष्पच्छत्राणि संतिष्ठंते स्म । तानि पुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धाव् उपर्य् अन्तरीक्षे तस्थुः । स्वयं च ता मारकन्याः सगणपार्षद्याः अद्राक्षुः । दशसु दिक्षु सर्वबुद्धक्षेत्रेष्व् असंख्येयेष्व् ( कुरुमिय 22 ) अप्रमेयेषु बुद्धानां भगवतां तिष्ठ तां यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपता ं विरोचतां सन्निष ण् णानां तानि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे मूर्धसन्धौ संस्थितानि । ते च बुद्धा भगवन्तः समवर्णाः समलिंगाः समरूपाः समदर्शनाः । केवलं तेषां बुद्धानां भगवतां सिंहासननानात्वं परिषदानानात्वं बुद्धक्षेत्रगुणव्यूहनानात्वं ददृशुः । ते च तेषां बुद्धानां भगवतां स्वरमण्डलपादव्याहारम् अश्रौषुः । सा च मारपर्षद् भगवतो ऽनुभावेनैवंरूपं प्रातिहार्यं दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर् वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय ॥
अथ खलु तेषां मारपुत्राणां सगणपार्षद्यानां दश ब् इंबराणि प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते विस्तरेणावो चन्न् इ ति । एकरोमकूपम् अपि वयं तस्य श्रवणस्य गौतमस्य न शक्ता विध्वंसयितुम् इति ॥ भूयश् च विंशतिसहस्राणि तम् एव शरणं जग्मुः तस्यैव चा ग् र तो निषण्णा धर्मश्रवणाय ॥
अ थ खलु मार ः पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मना विप्रतिसार्य् एवम् आह ॥
लक्ष्मी गता मम पुनर् न परैति तावद् या व त् कृ त् ओ ऽस्य न + शाक्यसुत स्य नाशः
तूष्णी ं स्थिता वयम् अनन्यमनःप्रतर्काः शाक्यात्मजं कथं इम्ऽ; अद्य तु घातयेम ॥ र्क्प्_1.44
अथ मारः पापीमान् दुर्मनस्क एव शोका गारे निषण्णः ॥
महायानसूत्राद् रत्नकेतुमारजिह्मीकरणपरिवर्तो नाम प्रथमः ॥ ॥
इइ.
अथ ता मारकन्या मारपुत्राश् च सगणपारिषद्या भग वन्तम् एवम् आहुः । अ र्थिका वयं भगवन्न् अनेनैवंरूपेण यानेन च ज्ञानेन च रिद्ध्या कृपयोपायेन प्रतिभानेन च आश्चर्यं भगवन् यावद् उपाय ज्ञान समन्वागतस् तथाग तः । कतमैर् भ गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ॥ भगवान् आह । चतुर्भिर् धर्मैः समन्वागत ः कुलपु त्रा इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ।
कतमैश् चतुर्भिः । इह भद्रमुखा ः कुलपुत्रः सर्वधर्मान् न परामार्ष्टि । न च क्वचिद् धर्मम् उद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यद् उत दानपारमितायां चरन् न दानफलं रि ञ् चति नोद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायाम् अपि चरन् यावन् न कल्पयति न विकल्पयति ॥ पुनर् अपरं भद्रमुखाः स कुलपुत्रो न स त् त्ववादी भवति न जीववादी न पोषवादी ( कुरुमिय 25 ) न पुद्गलवादी न स त् त्वधातु ं मनसा परामार्ष्टि याव न् न कल्पयति न विकल्पयति ॥
पुनर् अपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन् न कल्पयति न विकल्पयति ॥
पुनर् अपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्यालंबनफलविपाकसमुत्थानाश्रयोत्पादान् न परामार्ष् ट् इ यावन् न कल्पयति न विकल्पयति ॥
तत् कुतः । सर्वज्ञज्ञानं सर्वचर्याधिष्ठान विषयकल्पविकल्परहितम् अनुपलम्भयोगेन च कर्तव्यं ॥ अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावद् अघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा नुप लंभनादर्शना विविक्ता निरात्मा अलक्षणापगताक्षणव्युपशान्ता अतमानालोकास्थानाविषया नीश्वरा पक्षाप् र् अतिपक्षा अचिन्त्यानाहारामत्सराप्रपञ्चारजा विरज निरवयवा निष्किंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः स र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामार्शयोगेनाकल्पाविकल्पयोगेन ( कुरुमिय 26 ) चर्तव्याः ॥ एभिर् भद्रमुखाश् चतुर्भिर् धर्मैः स मन्वागतः पुरुषपु द्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ॥
यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय ल क्षणाधिष्ठान व्यवचारेण सर्वज्ञज्ञानं पर्येष ते स द्वयसक्तो भवति । द्वयसक्तमनःसंकल्पो विसंवादयति सर्वज्ञताः । तत्र कतमद् द्वयम् । य त् स्कन्धधात्वायतनानि लक्षणव्यवचारेणा धिति ष्ठति परामार्ष्टि द्वय म् एतद् विसंवादयति सर्वज्ञताः । चर्याधिष्ठानफलकल्पना द्वयम् एतत् । जातिभवोपादानस त् त्वाधिष्ठानकल्पना द्वयम् एतत् । देशनाप्रकाशनाप्रज्ञापनवाक्पथरुतव्या हारा धिष्ठानकल्पना द्वयम् एतत् । उच्छेदशाश्वतव्यवलोकनज्ञानज्ञेयाधि ष्ठा नकल्पना द्वयम् एतत् । स त् त्वजीवपोषपुरुषपुद्गलकारककारापकसंज्ञाधिष्ठानकल्पना द्वयम् एतत् । यो ऽपि पारापारोहापोहान् अधितिष्ठति कल्पयति द्वयम् एतत् । यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञान ं पर्येषते पुरुषपुद्गलः स त्र्यध्वाह ं कारममकारसमुदयनिरोधव्यवचारम् अधितिष्ठति कल्पयति विकल्पयति परामार्ष्टि तस्य द्वयम् एतत् सर्वज्ञज्ञाने ॥ तद्यथा कश्चित् पुरुषः ( कुरुमिय 27 ) अग्न्यर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः पाषाणं पुष्पार्थिकश् चीवर ं गन्धार्थिको मनुष्यकुणपं वस्त्रार्थिको ऽश्मानं विलेपनार्थिक आकाशं परामृशेत् । एवम् एव भद्रमुखाः यश् चर्याधिष्ठानसंगव्यवचारसमुच्छ्रयद्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस् तस्य व्यायामः ॥
अथ खलु तस्याम् एव परिषदि धारणमतिर् नाम बोधिस त् त्वः सन्निपतितो ऽभूत् सन्निषण्णः । स येन भगवांस् तेनांजलिं प्रणाम्यैवम् आह । यद् अनभिलप्यं तच् छक्यम् अभिसंबोद्धुम् ॥
भगवान् आह । एष एवाभिसंबोधो यद् अनभिलप्यं जानीते । ते न हि कुलपुत्र त्वाम् एव प्रवक्ष्यामि । यथा ते क्षमं तथा व्याकुरु । अस्ति द्रव्यलक्षणभावो यः सर्वज्ञतानाम लभते । आह यद्य् अस्तीति वक्ष्यामि शाश्वतो भविष्यति । अथ नास्तीति वक्ष्याम्य् उच्छेदो भविष्यति । मध्यमा च प्रतिपन् नोपलभ्यते ॥ नासाव् अस्ति नापि नास्तीति । यद् एष्व् असंगानुत्पादाव्ययाप्रमाणासंख्यातमानालोकेषु ज्ञानम् एष एवाभिसंबोधः ॥
विद्युन्मतिर् बोधिस त् त्व आह । यत्र भगवन् नागतिर् न गतिर् इत्य् एव ं ज्ञानावतारकौशलम् एष एवाभिसंबोधः ॥
वैरोचनो बोधिस त् त्व आह । यत्र भगवन् न प्राप्तिलक्षणं नाप्राप्तिलक्षणं नाभिसमयो न साक्षात्कृया न शमो न प्रशमो न त्र्यध्वं न ( कुरुमिय 28 ) त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः ॥
धारणमतिर् बोधिस त् त्व आह । यो भगवन् न त्रैधातुकं न त्रीणि संयोजनानि न त्रैविद्यतां न तृयानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीकरोत्य् एष एवाभिसंबोधः ॥
वज्रमतिर् बोधिस त् त्व आह । यः पृथग्जनधर्मान् आर्यधर्माञ् छैक्षधर्मान् अशैक्षधर्माञ् च श्रावकधर्माञ् च प्रत्येकबुद्धधर्मान् न कल्पयति न विकल्पयति न सामीचीकरोत्य् एष एवाभिसंबोधः ॥
दृढमतिर् बोधिस त् त् व आह । यो विवेकनये न तथतां व्यवचारयति एष एवाभिसंबोधः ॥
रत्नपाणिर् बोधिस त् त्व आह । यो ऽनुत्पादलक्षनं सर्वधर्माणां च प्राप्तये चाभिसमयाय न कल्पयत्य् एष एवाभिसंबोधः ॥
अचिन्त्यमतिर् बोधिस त् त्व आह । य स् त्रैधातुकव्यवचारः चित्तम् एव चित्ते प्रवेशयत्य् उभे चित्ते चित्तेन व्यवचार्य नोपलभते एष एवाभिसंबोधः ॥
अरिविजयो बोधिस त् त्व आह । यः सर्वधर्मेषु न सज्यते नानुनीयते ( कुरुमिय 29 ) नोपेक्षते न प्रतिहन्यते न स्पृहयते न मुह्यते न गृह्णाति न मुच्यत्य् एष एवाभिसंबोधः ॥
पद्मगर्भो बोधिस त् त्व आह । यः पुण्यपापयो र् न सज्जते गंभीरक्षांतिनयावतार् एण् आहंकारममकारान् न कल्पयत्य् एष एवाभिसंबोधः ॥
चन्द्रप्रभः कुमारभूत आह । यो दगचन्द्रसमान् सर्वधर्मान् न प्रजानीते न च धर्माणां स्वभावम् आचयं चापचयं वा पश्यत्य् एष एवाभिसंबोधः ॥
खगमतिः कुमारभूत आह । यस्य सर्वतमालोकोत्पादव्ययोत्कर्षा पचय श् चित्तचैतसिकेषु न प्रवर्तंत एष एवाभिसंबोधः ॥
मैत्रेयो बोधिसत्त्व आह । ..... एष एवाभिसंबोधः ॥
अक्षयमतिर् बोधिस त् त्व आह । यस् त्रि मण्डल परिशुद्ध्या पारमितास्व् अभ्यासं करोत्य् अनुपलंभयोगेन न रज्यते न विरज् य् अत एष एवाभिसंबोधः ॥
मंजुश्रीः कुमारभूत आह । यो भगव न् सर्व धर्मेषु न रज्यते न विरज्यते गंभीरधर्मनयं च प्रजानाति । यच् च प्रजानाति तन् नायूहति न निर्यूहति नाकर्षति न विकर्षति न च कस्यचिद् धर्मस्य् ओपचयं ( कुरुमिय 30 ) व् आपचयं वा विद्या ं वा विमुक्तिं वोत्पादयति व्ययं वा हानिं वा वृद्धिं वा वस्तुषु न संक्लिष्यते ऽविकल्पनतः एष एवाभिसंबोधः ॥
अनेनैकनयेन सर्व ज्ञज्ञाना भिसंबोधः ॥
अथ कौतूहलिको बोधिस त् त्व आह । किं मंजुश्रीर् आयोगप्रयोगेन प्रयोजनं यद् अनेनैकनयतथथाप्रवेशेनैवं गंभीर शून्यता भावनानयेन सर्वज्ञञानपरिज्ञानं ॥
मंजुश्रीर् आह । विषमदृष्टिरहितः सम्यग्दृष्ट्यसमारोपः । अशाठ्यरिजुकतासमारोपः । पापरहितो गुरुगौरवासमारोपः । सुवचनासमारोपः । सम्यगाजीवासमारोपः । सर्वसंयोजनरहितासमारोपः । समाक्रोशसर्वस त् त्वकृपासमारोपः । तृस ं वरासमारोपः । अविसंवादनकुशलधर्मासमारोपः । अव्युपशान्तासमारोपः । सद्धर्मारक्षासमारोपः । सर्वस त् त्वापरित्यागासमारोपः । सर्ववस्तुपरित्यागासमारोपः । दुर्बलस त् त्वबलप्रतिष्ठापनासमारोपः । भीतशरणाभयासमारोपः । कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनासमारोपः । क्षान्तिसौरत्यासमारोपः । सर्वग्राहसंगलक्षणासमारोपः । सर्वरजस्तमस्कन्धवर्जनासमारोपः । ( कुरुमिय 31 ) सर्वपरिणामनाफलविपाकवर्जनासमारोपः । इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य । सर्वाक्षररुतघोष वाग्व्याहार पदप्रभेदतथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगाः । सर्वतथागतवचनान्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यप्रज्ञापारमिताप्रयोगततथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वतृविमोक्षाश्रयहेतुकर्मधर्म तथता प्रवेशेन च ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति ॥
कौतूहलिको बोधिस त् त्व आह । एवम् एतन् मंजुश्रीर् यदा इमं गंभीरं धर्मनयम् अवबुध्यते तदा न कंचिद् धर्मं समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यै र् वार्थपदव्यंजनैर् देश्येत प्रकाश्येत । यं वा पुन ः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् । सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति यः सर्वज्ञज्ञानम् अवबुध्यते ॥
भगवान् आह । साधु साधु कुलपुत्र सुभाषितस् ते ऽयम् एकनयेन सर्वज्ञज्ञानप्रतिलाभः । तत् कुतः सर्वधर्मा ह्य् असमारोपाः अनुत्पादाविनाशकोटीकाः । अविद्यानिर्वाणानुत्पादभूतकोटीका आकाशनिर्वाणकोटीकाः । अनभिलाप्यकोटीकाः सर्वधर्माः । एवं सर्वस त् त्वाः । ( कुरुमिय 32 ) सर्वधर्मनिद्रव्यकोटीकाः सर्वसंगवस्तुतः परिकीर्तिताः । सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्कि ं चनकोटीकाः । तृसंस्कारशून्यताकोटीकाः । धर्मस्कन्धविपाकस्कन्धा प चयोपचयस्कन्धनिद्रव्यकोटीकाः । शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिस त् त्वो महास त् त्वः सर्वज्ञज्ञानम् अवतरति ॥
अस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर् मारकन्यामारपुत्रगणपार्षद्यसहस्रैर् अनुत्पत्तिकेषु धर्मेषु क्षान्ति ः प्रतिलाब्धा । औदारिकं च काय ं विजह्य मनमयं कायं प्रतिलेभिरे । अपरेषाम् अप्य् अष् ट् आविंशतीनाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् । द्विनवतीनां च देवमनुष्यबिंबराणां विचित्रविचित्राणां च बोधिस त् त्वक्षान्ति समाधि धारणीनां प्रतिलाभो ऽभूत् ॥
अथ तानि विंशतिसहस्राण्य् अनुत्पत्तिकधर्मक्षांतिप्रतिलब्धानां बोधिस त् त्वानां महास त् त्वानां भगवन्तं दिव्यै ः पुष्पैर् अभ्यवकिरंत्य् अभिप्रकिरंति स्म । भगवतश् च पादौ शिरोभिर् अभिवन्द्यैवम् आहुः । पश्य भगवन् न् अ कल्याणमित्रसंसर्गवशेन स त् त्वानां सर्वपुण्योपचयकुशलमूलान्य् ( कुरुमिय 33 ) अमनसिकाराणि भवन्ति । भगवान् आह । कर्मप्रत्यय एष द्रष्टव्यः । कौतूहलप्राप्तानां च स त् त्वानां भगवान् संशयछित्त्यर्थम् इमं पूर्वयोगम् उदाजहार ॥ ॥
भूतपूर्वं कुलपुत्रातिते ऽध्वन्य् अपरिमाणेषु महाकल्पेष्व् अतिक्रान्तेष्व् अस्याम् एव चातुर्द्वीपिकायां लोकधातौ यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टाषष्टिवर्षसहस्रायुष्कायां प्रजाया ं तेन च कालेन तेन समयेन ज्योति ः सोम्यगन्धावभासश्रीर् नाम तथागतो ऽभूत् विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् । क्लिष्टे पंचकषाये लोके वर्तमाने चतसृणां पर्षदां त्रियानप्रतिसंयुक्तं धर्मं देशयति स्म ।
तेन खलु पुनः समयेन राजाभूद् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरः चक्रवर्ती । अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ज्योति ः सोम्यगन्धावभासश्रीस् तथागतस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानापुष्पैर् अभ्यवकिरट् । नानावाद्यैर् नानागन्धैर् नानाधूपैश् च पूजां कृत्वा त्रिप्रदक्षिणीकृत्वा भगवतः भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावित् ॥ ॥
भुजगामरादिभिर् अतीव गुणैः समभिष्टुतः प्रचुरदोषहरः ।
धनसप्तकेन हित कृ ज् जगतो वद केन सूक्ष्ममतिमान् भवति ॥ र्क्प्_2.1
जगतस् तमोघ्न शमदीपकर च्युतिजन्मरुङ्मरणशोकदम ।
जगतस् त्व् अपायपथवारयिता वद केन मुच्यत्ऽ; इह मारपथा ॥ र्क्प्_2.2
अथ खलु कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतो राजानम् उत्पलवक्त्रम् एतद् अवोचत् ॥ तृभिः सत्पुरुष धर्मैः समन्वागतो बोधिस त् त्वः सूक्ष्ममतिर् भवति । कतमैस् त्रिभिः । अध्याशयेन सर्वस त् त्वेषु करुणायते । सर्वस त् त्वानां दुःखप्रशमायोद्युक्तो भवति मातृवत् । सर्वधर्मान् निर्जीवनिष्पोषनिष्पुद्गलान् अनानाकरणसमान् व्युपप री क्षते । एभिस् त्रिभिर् धर्मैः समन्वागतः सत्पुरुष बोधिस त् त्वः सूक्ष्ममतिर् भवति । अपरैस् त्रिभिर् महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु स सज्जते । कतमैस् त्रिभिर् यद् उत सर्वस त् त्वेषु ( कुरुमिय 36 ) अक्रोधनो भवति । अनवतारप्रेक्षी । सर्वस त् त्वसमदक्षिणीयस ं ज्ञो भवति । सर्वधर्मान् एकनयेन व्युपपरीक्षते । यदुताकाशसमान् सर्वधर्मान् निष्प् र् अतिकारानानात्वान् अजातानुत्पन्नान् अनिरुद्धान् । सर्वान् आकाशवद् द्रव्यलक्षणविगतान् अनुपलंभयोगेन प्रत्यवेक्षते । एभिर् महाराज त्रिभिर् धर्मैः समन्वागतः सत् पुरुषो मारपाशेषु न सज्यते मारपथाच् च निर्मुच्यते ॥
अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुराशीतिभिः स्त्रिसहस्रैः परिवृता पुरस्कृता येन ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तेनोपजगामोपेत्य तं भगवंतं ज्योतिःसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैर् अभ्यवकीर्याभिर् गाथाभिर् अध्यभाषत ॥
असदृशगुणधर वितिमिरकरण च्युतिहर वद कथम् इहा युवति ।
भवत्ऽ; इह पुरुषो व्यपगतकुगति लघु विनय मनः प्रवरहितकर ॥ र्क्प्_2.3
परमगतिगत सुगत प्रशमरतिकर
भगवन् त्यजति युवति तां कथम् इह पुरुष ।
वद लघु सुविनय परहितकर
शामय मतितिमिरं मम गगनात् ॥ र्क्प्_2.4
असमसम जगति श्रमण परम प्रथितगुणगणस्मृतिविनयधर ।
मम यदि पुन्ऽ; इह भवति हि नरता लघु वद वितिमिर सुगतिपथम् अमृतं ॥ र्क्प्_2.5
एवम् उक्ते कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तां सुरसुन्दरीम् अग्रमहिषीम् एतद् अवोचत् ॥ अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्व् एव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्व् अशेषं क्षीयते न च भूयो मातृग्रामेषूपपत्तिं प्रतिगृह्णाति यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र स्व प्रणिधानात् । तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्व् अशेषं क्षपयति । इह भगिनीयं रत्नकेतुर् नाम धारणी महार्थिका महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाक्चित्तदुःखविपाकदौष्ठुल्यं निरवशेषं क्षपयति । अस्याश् च रत्नकेतुधारण्याः सहश्रवणेन मातृग्रामस्य मातृग्रामभवो निरवशेषो गच्छति । स्त्रीन्द्रियं अन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति । पुरुषश् चापि रूप वान् सर्व् आंगपरिपूर्णो ( कुरुमिय 38 ) भवति । ऋजुः सूक्ष्मज्ञानकुशलो भवति । कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशत्रुनिर्जेता भवति । यश् चास्य दृष्टधर्मसांपरायिकः काय वाङ्म नोदुःखप्रतिसंवेदनीयो दुष्कृताना ं कर्मणां फलविपाकः स परिक्षयं गच्छति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकम् आर्यापवादकं च । तेषां पुनस् तेनै वात् मभावेन परिक्षयं गछति । परिशेषः स् त् रीभावः काय वा ङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावबीजनिर्वर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरणबीजनिष्यन्दो निरवशेषः परिक्षयं गच्छति । तत् कुतः । यथा नामेयं रत्नकेतुधारणी सर्वैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषिता चाधिष्ठितान्योन्यम् अनुमोदिता स्तुताभिष्टुता वर्णिता प्रशस्ता स त् त्वाना म् दुःखविपाककर्मपरिक्षयाय ( कुरुमिय 39 ) कुशलमूलविवृद्धितायै । ये ऽपि केचिद् एतर्हि दशसु दिक्षु प्रत्युत्पन्नास् तथागता अ र्हन्तः सम्यक्संबुद्धास् तिष्ठ न् ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु सर्वे ते बुद्धा भगवंतः इमां रत्नकेतुधारणीं भाषंते यावत् प्रशंसन्ति स त् त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये । ये ऽपि ते भविष्यंत्य् अनागते ऽध्वनि दशसु दिक्ष्व् अन्योन्येषु तथागता अर्ह न् तः सम्यक्संबुद्धास् ते ऽपीमां रत्नकेतुधारणीं भाषिष्यंति यावत् प्रशंसिष्यंति स त् त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये । अहम् अप्य् एतर्हि रत्नकेतुधारणीं भाषिष्यामि । अनुमोदित्य च दशसु दिक्षु प्रत्युत्पन्नानां तथागताना ं भाषमाणा नाम् अ हम् इ मां र त् नकेतुधारणी ं व र् णयिष्यामि प्रशंसिष्यामि । यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्त इमां रत्नकेतुधारणीं पुस्तके लिखित्वा धारयिष्यति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षूदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति यावद् सर्वं रूपधातुम् उदारैः कीर्तिशब्दैर् आपूरयिष्यति । अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य राज्ञः क्षत्रियस्य पृष्ठतः समनुबद्धा राक्षानुगुप्तये स्थास्यंति । सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः ( कुरुमिय 40 ) प्रशमं यास्यंति । सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनवराधिनो भविष्यंति । सर्वे विषतिक्तकटुकरूक्षविरसपरुषदुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यंति । सर्वाणि चास्य धनधान्यौषधिवनस्पत्यः फलपुष्पाणि प्ररोहिष्य न् ति विवर्धिष्यंति स्निग्धानि सुरसानि च भविष्यंति । सचेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति । सचेद् उभयो राज्ञोः क्षत्रिययोर् मूर्धाभिषिक्तयोः स ं ग्रामाभिरूढ योर् अयं रत्नकेतुधारणीपुस्तको ध्वजाग्रावरोपितो भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य तः । इत्य् एवं बहुगुणानुश ं सेयं रत्नकेतुधारणी । यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां चतुष्पदानां व्याधिता-म्-अकालमरणं विहेठा वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः । प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः । सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यंति । सर्वाणि ( कुरुमिय 41 ) च तत्र भयरोमहर्षदुर्निमित्तान्य् अंतर्धास्यंति । य ः कश्चिन् मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवर ं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैर् इमं पुस्तकम् अर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या । पुत्रप्रतिलाभी भविष्यति । एष एव प श् च् इमो मातृग्रामभावो यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र स्वप्रणिधानात् स त् त्वपरिपाचनहेतोः
@fओलिओ 20 इस् मिस्सिन्ग्; तेxत् अच्चोर्दिन्ग् तो दुत्त्:@@ तस्मिन् काले तथागतो ज्योतिप्रभश्रीर् इमां रत्नकेतुधारणिम् उदाहरत् । जलोके जलोके । मोके जलि । जल जलिमि । जलव्रते जहिले । वरपुरुषलक्षणसमारुह्य । अममे वममे वममे । नवमे महासे । जहमे जहमे जहमे जहमे । वरमे वरमे । वववे । वववे । वहवे । वंगवे । वजवे । वार वारशे । जलमेख । परख । अलजहिलि । जन तुले । जन तुभुखे । वहर वहर । सिंह व्रते । नन तिला । नन तिन दाला । सूर्यविहग । चन्द्रविहग । चक्षु रज्यति शविहग । सर्वक्षयस्त्रित्वसुरविहग । जखग जखग । सुरखघ । वहम । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख अम्रिख । म्रिख म्रिख म्रिख । व्यवदेत कर्म । दुने दुने । उपत व्यवच्छेद ज्ञानकृत । अनुद पदाखग । नेरुक । अङ्गुले भङ्गुले विभङ्गुले । कुलह । इन्द्रपरिविभह । व्यवच्छेद करभ । वव्रति । वव्रति । च प्रति । च प्रति । अमोह दरशने । परिवर्त भष्यु । खसम । क्रिमज्योतिखग । जहि जहि ज्योति । निष्क भिरस । भिरस । भिरज । मतिक्रम । भिवक्रिव । महाक्रिव । हि ले हिहिले । अरुणवर्ते । सम य निष्के । दमदानध्यान अपरामृशे । फलकुण्डललखे ( कुरुमिय 42 ) निवर्त इस्त्रिभाव कर्मक्षय प्रादुर्भव पुरुषत्वम् । असमसम । समय विदि ज्ञ तथागत स्वाहा ॥
समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनर् अपि महापृथिवी च कंपे । तासाम् अपि पञ्चशतमारकन्यानां सहश्रव णेनास्या रत्नकेतुधारण्याः स्त्रीव्यंजनम् अन्तर्धाय पुरुषव्यंजनं प्रादुरभवत् । अप्रमेयासंख्येयानां देवनागयक्षग न्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाच कुंभाण्डकन्यानां सहश्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्य ञ् जनान्य् अंतर्धाय पुरुषव्य ञ् जनानि प्रादुर्भूतानि । ताश् च सर्वा अवैवर्त्या अभूवन्न् अनुत्तरायां सम्यक्संबोधौ । सर्वासा ं चानागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं निरोधं च । ताः स्त्रियः प्रा ञ् जलियो वन्दित्वा तं शाक्यमुनिं तथागतम् एवं मघाघो षैर् आहु ः ॥ नमो नमः आश्चर्यकारकाय ( कुरुमिय 43 ) शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय ॥ ब्रूहि महाका रुणिक विस्तरेणेमं पूर्वयोगं कथम् अस्माकं स्त्रीभावम् अन्तर्हित ं सर्वाकारपरिपूर्णं च पुरुषभावं संप्राप्तम् । तेनाश्चर्यप्रातिहार्यसंवेगेन वयम् अनुत्तरायां सम्यक्संबोधौ चित्तं जनयम । ब्रूहि भगवन्न् इमं पू र् व यो ग म् । त त्साक्षिणो भविष्यत्य् अ प् रम् एयस्य देवम नुष्य स्य ॥
अ थ खलु भगवां छाक्यमुनिस् तथाग त इमं पूर्वयोगं देशयति । भद्रमुखाः ज्यो तिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या सुरसुन्दर्या देव्या सार्धं च तुराशीतिभिः स्त्रीसहस्रैर् इयं रत्नकेतुधारणी श्रुता सहश्रवणाच् च तस्याः सुरसुन्दर्या ( कुरुमिय 44 ) अग्रमहिष्याः तेषां चतुराशीतीनां स्त्रीसहस्राणां स्त्रीव्यंजननान्य् अन्तर्धाय पुरुषव्य ञ्जनानि प्रादुरभवन् । तदैवम् अप्रमेयासंख्येयानां दे वकन्यानां यावन् मनुष्यामनुष्यकन्यानां सहश्रवणाद् एवास्या रत्नकेतुधारण्या ः स्त्रीन्द्रियम् अन्तर्हितं पुरु षेन्द्रियं प्रादुर्भूतं । सर्वासां तासां स्त्री णाम् अनागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं संनिरोध म् ॥
यदा च राज्ञः उत्पलवक्त्रस्याग्रमहि ष्याः सुरसुन्दर्याः सान्तःपुरपरिवारायाः पु रुष त्वन् संवृत्तं तदा स राजा उत्पलवक्त्रश् चतुर्द्वीपेश्वरश् चक्रवर्ती ज्येष्ठकुमारं राजाभिषेकेनाभिषिंच्य सार्धम् एकोनेन पुत्रसह स्रेण महापुरुषेण च सुरसुन्दरेण सा र्धं च चतुराशीतिभिः सुरसुन्दरो महापुरुषसहस्रैः सार्धं चा परैर् द्विनवतिभिः प्राण सह स्रैर् अभिनिष्क्रम्य तस्य ज्योतिःसोम्यगन्धावभासश्रियस् ( कुरुमिय 45 ) तथागतस्यान्तिके केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राणि परिधाय सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः । प्रव्रजित्वा स्वाध्यायाभिरतो योनिशमनसिकाराभियुक्तो ऽभूत् ॥
अथ तत्र बहूनां प्राणकोटीनाम् एतद् अभवत् । कस्माद् राजा चक्रवर्ती प्रव्रजितः । ते परस्परा एवम् आहुः । मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम् इमं धर्मन् देशयति । केषांचित् स्त्रीव्यंजनम् अपनाययति । केषांचित् पुरुषव्यंजनं । केषांचित् केशश्मश्रूण्य् अवतारयति । केषांचिद् रक्तानि वासांसि प्रयच्छति केषांचित् पाण्डराणि । केषांचिद् देवोपपत्तये धर्मन् देशयति । केषांचिन् मनुष्योपपत्तये केषांचित् तिर्यग्योन्युपपत्तये केषांचिद् अच्युत्युपप त्त ये धर्मन् देशयति । मारकर्मपथाभियुक्त ः स्त्रीकरणमायया समन्वागतः स श्रवणो ज्योतिःसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः । यन् नून वयम् इतः प्रक्रमेम । न चास्य रूपलिंगग्रहणं पश्येम । न चास्य किंचिद् वचनं शृणुयाम ॥
अथ तत्रैव कुमारभृतो नाम भटः । स एवम् आह । या मम भार्यान्तःपुरिका दुहितरश् चाभूवन् सर्वासाम् अनेन श्रमणकोरण्डकेन ( कुरुमिय 46 ) स्त्रीव्यंजनान्य् अपनीय पुरुषेन्द्रियाण्य् अभिनिर्मितानि । सर्वासा ं शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांस्य् अनुप्रदत्तानि । अहं चैकाकी शोकार्तो मुक्तः । एते सर्वे वयं सम ग् रा भूत्वा विषमं महागहनपर्वत ं प्रविशामः । यत्र वयम् अस्य मार पा शाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषम् अपि न शृणुयामः प्राग् एव पश्याम इति । ते सर्वे तुष्टा एवम् आहुः । एवम् अस्त्व् इति ॥
अथ कुमारभृतो भटः तैर् विचिकित्साप्राप्तैर् बहुभिः प्राणकोटीभिः सार्धं ततः प्राक्राम त् प्रत्यन्तिमे जनपदे विषमपर्वतगहनेषु रिषिवेषेण चर्यां चचार । तेभ्यश् च स त् त्वेभ्य एवं धर्मन् देशयाम् आस । नास्ति संसारान् मोक्षो नास्ति सुकृ त दुष्कृतानां कर्मणा ं फलविपाकः । उच्छेदवाद्य् अद्य श्रमण उत्पन्नो मारकर्माभियुक्तो विसंवादकः । ये च तं दर्शनायोपसंक्रमंति ये च तम् अभिवादयंति ये चास्य धर्मं शृण्वंति ते विक्षिप्तचित्ता भव न् ति । शिरांसि चैषां मुण्डयति । गृहान् निर्वापयति । रक्तानि वासांसि प्रयच्छति । श्मशानचर्यां चारयति । भैक्षचर्यासु निवेशयति । एकाहारिणः करोति । विषमदृष्टिमनसो नित्योद्विग्नान् विवेकवासाभिरताल् लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषणमैथुनधर्मसुरामद्यपानरहितान् ( कुरुमिय 47 ) अल्पभाष्याङ् करोति । एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः स त् त्वानां शत्रुभूत उत्पन्नः । अदृष्टाश्रुतपूर्वम् एतस्य श्रमणगौतमस्य क्रि या म योपलक्षितेति तेन बहूनि प्राणकोटीनयुतशतसहस्राण्य् एवंरूपाम् इमां पापिकां दृष्टिं ग्राहितान्य् अभूवन् ॥
यावापरेण समयेनोत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परान् अप्य् एताण् विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानाम् अवर्णं चारयन्तीति श्रुत्वा चास्यैतद् अभवत् । यद्य् अहं तावत् स त् त्वा ं स् ततः पापकाद् दृष् ट् इगता न् न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापये यं निरर्थकं मे श्रामण्यं भवेत् । कथं चाहम् अनागते ऽध्वन्य् अन्धभूते लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं कथं च व्यसनगतांश् चतुर्मारपाशबन्धनबद्धान् स त् त्वाञ् छक्ष्यामि परिमोचयितुम् इति ॥
अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस् तं ज्योतिःसोम्यगन्धावभासश्रियं तथागतम् अवलोक्यानेकप्राणशतसहस्रपरिवृतः पुरस्कृतः तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरंस् तत्र तत्र तेभ्यः स त् त्वेभ्यो धर्मन् देशयाम् आस । तान् स त् त्वान् पापका द् दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस । कांश्चिद् अपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चिच् छ्रावकयाने का ं श्चित् फले प्रतिष्ठापयाम् आस । कांश्चित् प्रव्रजयाम् आस । कांश्चिद् उपासकसंवरे कांश्चिद् उपवासे कांश्चि त् तृशरणगमने प्रतिष्ठापयाम् आस । स्त्रीभ्यश् ( कुरुमिय 48 ) चेमां रत्नकेतुधारणीन् देशयाम् आस । स्त्रीभावान् निवर्तयित्वा प्रतिष्ठापयाम् आस पुरुषत्वे । याश् च ता बह्वः प्राण क् ओट्यस् तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस् ता न् सर्वांस् ततः पापका द् दृष्टिगतान् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस । तस्यैव च ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकम् उपनीय प्रव्राजयाम् आस स्थाप्य कुमारभृतं भटं । तेन चैवं प्रणिधानं कृतम् अभूत् । यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षद् विलोप्य नीता तथाहम् अप्य् अस्यानुत्तरां सम्यक्संबोधिम् अभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेयं यद् उत गर्भस्थाना त् प्रभृत्य् एनं विहेठयेयं । ततः पश्चा ज् जातमात्रं कुमारक्रीडापनं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डनिषण्णं संत्रासयेयं विघ्नानि च कुर्यां बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् ॥
अथ स उत्पलवक्त्रो महाश्रमणस् तं कुमारभृतं भटम् एवं प्रणिधिकृतव्यवसायं महता कृच्छ्रोद्योगपराक्रमैः प्रसादयित्वा ( कुरुमिय 49 ) ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म ॥
अथ कुमारभृतो भटो विनीतप्रसाद इदं प्रणिधानं चकार । यदा त्वं महाकारुणिकानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेत् तदा बोधिप्राप्तो मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ ॥
स्यात् खलु पुनर् भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्यः स तेन कालेन तेन समयेनासीद् उत्पलवक्त्रो नाम येन तस्य ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थान ं कृतम् अनेकैश् च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशतसहस्राणि ततः पा पकाद् दृष्टि गता न् निवारयित्वा तृषु यानेष् उ नि वेशितान्य् अप्रमेयाः स त् त्वाः फलेषु प्रतिष्ठापिता अप्रमाणाश् च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभ ः कृत इति । न खलु युष्माभिर् एवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजाभूच् चतुर्द्वीपेश्व र श् चक्रवर्ती उत्पलवक्त्रो नाम । मया स एव ं रूपः पुरुषाधि कारः कृतः । स्यात् खलु पुनर् युष्माकं भद्रमुखाः कांक्षा वा विमतिर् वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्राम ण् यम् अवाप्तम् । मैत्र् ए यः स बोधिस त् त्वो महास त् त्वस् तेन कालेन तेन समयेनाभूत् । स्यात् खलु भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्य ः स तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभू त् सार्धं प्राणकोटीभि ः । ( कुरुमिय 50 ) न खलु पुनर् युष्माभिर् एवं द्रष्टव्यम् । अयं स मारः पापीमांस् तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् । यन् मया तत्कालम् तस्य परिषद् प्रव्रजिता तेन मयि प्रदोषम् उत्पाद्यैवं प्रणिधानं कृतम् । यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्या त् तदा त्वं मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ ॥ तस्यैव यूयं कुलपुत्रा ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिके ऽप्रसादं कृत्वा असंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूय ं तत ः पापदृष्टिगता त् परिम् ओच्य प्रव्रजिताः । ततो ऽर्वाग् युष्माभिर् बहूनि बुद्धसहस्राणि पर्युपासितानि । तेषां च पूजोपस्थानं कृतं । तेभ्यश् च धर्मं श्रुत्वा प्रणिधानं कृतं षट्सु पारमिता स् उ चरि त ं इति ॥ तेन यूयं कायवाङ्मनोदुश्चरितेन कर्मणा पूर्वं तृष्व् अपायेष्व् अनेके कल्पाः दुःखान्य् अनुभूतवन्तः । तेनैव कर्मावरणेनैतर्हि मारस्य पापीमतो भवने उपपन्ना इति ॥ अस्मिं खलु पुना रत्नकेतुधारणीपूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पंचाना ं मारकन्याशताना ं स्त्रीभावम् अन्तर्धाय पुरुषभावः संवृत्तो ऽनुत्पत्तिकधर्मक्षान्तिप्रतिलंभाश् चाभूवन् । अप्रमाणानाम् असंख्येयानां स त् त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः ( कुरुमिय 51 ) प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नान्य् अवैवर्त्याश् चाभूवन्न् अनुत्तरायां सम्यक्संबोधौ । एवम् अप्रमेयासंख्येयानि स त् त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने ऽवैवर्त्य अभूवन् । अप्रमेयासंख्येयानां देवमानुष्यकन्यानां मातृग्रामभावो विनिवृत्तः पुरुषभावाश्रयप्रतिलाभश् चाभूत् ॥ ॥
रत्नकेतुपरिवर्ताद् द्वितीयः पूर्वयोगपरिवर्तः समाप्त ः ॥ ॥
इइइ.
अथ खल्व् अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनैतर्हि सर्वावतीयं सहालोकधातुर् उदारेणावभासेन स्फुटाभूत् । यच् चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयंति । ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयंति स्म । कुतो ऽयम् अवभास उत्पन्नः । नूनं पापीमान् नाम मारो यस् तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः सो ऽस्मत्तो बलवत्तर ईश्वरतरो महौजस्कतरश् च । अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं शोकागारे निषण्णं परमदुर्मनस्थं ॥
अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगामोपेत्य मारं पापीमन्तम् एवम् आह । किं भो कामेश्वर सर्वावतीयं लोकधातुर् अवभासिता त्व ं च शोकागारं प्रविश्य निषण्णः ॥
अथ कामेश्वरो मारस् तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत् खलु मार्षा जानीयुर् इह भो श्रमण उत्पन्नः शाक्यवंशात् परमशठः मायावी । तेनोत्पन्नमात्रेण सर्वावतीयं सहालोकधातुर् अवभासिता प्रकंपिता क्षोभिता । ये केचिद् इह कृत्स्नलोकधातुविद्वांसो ब्रह्मेन्द्रा वा नागेन्द्र वा यक्षेन्द्रा वासुरेन्द्रा वा महोर ग् एन्द्रा वा गरुडेन्द्रा वा किन्नरेन्द्रा वा यावद् अन्ये ऽपि केचिन् मनुष्या मनुष्या विद्वांसस् ते सर्वे तम् उपागताः पूजाकर्मणे यावत् षड्वर्षाण्य् एकाक्यद्वितीया निषद्यालक्षणां मायं साधितवान् । अहं च स्वबलस ं दर्शनं चिकीर्षुर् एवं षट्त्रिंशत्कोटीसैन्यपरिवार उपसंक्रम्य समंततो ऽनुपरिवार्य सर्वमारबलविकुर्वणर् द् धिवीर्यपराक्रमं संदर्शितवान् एकरोमकूपम् अप्य् अहम् अशक्तो ऽस्य संत्रासयितुं वा भीषयितुं वा किम् अंग पुनस् तस्माद् आसनात् कंपयितुं किं वा पुनर् अन्यं विघातं कर्तुम् इत्य् अथ चेत् तेन वृषलेन तादृशी मा या प्रदर्शिता पृथिवीकंपश् च कृतः । यत् ससैन्यो ऽहं पराजितः छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव ( कुरुमिय 54 ) निषण्णेन तादृशी अलक्षणा माया सा धिता यत् सर्वमारविषयम् अ भ् इ भूय साधितविद्यस् तस्माद् उत्थाय स त् त्वेभ्यः संप्रकाशयाम् आस । ये च केचिद् इह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञाः स त् त्वास् तथा मा ययावर्जिता यथा चि त्तम् अप्य् अहं तेषां न प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास् तेषाम् एकरोमकूपम् अपि न शक्नोमि संत्रासयितुं वा संक्षोभयि तुं वा किम् अंग पुनस् तस्माद् विसंवादयितुं वा कंपयितुं वा शक्नुयाम् । अद्यैव च मे पंच परिचारिकाशतानि विंशतिश् च पुत्रसहस्राणि सगणपार्षद्यानि वृषलं गौतमं तं श्रमणं शरणं गतास् तस्य पुरतो निषण्णाः । न चाहं भूयस् तानि शक्तस् तस्माद् विवेचयितुं । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः सुहृदो भवत । तं शाक्यपुत्रं वृषलं जीविताद् व्यवरोपयिष्यामः । ये च स त् त्वास् तच्छरणगतास् तां सर्वां विध्वंसयिष्यामः । ( कुरुमिय 55 ) कृष्णं मायाशठं श्रमणपक्षं परा जेष्यामः । शुक्लं मारप क्षम् उद्द्योतयिष्यामः । ततः पश्चात् सुखं फाषं विहरिष्यामः ॥
अथ ज्योतिष्प्रभो मारः इमं जंबुद्वीपं व्यवलोकयाम् आस यत्र तथागतो निषण्णो धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायम् अद्राक्षीत् । स्वरघोषयुक्तां धर्मदेशनाम् अश्रौषीत् । अथ तावद् एव तस्य रोम ह र्षणः संत्रास उत्पन्नः । अथ स मारं पापीमन्तम् एवम् आह ॥
कृत्स्ने क्षेत्रे ह्य् एष विशिष्टो वररूपः
पुण्यज्ञानैर् आश्रय शुद्धश् च् इ रकालं ।
क्लेशान् मुक्तो मा र् गसुयु क् त श् चिररात्रं
क्षीणाः सर्वे तस्य भवा शोकविमुक्तः ॥ र्क्प्_3.1
मा त्वं भूयः क्रोधवशं गच्छ न युक्तम्
अग्रो ह्य् एष श्रेष्ठ शरण्यस् त्रिभवेस्मिं ।
यस्यास्मि वि द्वेषलवो ऽपि प्रतिभाति
व्यामूढो ऽसौ सौख्यविनष्टो भवतीह ॥ र्क्प्_3.2
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तम् एवम् आह ।
महर् द् धिको ऽसौ वरपुण्यलक्षणो ह्य् अनाशृतः सर्वगतिप्रमुक्तः ।
अशेषदुःखक्षयमार्गदेशको विहिंसितुं मारशतैर् न शक्यम् ॥ र्क्प्_3.3
पापीमान् आह ।
वशं मदीया जनता कृता हि युष्मज्जनस् तस्य वशानुगो ऽयं ।
न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुन र् भविष्यति ॥ र्क्प्_3.4
अथ नवरजो नाम मारः स मारं पापीमन्तम् एवम् आह ।
यदा तवासीत् परमा समृद्धिस् तदा त्वया दर्शितम् आत्मशौर्यं ।
बलप्रनष्टो ऽस्य् अधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य ॥ र्क्प्_3.5
खड्गसोमो मारः प्राह ।
क्वचिन् न तस्यास्ति मनः प्रदोषं भावे न शुद्ध् ओ हि न् इराश्रय् ओ ऽसौ ।
त्रैधातुकान् मुक्तगतिप्रचारो नासौ परै र् घातयितुं हि शक्यम् ॥ र्क्प्_3.6
पापीमान् आह ।
ये सन्तिस त् त्वा इह कामधातौ कामप्रसक्ता मदमानमूर्च्छिताः ।
सदानुवृत्ता मम किंकरास् ते कथं न शक्यं हनि तुं समग्रै ः ॥ र्क्प्_3.7
क्षितितोयो नाम मारः स एवम् आह ।
मायामरीचिप्रतिमान् असारान् भावान् परिज्ञाय विनीततृष्णः ।
भवेष्व् असक्तो गगनस्वभावः शक्यं विघातः कथम् अस्य कर्तुम् ॥ र्क्प्_3.8
पापीमान् आह ।
इहैव तस्यास्ति वशो त्रिलोके मृष्टान्नपानासनवस्त्रसेवितः ।
तृवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं स कथं न शक्यम् ॥ र्क्प्_3.9
तृष्णाजहो नाम मारः स एवम् आह ।
या ऋद्धिर् अस्मद्विषये ऽस्ति काचि त् पापीमतां चैव महोरगाणां ।
सिद्धार्थ-ऋद्धेर् न कला ं स्पृशंति क्षयं प्रणेतुं स कथं हि शक्यम् ॥ र्क्प्_3.10
पापीमान् आह ।
भक्तच्छेदो मयास्मै हि कारितस् तच्छिला पुनः ।
क्षिप्ता दत्तास् तथाक्रोशा आश्रमात् कंपितो ऽपि न ॥ र्क्प्_3.11
बोधाक्षो नाम मारः स एवम् आह ।
यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन ।
संदर्शितस् ते भृकुटी मुखे वा किं तस्य साक्षाद् अवचः श्रुतं ते ॥ र्क्प्_3.12
पापीयान् आह ।
प्रतिसंख्यया सो क्षमते च नित्यं प्रहीणरागो गतदोषमोहः ।
सर्वेषु स त् त्वेषु स मैत्रचित्तः संसर्गचर्या पुनर् अस्य नित्यम् ॥ र्क्प्_3.13
दुर्धर्षो नाम मारः स एवम् आह ।
ये च त्रिसंयोज न पाशबद्धास् तेषां विघाताय वयं यतेम ।
स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं स कथं हि शक्यम् ॥ र्क्प्_3.14
पापीमान् आह ।
यूयं मम प्राप्तबला ः सहायाः सद्यो भवन्तो भवथाप्रमत्ताः ।
अपो ऽधितिष्ठामि महीम् अशेषां सर्वा दिशः पर्वतमालिनी च ॥ र्क्प्_3.15
गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्य् आयसचूर्णराशिम् ।
नाराचशक्तिक्षुरतोमरांश् च क्षिपामि काये ऽस्य विचूर्णनार्थं ॥ र्क्प्_3.16
एभिः प्रयोगैर् अभिघातदीप्तैस् तं शाक्यसिंहं प्रकरोमि भस्म ॥ र्क्प्_3.17
पेयालम् । यावन् मारकोटीभिर् गाथाकोटी भाषिता इति ।
अथ सर्वे मारा एककण्ठेनैवम् आहुः । एवम् अस्तु । गमिष्यामः । स्वकस्वकेभ्यो भवनेभ्यः सन्नाहं बद्ध्वा ससैन्यपरिवारा आगमिष्यामो ( कुरुमिय 60 ) यद् अस्माकम् ऋद्धिबलविषयं तत् सर्वम् आदर्शयिष्यामः । अथ त्वं स्वयम् एव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस् तत्क्षणे प्रदर्शयि ष्य ति । अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारः कोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य ते नानाप्रहरणयुक्ता विविधसन्नाहसन्नद्धाः । तस्याम् एव रात्र्या म् अ त्ययेनेमं जंबुद्वीपम् अनुप्राप्तः अङ्गमगधसन्धौ गगने त स्थुः यावद् ये चास्मिंश् चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास् ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधायोद्योजिताः । ते ऽपि नानाप्रहरणवर्मप्रावृताः तत्रैव तस्थुः । मारो ऽपि पापीमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरसो ऋषिः प्रतिवसति महेश्वरभक्तिको अष्टादशसु विद्यास्थाने ष्व् ऋद्धिविषयपारमिप्राप्तः पंचशतपरिवारः तस्य महेश्वररूपेण पुरत ः स्थित्वैवम् आह ।
नित्यं गौतमगोत्रजो ऋषिवरो विज्ञान्ऽ; अभिज्ञाश्रितो
मगधे संवसतीह सो ऽद्य चरते पिण्डाय राज्ञोगृहम् ।
तेन त्वं सह संलपस्व विशदं नानाकथाभि ः स्थिरः
तत्रैवे त्वम् अतीव पंच नियतं प्राप्स्यस्य् अभिज्ञावशिम् ॥ र्क्प्_3.18
अथ मार ः पापीमान् इमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनं च गत्वा स्वपार्षद्याना ं माराणाम् आरोचयति स्म ॥
मत्तो भो शृणुताद्य यादृग् अतुला बुद्धिर् मया चिन्तिता
स्वैरं शाक्यसुतं समालपत ये-द्-ऋद्धिप्रभावान्विताः ।
ता ं मायां न विदर्शयेत् स्वविषयीं मारोरुदर्पापहां
नित्यं स्निग्धवचाः स शिष्यनिरतो मातेव पुत्रेष्व् इव ॥ र्क्प्_3.19
शिष्यास् तस्य हि ये प्रहीणमद् अन् आश् चर्यां चरंति ध्रुवं
पूर्वाह्णे नगरं क्रमेण निभृताः स्वैरेण तावद् वयं ।
गृह्णीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर् यथा
श्रुत्वैतां प्रकृति ं मनोविरसतां यायात् स शाक्यर्षभः ॥ र्क्प्_3.20
अपरो मार एवम् आह ।
सिंहव्याघ्रगजोष्ट्रचण्डमहोषीङ् क्षिप्रं पुरस्यास्य हि
प्रावृङ्मेघनिनादिनः खररवान् निर्माय नैकां बहि ः ।
तिष्ठेमो वयम् आयुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान्
भ्रान्तो ऋद्धिम् अपास्य यास्यति ततो नानादिशो विस्मृतः ॥ र्क्प्_3.21
अपरो मार ः प्राह ।
वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर् मुखैर्
नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः ।
आकाशाद् घनरावसुप्रहरणैर् मेघासनिं मुंचत
क्षिप्रं स प्रलयं प्रयास्यति ततो भूकंपभीतो ऽवश ः ॥ र्क्प्_3.22
विस्तरेण यथासौ माराणां मारबलविषयविकुर्वां तां सर्वां तथैव चक्रुः ॥
भगवांश् च पुनः सर्वावतीम् इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीम् अध्यतिष्ठत् । न च पुनर् भूयो माराः रावां श् चक्रुर् न चतुर्दिशम् अग्निपर्वतास् तस्थुः न कृष्णाभ्रा नाकालवायवो न च कश्चिन् नागो ऽभिप्रवर्षति स्मान्तशः एकबिन्दुर् अपि बुद्धबलाधिष्ठानेन ॥
तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्माञ् छारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । ( कुरुमिय 63 ) तत्र च नगरे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेशसदृशा नृत्यंतो गायन्तः संचेरुः । त आयुष्मन्तं शारिपुत्रम् उभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धाव न् ति स्म । नृत्यन्तो गायन्तः शारिपुत्रम् एवम् आहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सर्वे मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवम् आहु ः ।
अलम् एव हि आयतनेहि वंचिते आ वयम् आयतनेहि ।
आघतनानि हि आयतनानि अन्तु करोम्य् अहु आयतनानाम् ॥ र्क्प्_3.23
अलम् एव हि स्कन्धकृतेहि वंचिते आ वय स्कन्धकृतेहि ।
आघतनानि हि स्कन्धकृतानि अन्तु करोम्य् अहु स्कन्धकृतानाम् ॥ र्क्प्_3.24
तद्यथा
बहर 2 बहर 3 भार 4 बह 5 मरीचिबह 6 सत्यबह 7 आमबह 8 स्वाहा 9 ॥
स्थविर ः शारिपुत्रो धावन् गीतस्वरेणेमे गाथे इमानि च मन्त्रपदानि भाषते स्म ।
अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः ।
क्षमापयामो वयम् अद्य नाथं त्वाम् एव बन्धुं जगतः सुदेशकं ।
स्कन्धा यथा ते सभया ः प्रदिष्ठास् तथा वयं साक्षिण एणु नित्यम् ॥ र्क्प्_3.25
सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो न्यषेदुर् धर्मश्रवणाय ॥
अथ खल्व् आयुष्मान् महामौद्गल्यायन ः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पंचाशन् मारकुमारकाः यावद् गीतस्वरेणैवम् आहुः ।
अलम् एव हि धातुमयेहि वंचिते आ वय धातुमयेहि ।
आघतनानि हि धातुमयानि अन्तु करोम्य् अहु धातुमयानाम् ॥ र्क्प्_3.26
अलम् एव हि वेदयितेभि व ं चिते आ वय वेदयितेभि ।
आघतनानि हि वेदयितानि अन्तु करोम्य् अहु वेदयितानाम् ॥ र्क्प्_3.27
अलम् एव हि चेतयितेहि वंचिते आ वय चेतयितेहि ।
आघतनानि हि चेतयितानि अन्तु करोम्य् अहु चेतयितानाम् ॥ र्क्प्_3.28
अलम् एव हि संज्ञकृतेहि वंचिते या वय संज्ञकृतेहि ।
आघतनानि हि संज्ञकृतानि अन्तु करोम्य् अहु संज्ञकृतानाम् ॥ र्क्प्_3.29
अलम् एव हि संसरितेहि वंचि ते या वय संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् ॥ र्क्प्_3.30
तद्यथा
आमव 2 आमव 3 आमव 4 आमव 5 । आरज 6 रनजह 7 । शम्यथ 8 शम्यथ 9 शम्यथ 10 । गगनवम 11 स्वाहा 12 ॥
धावन् गीतस्वरेणायुष्मान् महामौद्गल्यायनो मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अ थ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः ।
ऋ द् ध्यान्वितार्यपथगुप्त मुनीन्द्रसूनो
संसारदोषसमदर्शक धर्मदीप ।
पापं प्रहाय वयम् आदरभक्तिजाता
बुद्धं गता द्य शरणं वरधर्मसंघं ॥ र्क्प्_3.31
सर्वे ते पंचाशन् मारकुमारका वीथीमध्ये आयुष्मतो मौदल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो न्यषेदुर् धर्मश्रवणाय ॥
अथायुष्मान् पूर्णो मैत्रायणिपुत्र उत्तरेण नगरद्वारेण पिण्डाय ( कुरुमिय 66 ) प्राविशत् । यावद् गीतस्वरेणैवम् आहुः ।
अलम् एव हि स्पर्शकृतेहि वंचिते या वय स्पर्शकृतेहि ।
आघतनानि हि स्पर्शकृतानि अन्तु करोम्य् अहु स्पर्शकृतानाम् ॥ र्क्प्_3.32
अलम् एव हि आधिपतेहि वंचिते या वयम् आधिपतेहि ।
आघतनानि हि आधिपतीनि अन्तु करोम्य् अहु आधिपतीनाम् ॥ र्क्प्_3.33
अलम् एव हि संसरितेहि वंचिते या वय संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् ॥ र्क्प्_3.34
अलम् एव हि सर्वभवेहि वंचिते या वय सर्वभवेहि ।
आघतनानि हि सर्वभवानि अन्तु करोम्य् अहु सर्वभवानाम् ॥ र्क्प्_3.35
लघु गच्छति आयु मार्षा ः सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः ॥ र्क्प्_3.36
पेयालम् ।
अबुधः शब्दमदेन मत्तकः ॥ र्क्प्_3.37
अबुधो गन्धमदेन मत्तकः ॥ र्क्प्_3.38
अबुधो रसमदेन मत्तकः ॥ र्क्प्_3.39
अबुधः स्पर्शमदेन मत्तकः ॥ र्क्प्_3.40
लघु गच्छति आयु मार्षा ः सलिला शीघ्रजवेन वेगिनी ।
न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः ॥ र्क्प्_3.41
अबुध ः स्कन्धमदेन मत्तकः ॥ र्क्प्_3.42
अबुधो धातुमदेन मत्तकः ॥ र्क्प्_3.43
अबुधो भोगमदेन मत्तकः ॥ र्क्प्_3.44
अबुधः सौख्यमदेन मत्तकः ॥ र्क्प्_3.45
अबुधो जातिमदेन मत्तकः ॥ र्क्प्_3.46
अबुधः काममदेन मत्तकः ॥ र्क्प्_3.47
लघु गच्छति आयु मार्षा ः सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः ॥ र्क्प्_3.48
तद्यथा
खर्गव 2 खर्गव 3 खर्गव 4 मुज्ञिनि 5 । आवर्त 6 विवर्त 7 । खवर्त 8 ब्रमार्थ 9 ज्योतिवर्त 10 । स्वाहा 11 ॥
अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहु ः ।
त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश् च धातवः ।
संकल्पमात्रजनितो वत जीवलोको रत्नत्रयं हि शरणं वरदं व्रजाम ः ॥ र्क्प्_3.49
सर्वे ते पंचाशन् मारकुमारकाः आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय ॥
तेन च समयेनायुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यंतो गायन्तो विचेरुः । त आयुष्मन्तं सुभूतिम् उभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्त आयुष्मन्तं सुभूतिम् एवम् आहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिर् आह । शृणुत मार्षा यूयम् अश्रुतपू र्वां गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेणायुष्मान् सुभूतिर् एवम् आहुः ।
अनित्य सर्वभाव मायबुद्बुदोपम
अनित्यम् अस्ति संस्कृते क्वचिच् चलात्मके ।
यथा मरीचि दृष्टनष्ट नास्ति तत्र शाश्वतं
लघुव्यया हि सर्वधर्म बुद्धिमान् प्रजानते ॥ र्क्प्_3.50
सर्वस्पर्श दुःखभार वेदना निरात्मिका
यत्र प्रसक्त सर्वबाल दुःखधर्मपीडिता ।
मित्रं न कश्चिद् अस्ति सर्वदुःखमोचक
यथा हि श्रद्ध बोधिमार्ग भावना च सेविता ॥ र्क्प्_3.51
एकलक्ष सर्वधर्म संज्ञवर्जिताः शुभा
निरात्मयोग सर्वचर्य ऽद्रव्यलक्षणात्मिका ।
न जीवपोष पुद्गलो ऽपि कारको न विद्यते
त्यजित्व मारशाठ्य बोधि चित्त नामये ॥ र्क्प्_3.52
विज्ञानु वर्तते ऽन्द्रियेषु विद्युता यथा नभे
अनात्मकाश् च सर्वस्पर्शवेदना पि चेतना ।
योनिशो निरीक्ष किंचिद् अस्ति नैव द्रव्यतः
संमोहितो हि बालवर्गु यंत्रवत् प्रवर्तते ॥ र्क्प्_3.53
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते
भूतकोटि शान्त शून्य सर्व-अन्तवर्जिता ।
अमोहधर्मतैष उक्त बोधिमार्गचारिका
नयाहि नायकेन बोधि प्राप्त तायिन ॥ र्क्प्_3.54
तद्यथा ।
सुमुन्दे 2 विमुन्दे 3 मुन्द 4 जहि 5 । सिलि 6 सिलि 7 सिलि 8 । अवसिलि 9 तथात्वसिलि 11 भूतकोटिसिलि 12 स्वाहा 13 ॥
अथायुष्मान् सुभूतिर् धावन् गीतस्वरेणेमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः प्रसन्नमनसः एवम् आहुः ।
अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः ।
यत् कृतं पापकं कर्ममोहाविद्यान्वितेन्द्रियैः ॥ र्क्प्_3.55
प्रतिदेश्य तद् अद्यैव वयं साक्षा ज् जिनात्मजा ।
प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिताः ॥ र्क्प्_3.56
सर्वे ते पंचाशन् मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा भिवन्द्य तस्यैव पुरतो वीथीमध्ये न्यषीदुर् धर्मश्रवणाय ॥
तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च वीथी मध्ये स्थविर ः शारिपुत्र उत्तरामुखो ( कुरुमिय 71 ) निषण्णः । महामौद्गल्यायनः पश्चामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परम् अर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णा ं महाश्रावकाणां मध्ये पृथिवीप्रदेशस्य पद्मं प्रादुर् अभवत् पंचाशद् धस्तविस्तारं जांबूनदमयेन दण्डेन नीलवैडूर्यमयैः पर्तैः श्रीगर्भमयेन केसरेण मुक्तामय्या कर्णिकया । ततश् च पद्मान् महान् अवभासो ऽभवत् । तस्यां च वीथ्यां तत् पद्मं तृपौरुषम् उच्चत्वेन संदृश्यते स्म यावच् चतुर्महाराजकायिकेषु देवेषु तत् पद्मं दिव्यानि पंचाश द् योजनान्य् उच्चत्वेन संदृश्यते स्म । त्रयस्त्रिंशत्सु तत् पद्मं योजनशतम् उच्चत्वेन संदृश्यते स्म यावद् अकनिष्ठेषु देवेषु तत् पद्मम् अर्धयोजनम् उच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये स त् त्वा इह भूमौ स्थितास् ता इमां छ्लोकाञ् छुश्रुवु ः ॥
एकपुद्गल उत्पन्नो बुद्धक्षेत्र इहानघः ।
निहतो मार एकेन ससैन्यबलवाहनः ॥ र्क्प्_3.57
एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितं ।
एकाकीह जगद्धेतोर् आयास्यति न संशयः ॥ र्क्प्_3.58
विद्वांसौ बहुनीतिशास्त्रकुशलौ धर्मार्थमोक्षार्थिकौ
नीतिज्ञाव् उपतिष्यकौलितवरौ शास्त्रा विनीताव् इह ।
विद्वां सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान्
नेष्यत्य् अद्य स सर्वलोकमहितो वादिप्रधानो मुनिः ॥ र्क्प्_3.59
त्र्यध्वज्ञानसुदेशकः श्रमणराट् छिक्षात्रयोद्भावकस्
त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् ।
लोकस्यार्थहितप्रचारकुशलो ज्ञानप्रदीपो महान्
सद्वादी तृमलप्रहीण इह सो अ द्यैव संगास्यति ॥ र्क्प्_3.60
लोकार्थम् अश्रान्तमतिश् चचार दुःखार्दितं सर्वजगद् विमोचयन् ।
अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् ॥ र्क्प्_3.61
सर्वावतीयं परिषत् समागता न चिराद् इहायास्यति वादिसिंहः ।
परमार्थदर्शी परमं सुरूपो बलैर् उपेतो हि परापरज्ञः ॥ र्क्प्_3.62
दृष्ट्वा जगद् दुःखमहार्णवस्थम् आहंतुम् आयास्यति धर्म दुन्दुभि म् ।
षडिन्द्रियैर् उत्तमसंवरस्थः षड् आश्रयश् च षडभिज्ञकोविदः ॥ र्क्प्_3.63
षट्सारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः ।
षडिन्द्रियग्र् आमविहेटनाय षडुत्तमार्थस्मृतिसारथीन्द्रः ॥ र्क्प्_3.64
यावत् षट्सु कामावचरेषु देवेषु ततः पद्माद् इमा गाथा निश्चेरुः ।
यूयं समग्रा रतिम् अद्य भुंजथ प्रमत्तचित्ताः मदतृष्णसंवृताः ।
सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगत ं प्रमादात् ॥ र्क्प्_3.65
कामा अनित्या दगचन्द्रसन्निभाः संसारपाशो ऽतिदृढः प्रजायाः ।
अनिःसृतानां रतिषु प्रमादिनां न निर्वृतिर् जातु पुनर् भविष्यति ॥ र्क्प्_3.66
सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभं ।
जरारुजामृत्युभयै ः परीता अपायभूमिप्रसृताश् च यूयं ॥ र्क्प्_3.67
दानं दमं संयमम् अप्रमादं निषेवत प्राक्सुकृतं च रक्षत ।
उत्सृज्य कामान् अशुचीन् दुरन्तान् उपस ं क्रमध्वं सुगत ं शरण्यं ॥ र्क्प्_3.68
गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद् धि महार्थिकं च ।
प्रज्ञाविमुक्तिप्रशमाय हेतुः सद्धर्मयुक्तं श्रवणे महार्थं ॥ र्क्प्_3.69
यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरु ः ॥
धर्मं प्रयत्नेन विभावयध्वं समाहितध्यानरता अनङ्गनाः ।
अभ्रान्तचित्ताश् च विमोक्षकांक्षिणो द्वेष प्रहाणा य मतिं च कृध्वं ॥ र्क्प्_3.70
त्रयोदशाकारनिमित्तदीपिकां विभावयध्वं परंआं हि क्षान्तिम् ।
तयैव चात्यन्तविमोक्षम् आशु संप्राप्स्यथ व्याधिजरावियुक्तम् ॥ र्क्प्_3.71
श्रद्धास् तु ये रूपविकल्पसंचये नित्यं ध्रुवात्मस्थिरभावदृष्टयः ।
तेषां न जन्मप्र वहस्य हानिर् अपायभूमिप्रवणा हि ते वै ॥ र्क्प्_3.72
त्रैधातुकं वीक्ष्य सदा निरात्मम् निर् द्रव्यम् अस्वंवशिकं निरीहं ।
क्षान्ति ं विभावेन्ति य आनुलोमिकी ं भवंति ते सर्वि गतिप्रमुक्ता ः ॥ र्क्प्_3.73
तेषां न मृत्युर् न जरा न रोगो न दुर्गतिर् नाप्रियसंप्रयोगः ।
आकाशतुल्यान् इह सर्वधर्मान् ये भावयंते व्ययभावयुक्तान् ॥ र्क्प्_3.74
अत्यन्तशुद्धो हि वरः स मार्गो येषाम् असंगं मन इन्द्रियेषु ।
मारान् विधुन्वन्ति चतुष्प्रकारान् यथा ह्य् अयं संप्रति शाक्यसिम्ःअ ः ॥ र्क्प्_3.75
एकं नयं ये तु विभावयंति निष्किंचनं सर्वनिमित्तवर्जितं ।
द्वयप्रहाणाय विनीतचेष्टास् तेषाम् अयं मार्गवरः प्रणीत ः ॥ र्क्प्_3.76
विभाव्य शून्यान् इह सर्वधर्मान् अस्वामिकाङ् कारकजातिवृत्तान् ।
स्पृशंति बोधिं गगनस्वभावान् निरुत्तमां प्रार्थनया विवर्जिताम् ॥ र्क्प्_3.77
एभिर् एवंरूपैर् अर्थपदधर्मशब्दैर् निश्चरद्भिर् य इह लोकधातौ मनुष्यामनुष्यास् ते समागम्य वीथीमध्ये समन्ततस् तस्य पद्मस्य न्यषेदुः । यावद् अप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठभवनाद् अवतीर्य त स्य पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय । अ श्रौषीन् मारः पापीमान् एतञ् छ्लोकान् । समन्ततं च व्यवलोक्याद्राक्षीत् राजगृहे महानगरे वीथीमध्ये पद्मं । ततश् चेमे श्लोका निश्चेरुः । ( कुरुमिय 77 ) तदा पद्मं परिवार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतस्हस्राणि सन्निषण्णानि धर्मश्रवणाय । अथ खलु मारः पापीमान् ऊर्ध्वं व्यवलोकितवान् अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत् पद्मं । तद् एव चानुपरिवार्याप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय ।
अथ भूयस्या मत्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रस्विन्नगात्रः संप्रकंपितशरीरो गगने प्रधावन् महता स्वरेणापरान् मारान् प्रक्रोशन्न् एवम् आह ।
शृणु गिरिम् असमां समवहितमना
न मे वशो स्वविषये न च बलम् इह मे ।
इदम् इह मुनिबलम् अतिगुणविशदं
प्रसरति जगति स्थिरजनकरणम् ॥ र्क्प्_3.78
कमलम् इह पुनर् उदयति नर्ऽअमरु दयितुम्
उपगत निखिलतो सुजनत नियता ।
परितृषितसुगतसुवचननिरता
व्रजति शमथपथम् अतिगुणपरमा ॥ र्क्प्_3.79
मायेयं श्रमणेन वर्तित इह त्रैलोक्यसंमोहनी
सर्वे ऽनन्यमना नरामरगणाः पद्म ं वितन्य स्थिताः ।
क्षिप्रं मुंचथ शैलवृष्टिम् अभुना भीष्मस्वरं राविणो
गच्छेन् नाशम् अयं यथाद्य निहतो मारोग्रसैन्यायुधै ः ॥ र्क्प्_3.80
अथापरो मारः पापीमंतम् एवम् आह ।
शृण्व् अस्माकम् इदं वचो हितकरं विज्ञातधर्मो ऽसि किं
यत् पश्यन्न् अपि मारसैन्यविलयं नायासि शान्तिं ततः ।
भ्रान्ताः स्म ः प्रसमीक्ष्य सौगतम् इदं तेजोवपुः श्रीधनं
रूपं नान्यद् इहोत्तमं सुशरणं बुद्धाद् ऋते नायकात् ॥ र्क्प्_3.81
अथापरो मारः प्ररुदन् परमक्रोधाविष्टवदनो मार ं पापीमन्तम् एव आह ।
कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिं ।
न लज्जसे ऽपत्रपसे न चैव यत् त्वं सह स्पर्धसि नायकेन ॥ र्क्प्_3.82
अस्मद्बलं यद् विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् ।
उपागमत् पद्मसमीपम् आशु धर्मश्रवाप्यायितशुद्धदेहं ॥ र्क्प्_3.83
वयं तु बीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः ।
यावन् न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् ॥ र्क्प्_3.84
अथापरे माराः कृतांजलयः एवम् आहुः ।
पापीमंस् त्वम् अपेतधर्मचरणः पापक्रियायां रतो
नाथो ह्य् एष जगद्धितार्थकुशलो बुद्धः सताम् अग्रणी ।
आयामो नगरं द्रुतं वयम् इह प्रीतिप्रसन्नेक्षणाः
गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनां ॥ र्क्प्_3.85
अथ तत्रैव गगने घोषवतिर् नाम मारः स उच्चस्वरेणैवम् आह ।
सर्वे यूयं समग्राः शृणुत मम वचो भक्तित् अः प्रीतियुक्ताः
पापाद् दृष्टिं निवार्य प्रणततनु मनोवाक्समाचारचेष्टाः ।
त्यक्तक्रोधाः प्रहृष्टा मुनिवरवचने स्फीतभक्तिप्रसादा
गत्वा बुद्धं समक्षं शरणम् असुलभं पूजयामो ऽद्य भक्त्या ॥ र्क्प्_3.86
अथ तत्क्षणम् एव सर्वे मारा गगनतलाद् अवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः । केचिन् मारा श् चक्रवर्तिराजवेषम् आत्मानम् अभिनिर्मीय भगवतः पूजापरा स् तस्थुः । केचिद् ब्राह्मणवेषं । केचिद् वशवर्तिवेषं । केचिन् महेश्वरवेषं । केचिन् नारायणवेषं । केचित् तुषितवेषं ( कुरुमिय 80 ) केचिद् यामवेषं । केचिच् छक्रवेषं । केचि त् त्रयस्त्रिंशवेषं । केचित् कुमारवेषं । केचिद् वैश्रवणवेषं । केचिद् विरूढवेषं । केचिद् विरूपाक्षवेषं । केचि द् धृतराष्ट्रवेषं । केचित् प्राकृतचतुर्महाराजवेषं । केचित् सूर्यवेषं । केचिच् चन्द्रवेषं । केचित् तारकवेषं । केचिद् असुरवेषं । केचिद् गरुडवेषं । केचित् किन्नरवेषं । केचिन् महोरगवेषं । केचिद् रत्नपर्वतवेषं । केचिन् निष्कवेषं । केचिन् नानारत्नवेषं । केचिद् रत्नवृक्षवेषं । केचित् क्षत्रियवेषं । केचिद् अन्यतीर्थिकवेषं । केचिच् चक्ररत्नवेषं । केचिन् मणिरत्नवेषं । केचिद् ऐरावणवेषं । केचिद् बालाहाश्वराजवेषं । केचित् स्त्रीरत्नवेषं । केचिच् छ्रेष्ठि वेषं । केचिद् राजामात्य वेषं आत्मानम् अभिनिर्मीय तस्थुर् भगवतः पूजाकर्मणे । केचिन् नीला नीलवर्णाः श्वेतालंकारालंकृतम् आत्मानम् अभिनिर्मीय भगवतः पूजाकर्मणे लोहितां छत्रध्वजपताकामुक्ताहारान् धारयन्तस् तालप्रमाणमात्रम् उच्चत्वेन गगनतले तस्थुः । केचिद् अवदाता अवदातवर्णाभरणा मंजिष्ठवर्णाभरणविभूषणाः पीतां छत्रद्वजपताकान् ( कुरुमिय 81 ) धारयन्तस् तस्थुः । केचिन् मंजिष्ठा मंजिष्ठवर्णाः सुवर्णाभरणविभूषणा नीला ञ् छत्रध्वजपताकान् धारयन्त स् तस्थुः । केचिल् लोहिता लोहितवर्णाः श्वेतमुक्तवर्ष ं ववर्षुः । केचिच् छ्वेताः श्वेतवर्णाः लोहितमुक्तवर्ष ं ववर्षुः । केचिद् देवर्षिवर्णम् आत्मानम् अभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्र व वर्षुः । केचिद् भगवतः श्रावकवेषं आत्मानम् अभिनिर्मीय नानादिव्यगन्धवर्ष ं गगनाद् ववर्षुः । केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः । केचिद् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयंतः पृथिवी ं सिंचिषु ः । केचित् काचकृष्णवर्णा नाना गन्धान् प्रधूपयाम् आसुः । केचिद् देवपुत्रवेषेण नृत्यगीतस्वरान् मुमुचुः । केचिन् नानावर्णा येन भगवांस् तेन प्राञ्जलयो भगवन्तं तुष्टुवुः । केचिन् मारा मारपार्षद्या अपि यस्यान् दिशि भगवा ं स् तद् अभिमुखा नानाद्यानि मणिरत्नानि दध्रिरे भगवतः पूजाकर्मणे । केचिद् वीथीगृहशरणगवाक्षतोरणहर्म्यचत्वरशृङ्गाटककूटागारद्वारवृक्षविमानेषु स्थित्वा प्रांजलयो न्यषेदुर् भगवतः पूजाकर्मणे ।
अ थ स मारो यदाद्राक्षीत् सर्वांस् ता न् मारान् सपरिवारां छ्रमण ं गौतमं शरणम् गतान् तदा भूयस्या मात्रया क्षुब्धस् त्रस्तो भ्रान्तः प्ररुदन्न् एवम् आह ।
न भूयो मे सहायो ऽस्ति नष्टा श्री र् मे ऽद्य सर्वतः ।
भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् ॥ र्क्प्_3.87
मूलाच् छिन्द्याम् अहं पद्मं स त् त्वा येन दिशो ऽव्रजन् ।
छेदा त् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलं ॥ र्क्प्_3.88
इति संचिन्त्य मारः पापीमां वायुवद् अवतीर्य गगनाद् येन तत् पद्मं वीथीगतं तेन प्रसृत्य तत् पद्मम् आ दण्डाद् इच्छत्य् उद्धर्तुं स्प्रष्टुम् अपि न शशाक । पत्राणि च्छेतुम् इच्छति न च तानि ददर्श । पद्मकर्णिकाम् अपि पाणिना पराहंतुम् इच्छति ताम् अपि नैवोपलेभे ॥ तद्यथा विद्युद् दृश्यते न चोपलभ्यते । तद्यथा वा च्छाया दृश्यते न चोपलभ्यते । एवम् एव तत् पद्मं दृश्यते न चोपलभ्यते । यदा च मारः पापीमांस् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श । अथ पुनः सर्वपर्षत्संत्रासनार्थम् उच्चैर् महाभैरवं स्वरं मोक्तुम् इच्छति तदापि न शशाक । स पुनर् महाबलवेगेनोभाभ्यां पाणिभ्याम् इच्छति महापृथिवीं पराहंतुं कंपयितुं ताम् अपि स्प्रष्टुम् अपि न शशाक नैवोपलेभे । तद्यथापि नाम कश्चिद् आकाशम् इच्छेत् पराम र् ष्टु ं न चोपलेभे । एवम् एव मारः पापीमां ददर्श पृथिवीं न च पस्पर्श नोपलेभे । तस्यैतद् अभवत् । यन् न्व् अहं यथा सन्निपतितानां स त् त्वानां प्रहारां दद्यां चित्तविक्षेपं वा कुर्याम् इति ददर्श तान् स त् त्वान् न चैकस त् त्वम् अप्य् उपलेभे न पस्पर्श । अथ भूयस्या मात्रया मारः पापीमान् रुरोद । बुद्धानुभावेन चास्य सर्वं शरीरं वृक्षवच् ( कुरुमिय 83 ) चकंपे । साश्रुमुखश् चतुर्दिशं च व्यवलोकयन्न् एवम् आह ।
मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता
येनाहं पुरतो विमोहित इव भ्रान्तिं गतो ऽस्मि क्षणात् ।
भ्रष्टो ऽहं विषया त् स्वपुण्यबलतः क्षीणं च मे जीवितं
शीघ्रं यामि निराकृतः स्वभवनं यावन् न यामि क्षयम् ॥ र्क्प्_3.89
स्वभवनम् अपि गंतुम् इच्छति न तत्रापि शशाक गन्तुं । स भूयस्या मात्रया त्रस्तो रुरोद । एवं चास्योदपादि । परिक्षीणो ऽहम् ऋद्धिबलात् । मा हैवाहं श्रमणस्य गौतमस्य वशम् आगच्छेयं । मा वा मे ऽस्य शत्रोर् अग्रतो जीवितक्षयः स्याद् यन् न्व् अहम् अतो ऽन्तर्धायेयं । सहबुद्धक्षेत्रस्य बहिर्धा कालं कुर्यां । यथैकस त् त्वो ऽपि मे सहबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् । तथापि न शक्नोत्य् अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा । तत्रैव कण्ठे पंचबन्धनबद्धम् आत्मानं ददर्श । भूयस्या मात्रया कुपितस् त्रस्त उच्चस्वरेण प्ररुदन् न् एवम् आह । हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति ॥
अथ घोषवतिर् नाम मारश् चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तम् एवम् आह ।
किं भो शोकमना स् त्वम् अद्य रुदिषि व्याक् र् ओशवक्त्रस्वरः
क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भी शरण्यं व्रज ।
त्राणं लोकगतिश् च दीपशरणं नाथस् त्रिदुःखापहो
नन्व् एतं समुपास्यसि ःः ः ःः शमं सौख्यं च संप्राप्स्यसि ॥ र्क्प्_3.90
अथ मारस्य पापीमत एतद् अभवत् । य न् न्व् अहं सन्तोषवचनेन श्रमण ं गौतमं शरणं व्रजेयं यद् अहम् एभ्यो बन्धनेभ्यः परिमुच्येयम् ॥
अथ मार ः पापीमान् यस्यां दिशि भगवां विजहार तेनांजलिं प्रणाम्यैवम् आह । नमस् तस्मै वरपुद्गलाय जराव्याधिमरणपरिमोचकाय । एषो ऽहं तं बुद्धं भगवन्तं शरणं गच्छामि । एवम् चाह ।
अस्मान् नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर् बन्धनान्
मुच्येयं शरणगतो ऽस्मि सुगतस्याद्य प्रभ्र्त्याग्रणी ।
मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोशः कृतः
तत् सर्व ं प्रतिदेशयामि पुरतस् त्वां साक्षिणं स्थाप्य तु ॥ र्क्प्_3.91
यदा च मारः पापीमान् संतोषवचनेन बुद्ध ं भगवन्तं शरणं गतस् तदा मुक्तम् आत्मानं संजानीते । यदा पुनर् अस्यैवं भवति । प्रक्रमेयम् इतः पर्षद इति । पुनर् एव कण्ठे पंचबन्धनबद्धम् ( कुरुमिय 85 ) आत्मानं संजानीते । यदा पुनर् न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तम् उत्पादयाम् आस । पुनर् मुक्तम् आत्मानं संजानीते यावत् सप्तकृत्वो बद्धमुक्तम् आत्मानं संजानीते स्म । तत्रैव निषण्ण इति ॥ ॥
महासन्निपाताद् रत्नकेतुसूत्रा त् तृतीयो मारदमनपरिवर्तः स्माप्त ः ॥ ॥
इव्.
यावत् पूर्वोक्तं ते चत्वारो महाश्रावकास् तद् राजगृहं महानगरं पिण्डाय प्रविशन्तस् तैर् मारकुमारकैर् अनाचारेणाधिष्ठाः । नर्तस्व श्रमण गायस्व श्रमणेति । तैश् च महाश्रावकैर् वीथीमध्ये प्रधावद्भिर् निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा गाथा भाषिता तदा महापृथिवी प्रचकंपे । तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि सास्रुमुखान्य् एवम् आहु ः ॥
तिष्ठत्य् अशोके वरधर्मसारथिर् एषा ह्य् अवस्था जिनवरशासनस्य ।
तच्छ्रावकानां जनता द्य दृष्ट्वा विडम्बितं केन मनः प्रसादयेत् ॥ र्क्प्_4.1
अथ तानि बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि सास्रुमुखानि येन भगवांस् तेनोपजग्मुः । उपेत्य भगवतः पुरत ः स्थित्वैवम् आहुः ।
अवस्थां शासनस्यास्य भगवन् वीक्ष्य सांप्रतं ।
मोपेक्षां कुरु सर्वज्ञ शासनाचारगुप्तये ॥ र्क्प्_4.2
भगवान् आह ।
एवं गत्वा स्वयं तत्र मारं जित्वा सवाहनम् ।
करोमि जनतां सर्वा ं निर्वाणपुरगामिनीम् ॥ र्क्प्_4.3
अथ ते सर्वे एवैककण्ठेनैवम् आहुः । मा भगवं गच्छ ॥ ननूक्तं भगवता । अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयो ऽचिन्त्यः कर्मणां कर्मविषयः इति । सर्वविषयाणां बुद्धविषय एष विशिष्टतरः । शक्तो भगवान् इहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरम् उच्छोषयितुं दृष्टिजालं समुद्धर्तुं स त् त्वकोटीनयुतानि ज्ञानसागरेणावतारयितुं । नाद्य भगवतो गमनकालो युक्तः । भगवान् आह । याव न् तः स त् त्वधातौ स त् त्वास् ते सर्वे मारा भवेयुर् यावंति च पृथिवीपरमाणुरजांसि ताव न् त्य् एकैकस्य मारबलाधिष्ठानानि भवेयुः । ते सर्वे मम वधाय पराक्रमेयुर् एक रोम कूपस्यापि मे न शक्ता विघातयितुं । शक्तश् चाहम् इहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारं । गमिष्यामि पुनर् अहं यन् मम पूजाकर्मण एभिर् मारैः सर्वं राजग्र्हं महानगरं मारबलर् द् धिविकुर्वणाधिष्ठानव्यूहैर् अलंकृतं तद् अनुकंपायै परिभोक्ष्ये यत् ते माराः परमप्रीतिप्रसादजाता ः कुशलमूलबीजम् अवरोपयिष्यंत्य् अनुत्तरायां सम्यक्संबोधौ ॥
यदा च भगवान् आसनाद् उत्थातुकामो ऽथ तावद् एव प्रभावशोभना नाम वेणुवनपरिपालिका देवता सा भगवतः पुरतो ऽस्रुमुखी स्थित्वैवम् आह ।
नैवाद्य कालो भगवन् प्रवेष्तुं पुरं समंताद् इह मारपूर्णं ।
एकैक एवं परमप्रचण्डः कोटीवृतस् तिष्ठति वदिसि ं हः ॥ र्क्प्_4.4
द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते व्याकुलचेतसः स्थिताः ।
मा सर्वथाद्य प्रविशस्व नाथ मा संक्ष्यं यास्यसि लोकबन्धो ॥ र्क्प्_4.5
यदा च भगवान् आसनाद् अभ्युत्थितस् तदा द्युतिमतिर् नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह ।
पापीम्मतां सहस्राणि पंच तिष्ठ न् ति सायुधाः ।
त्वां प्रतीक्षंति निस्त्रिंशा व्रज माद्य महामुने ॥ र्क्प्_4.6
यदा भगवां विहाराद् विनिश्चक्राम तदा सिद्धिमतिर् नामौषधिदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह ।
हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते ।
धर्मनौर् याति संभेदं लोकदीपे क्षयं गते ॥ र्क्प्_4.7
धर्मरस उदारो हीयते सर्वलोके
जगद् इदम् अतिपूर्णं क्लेशधूर्तैः प्रचण्डैः ।
ननु मम भुवि शक्तिः काचिद् अस्ति प्रलोपं
सुगतसुतवराणां संप्रधर्तुण् कथंचित् ॥ र्क्प्_4.8
अतिबहव इहास्मिं त्वद्विनाशाय रौद्रा
निशितपरशुखड्गाः संस्थिताः पापधर्माः ।
कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं
प्रविश दशबलाद्रे मा पुरं सिद्धयात्र ॥ र्क्प्_4.9
अथ भगवान् विहारांगनाद् अभिप्रतस्थे । द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह ।
सर्वन् नाथ भविष्यति त्रिभुवनं नष्टेक्षणं सा म् प्रतं
नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ ।
एतस्मि न् गगने भुजंगरसनास् तीक्ष्णासिवाणायुधास्
त्वन्नाशाय चरन्ति वह्निवदना मा गच्छ तत्राधुना ॥ र्क्प्_4.10
यदा च भगवां द्वारकोष्ठके-म्-अवतताराथ ज्योतिवरुणा नाम द्वारकोष्ठकदेवता सा उच्चस्वरेण रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह ।
एते ब्राह्मणसंज्ञिनां पुरवरे विंश त् सहस्राण्य् अथो
दीप्तासिक्षुरसायकप्रहरणाः प्रेक्षंति ते निर्दयाः ।
अन्योन्याप्य् अतिरौद्रनिर्दयवतां विंशतसहस्राण्य् अतस्
तिष्ठन्तीह विनाशनाय तव हे मा गच्छ शुद्धानन ॥ र्क्प्_4.11
अथ भगवां द्वारशालां प्रविवेश । तत्र च तमालसारा नाम राजगृहनगरपरिपालिका ( कुरुमिय 90 ) देवता सा नभस्य् उच्चस्वरेण रुदंती भगवतः सकाशं त्वरयोपजगामोपेत्य भगवतः पादौ शिरसाभिवन्द्यैवम् आह ।
मार्गो ऽयं भगवं पुन ः परिवृतः सिंहोष्ट्रमत्तद्विपैर्
भिक्षूणां च विहेठनाय बहुधा मारैर् विघातः कृतः ।
उद्युक्तास् तव चान्यतीर्थचरणा ः शास्तुर् वधार्थं भुवि
त्वं मेघस्वर देवनागकृपया मा गच्छ दीप्तप्रभ ॥ र्क्प्_4.12
दृष्ट्वा नरामरभुजंगमकिन्नरेन्द्रास्
त्वच्छासनस्य विलयं व्यथिताः समेत्य ।
भीता द्रवंति भगवं जितमार मारान्
मायाकृतान् अतिविरूपमुखांश् च भूय ः ॥ र्क्प्_4.13
सद्धर्मस्य विलोपनां च महती ं लोकस्य चोपप्लवं
नक्षत्रद्युतिनाशितं च गगन ं चन्द्रार्कयोर् विभ्रमं ।
संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस् ताडितो
हा कष्टं कथयत्य् अतीव सुगतभ्रंशं समाशंकयन् ॥ र्क्प्_4.14
नश्यते दृष्टिसूर्यो ऽयं धर्मोल्का याति संक्षयम् ।
मृद्नाति मृत्यु संबुद्ध ं धर्मतोयं विशुष्यते ॥ र्क्प्_4.15
सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते ।
प्रादुर्भावो ऽसताम् एव माराणां भवतीह तम् ॥ र्क्प्_4.16
अथ सा देवता भगवतः प्रतिनिवर्तनम् अदृष्ट्वा सास्रुमुखी भूय एवम् आह ।
लोकन् निरीक्षस्व मुने समग्रं मा गच्छ वादिप्रवराद्य संक्षयं ।
मा मत्पुरे नाशम् उपागते त्वयि त्रिलोकनिन्द्या सततं भवेयं ॥ र्क्प्_4.17
शृणु मे वचो नायक स त् त्वसार मा म त् पुरे गच्छ विनाशम् अद्य ।
स त् त्वानुकंपार्थम् इह प्रतीक्ष स त् त्वांश् च जन्मार्तिभयाद् विमोक्षय ॥ र्क्प्_4.18
स्मर प्रतिज्ञां हि पुरा तहागत प्राप्योत्तमं तारयिता भवेतं ।
स त् त्वान् अनेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ ॥ र्क्प्_4.19
तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः ।
तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् ॥ र्क्प्_4.20
ततो भगवां द्वारशालायाम् अवततार । अथ ताव द् देवता दृढा नाम पृथिवीदेवता दशभिः महौजस्कमहौजस्काभि र् देवतासहस्रैः सार्धम् अस्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्रांजलि ः स्थित्वैवम् ( कुरुमिय 92 ) आह ।
स्मर प्रदानं रुधिरप्रपूर्णा यत् ते प्रदत्ताश् चतुराः समुद्राः ।
शिरांसि चास्थीनि च चक्रवाडवन् नेत्राणि गङ्गासिकतासमानि ॥ र्क्प्_4.21
रत्नानि चैवं विविधानि पूर्वं पुत्राश् च दारा द्विरदास् तथाश्वाः ।
आवासवस्त्रशयनान्नपानं भैषज्यम् इष्टं च तथातुराणाम् ॥ र्क्प्_4.22
कृता च पूजा प्रवरा स्वयंभुवां शीलं त्वया रक्षितम् अप्रमादिना ।
क्षान्तिश्रुतं सेवितम् एव नित्यं मातृज्ञता चैव पितृज्ञता च ॥ र्क्प्_4.23
चीर्णान्य् अनंतानि च दुष्कराणि स त् त्वा ह्य् अनेकव्यसनात् प्रमोक्षिताः ।
यत् पूर्वम् आदौ प्रणिधिः कृतस् ते बुद्धो भवेयं परमार्थदेशकः ॥ र्क्प्_4.24
उत्तारयेयं जनता ं महौघाल् लोकाय धर्मं वत देशयेयं ।
तृष्णाविमूलानि महाभयानि दुःखान्य् अशेषाणि च शोषयेयम् ॥ र्क्प्_4.25
अभये पुरे स त् त्वगण ं प्रवेशये निवेश्य तान् वै वरबोधिमार्गे ।
विमोचयेयं बहुदुःखपीडितान् तां स त् त्वधातुं परिपूर्ण कुर्या म् ॥ र्क्प्_4.26
मार्गच्युतानाम् इह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनां ।
निस्तारयैतां स्मरय प्रतिज्ञां वदस्व धर्मं बहुकल्पकोट्यः ॥ र्क्प्_4.27
ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टांगजलेन चैनं ।
नेहास्ति स त् त्वः सदृशस् त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् ॥ र्क्प्_4.28
मुक्तः स्वयं लोकम् इमं च मोचय प्रतारय स्व त्रिभवार्णवाज् जगत् ।
त्वम् एव बुद्धो जगदेकबान्धवो तिष्ठस्व नित्यं विभजस्व धर्मम् ॥ र्क्प्_4.29
अथ बहगवां द्वारशालायाम् अवततार । तत्क्षणाद् एव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि सास्रुमुखान्य् एवम् आहुः ।
अस्माभिर् आदौ सुगता हि दृष्टाः प्रशान्तकाले सुविनीतशिष्याः ।
धर्मोपदेशं विपुलं च कुर्वतस् तेषां विघातो न स ईदृशो ऽभूत् ॥ र्क्प्_4.30
एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयंभूत्वम् उदारबुद्धिः ।
क्लेश् आवृते धर्मम् उवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः ॥ र्क्प्_4.31
अस्मिं पुनस् तिष्ठति वादिसिंहे पापीमतां नैकसहस्रकोट्यः ।
कुरुवंति धर्मस्य विनाशम् एवं मा बुद्धवीराद्य पुरे विशस्व ॥ र्क्प्_4.32
अथापरा देवतैवम् आह ।
चक्र ं जिनै र् वर्तितम् एकदेशे तैः पूर्वकैर् लोकहितप्रयुक्तैः ।
अयं पुनर् गच्छ ति यत्र तत्र मा खल्व् अवस्थां समवाप्स्यते ऽद्य ॥ र्क्प्_4.33
अथापरापि देवतैवम् आह ।
कारुण्यहेतोर् इह सार्थवाहश् चचार स त् त्वार्थम् अतीव कुर्वन् ।
स केवलं त्व् अद्य पुरे ऽत्र मा वै नाशं प्रयायाद् इति मे वितर्कः ॥ र्क्प्_4.34
तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि सास्रुदुर्दिनवदनानि गगनतलपथाद् अवतीर्य भगवतः पुरत ः स्थित्वानेकप्रकारान् आत्मनो विप्रकारांश् चक्रुः । केचित् केशान् विलु म् पन्ति स्म । केचिद् आभरणानि मुमुचुः । केचिच् ( कुरुमिय 95 ) छत्रध्वजपताकान् प्रपा त याम् आसुः । केचित् स्वशरीरेण भूमौ निपेतुः । केचिद् भगवतश् चरणौ जगृहुः । केचिद् अतिकष्टं रुरुवुः । केचिद् उरांसि पाणिभिः पराजघ्नुः । केचिद् भगवतः पादमूले स्थित्वा मद्गुव त् परावर्त न् ते स्म । केचिद् भगवतः पुरतः प्रांजलयो भूत्वा स्तुतिनमस्कारां श् चक्रुः । केचिद् भगवन्तं पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारदुष्यैर् अवकिरंति स्म ।
अथापरा बह्व्यो देवकोट्य उच्चैर् एकण्ठेनैवम् आहुः ।
त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थम् इतो बहूनि ।
क्षीणे त्वम् उत्पन्न इहाद्य काले उपेक्षकस् तिष्ठ च मा त्यजस्व ॥ र्क्प्_4.35
अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश् चाल्पतरा नृदेवा ः ।
त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मत् त्रिभवार्णवाज् जगत् ॥ र्क्प्_4.36
स त् त्वा ह्य् अनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः ।
करुणां जनस्व प्रतिदर्शयार्थम् ओघेभ्य उत्तारय लोकम् आर्तम् ॥ र्क्प्_4.37
गत्याटवीमध्यगता भ्रमंति संसारकान्तारविनष्टमार्गाः ।
तेषां सुमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः ॥ र्क्प्_4.38
एतत् तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद् वरधर्मचक्रं ।
चिरं हि तिष्ठ त्वम् उदारबुद्धे मा खल्व् अनाथा जनता भवेत ॥ र्क्प्_4.39
अथापरापि देवतैवम् आह ।
नाशं प्रयास्यत्य् अथ य द् व् इनायको लोकस् तथान्धो निखिलो भविष्यति ।
अष्टांगमार्गस् त्रिविमोक्षहेतुः सर्वेण सर्वं न भविष्यतीह ॥ र्क्प्_4.40
अस्माभिर् अस्मिं छुभबीजम् उप्तं वाक्कायचेतोद्भवम् अप्रमत्त्तैः ।
ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः ॥ र्क्प्_4.41
तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्य् अभूवन् ॥ तान्य् अप्य् एवम् आहुः ।
मा भैष्ट यूयं न मुनेर् अवस्था भविष्यते काचिद् उदारबुद्धेः ।
प्रत्यक्षपूर्वा वयम् अस्य साधोर् उपागता यद् भुवि मारकोट्य ः ॥ र्क्प्_4.42
षट्त्रिंशद्योजनानि द्रुतरभसपरा यत् समन्ताद् वितत्य
प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना ।
संप्राप्ता बोधिमण्डे विलयम् उपगता तत्क्षणाद् एव भीता
प्राप्तार्थस्याद्य किं स्वित् प्रसृतयशसो विघ्नम् एष प्रकुर्यात् ॥ र्क्प्_4.43
अथापरा देवता प्ररुदन्ती एवम् आह ।
मारस्यैकस्य सा सेना प्राग् आसिन् न महाबला ।
मारकोटीसहस्राणाम् इयं सेना महाबला ॥ र्क्प्_4.44
निःसंशयम् इह प्राप्तो नाशं लोकविनायकः ।
यद्विनाशाद् अयं लोको निरालोको भ्रमिष्यति ॥ र्क्प्_4.45
अथ खलु ते शक्रब्रह्मलोकपाला भगवतः पादयो ः परिष्वज्यैवम् आहुः ।
तिष्ठेह साधो कुरु मन्दधीनाम् अस्मद्वचः कारुणिकप्रधान ।
बहुदेवकोट्यो घनशोकतप्तास् ता ः साम्प्रतं धर्मरसेन सिंच ॥ र्क्प्_4.46
अथ खलु भगवांस् तां सर्वावतीं पर्षदं मैत्राविशालाभ्या ं नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन् न् एवम् आह ।
मा भैष्ट यूयं भवथाद्य निर्भया ः सर्वे ऽपि मारा युगपत् सवाहनाः ।
शक्ता न मे भीषयितुं समग्रा रोमाप्य् अथैकं किम् उ सर्वदेहम् ॥ र्क्प्_4.47
आश्वासयाम्य् अ द्य तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये ।
मार्गच्युतानाम् अहम् एव सम्यङ् मार्गोपदेशं विशद ं करिष्ये ॥ र्क्प्_4.48
कृतानि पूर्वं बहुदुष्कराणि मयान्नपानं विपुलं प्रदत्तं ।
आवासभैषज्यम् अनल्पकं च कर्तुं विघातं मम को ऽद्य शक्य ः ॥ र्क्प्_4.49
त्यक्ता मया ह्य् अश्वरथा गजाश् च विभूषणान्य् आभरणानि चैव म् ।
दासाश् च दास्यो निगमाश् च राष्ट्राः कर्तुं विघातं मम कः समर्थः ॥ र्क्प्_4.50
भार्यासुतादुहितृकडत्रवर्गम् ऐश्वर्यम् इष्टं भुवि राजवंशः ।
दत्तो मया स त् त्वहिताय कस्माच् छरीरनाशो ऽद्य भविष्यति मे ॥ र्क्प्_4.51
शिरश् च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनुचर्मलोहितं ।
स्वजीवितं त्यक्तम् अपीह देहिनां कर्तुं विहिंसा ं मम कः समर्थ ः ॥ र्क्प्_4.52
बह्व्यो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता स्वहस्तं ।
शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं मम कः समर्थ ः ॥ र्क्प्_4.53
पूर्व ं मया वै बहुदुष्कराणि कृतानि मे ऽतीव समाहितेन ।
संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः ॥ र्क्प्_4.54
क्लेशा जिता मे नियतो ऽस्मि बुद्धः सर्वेषु स त् त्वेषु च मैत्रचित्तः ।
ईर्ष्या च मे नास्ति खिलं च रोषो न मे समर्थः पुरतो ऽद्य कश्चित् ॥ र्क्प्_4.55
जितं मया मारबलं समग्रं पराजिता मे बहुमारकोट्यः ।
युष्मद्विमोक्षं नियतं करिष्ये मा भैष्ट कस्मान् न पुरं प्रवेक्ष्ये ॥ र्क्प्_4.56
ये केचि दिशासु दशस्व् अपीह बुद्धा हि तिष्ठंति तु स त् त्वहेतोः ।
तां सर्वबुद्धान् इह योजयिष्ये महर् द् धिकांश् चाप्य् अथ बोधिस त् त्वान् ॥ र्क्प्_4.57
क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये ।
तैर् एव बुद्धैः सह नेत्रि संस्थिता करिष्य बुद्धानुमतं च कार्यम् ॥ र्क्प्_4.58
तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यकोटीनयुतशतसहस्राणि भगवते साधुकारं प्रददुः । एवं चाहुः । नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय । नमो नमो महाश्चर्या द्भुतासंख्येयवीर्य समन्वागताय बुद्धाय भगवते । आश्वासितो भगवता सदेवको लोकः । पराजितो भगवता मारपक्षः । विधूतं स त् त्वानां सन्धिक्लेशकालुष्यं । ( कुरुमिय 100 ) प्रभिन्नः स त् त्वाना ं मानपर्वतः । छिन्नो जन्मवृक्षः । विचूर्णितो मृत्युसूर्यः । विधूतो ऽविद्यान्धकारः । प्रसादिता अन्यतीर्थ्याः । संशोषिताश् चत्वार ओघाः । प्रज्वालिता धर्मोल्का ः । निदर्शितो बोधिमार्गः । नियोजिताः क्षाण्तिसोरत्ये । क्रीडापिता ध्यानसौख्ये । अवबोधितानि चत्वार्य् आर्यसत्यानि । समुत्तारितो भगवता महाकारुणिकेन शास्त् र् आ जन्मसमुद्रात् सदेवको लोकः । प्रवेशितास् स त् त्वा ऽभयपुरं ॥
अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालङ्कारविभूषणैर् भगवन्तम् अभ्यर्चयित्वा भगवतो ऽर्थाय ते मार्गं शोभयाम् आसुः । दिव्यवस्त्रपुष्पदुष्यैश् च भगवन्तं संछादय न् ति स्म । दिव्यैश् च मान्दारवमहामान्दारवपारुषकमहापारुषकमंजुषकमहामंजुषकरोचमहारोचोत्पलकुमुदपुण्डरीकैः संछादयाम् आसुः । यत्र भगवांस् तौ चरणौ निश्चिक्षेप तस्मिंश् च मार्गे उभयोः पार्श्वयो र् दिव्यां सप्तरत्नमयान् वृक्षान् अभिनिर्मिमीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैर् अलंचक्रुः । तेषु च वृक्षान्तरेषु दिव्याः पुष्किरिणी र् मापयंति स्म । शीताः स्वादूदका विप्रसन्ना अनाविलाः । अष्टांगोपेतवारिपरिपूर्णाः समन्तात् सप्तरत्नालंकारालंकृताः । अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दध्रिरे । ध्वजपताकासुवर्णसूत्रमुक्ताहारांश् च सुवर्णचूर्णवर्षां श् च ववर्षु ः । रूप्यवैडूर्यचूर्णागरुतगरचन्दनकालानुसारितमालपत्रवर्षाणि ( कुरुमिय 101 ) समुत्ससर्जुः । गोशीर्षोरगसारचन्दनचूर्णञ् च तस्मिन् मार्गे ववर्षुः । सुवर्णसूत्रमुक्ताहारमणिमुक्तिभिश् च सर्वं गगनतलं नानादिव्यालङ्कारैर् अलञ्चक्रुः । नगरस्य च बहिर्धा देवमनुष्याः भगवतः पूजाकर्मणे मार्गशोभाञ् चक्रिरे । अन्तर्नगरञ् च मारा मारपार्षद्याश् च शोभाव्यूहैर् व्यूहयाम् आसुर् भगवतः पूजाकर्मणे ॥
अथ खलु भगवांस् तस्मिं समये शूरंगमन् नाम समाधिं समापेदे । तेन च समाधिना यथा समापन्न एव मार्गं जगाम । तेन खलु पुनस् समयेन नानाद्यैः कायरूपलिङ्गेर्यापथैर् भगवांस् तं मार्गम् अभिप्रतस्थे । तत्र ये स त् त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास् ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चतुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये कु मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिका ः शशवैनयिका ः शशरूपलिंगेर्यापथेन भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । ये स त् त्वा बुद्धवैनयिकास् ते बुद्धरूपलिंगेर्यापथेनैव भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । सर्वे च ते स त् त्वाः प्रांजलयो भूत्वा समभिष्टुवंतो नमस्कुर्वन्तः पृष्ठतः पृष्ठतः समनुबद्धा जग्मुः ॥
तेन खलु पुन ः समयेन यो ऽसाव् अनुहिमवन्निवासी ज्योतीसरो नामर्षिर् ( कुरुमिय 102 ) मारेण पापीमता उद्योजितः स पंचशतपरिवारो राजगृहस्य महानगरद्वारसमीपे
............................. @fओलिओस् 44 तो 46 अरे मिस्सिन्ग्; तेxत् अच्चोर्दिन्ग् तो दुत्त्:@@ .............................. प्रतीक्ष्य भगवतो रूपलिङ्गेर्यापथम् अपश्यत् तथा मार्गे चासंख्येया वृक्षदेवता पूजाकर्मणे उद्युक्ताः । दृष्ट्वेदं तस्यैतद् अभवत् । सत्यवादी महर्षिर् अयं महानुभावः पूजार्हः । ........................
@fओलिओस् 47 तो 64 अरे वेर्य् fरग्मेन्तर्य्@@
अथ ज्योतीरसो ऋषिः सपरिवारः बुद्धरूपलिंगेर्यापथस् थि तं भगवन्तं दृष्ट्वा ............ सि रत्नकेतु ं नाम बोधिस त् त्वसमाधि ं प्रतिलेभे । यस्य समाधेः समाप्र ............. भवत्य् असंहार्यः सर्वसमापत्तिभिः ॥
अथ ज्योतीरसो महर्षिर् भगवतः प्रा ंजलिभूतः पुष्पं दत्त्वा स्तुत्वा च अभ्यस्ता वीत् ॥
अनन्तवर्ण लोकनाथ सत्यवादि सुष्ठित
प्रभासितं ते सर्व + + + + + + + + + ।
+ + + + + + + + + + + + + + + + +
+ + + + द्य स त् त्वसार क्षीणसंग नायक ॥ र्क्प्_4.108
सुवर्णवर्ण कांचनाभाशीतला .इ + + + ।
+ + + + + + + + + + + + + + + + +
+ + + + + + + + + भि न्नक्लेशपर्वता
पश्चिमा + चर्यनिष्ठिताद्य बोधिज्ञानकारणं ॥ र्क्प्_4.109
महाभि + + + + + + + + + + + + + +
+ + + + + + + + + + + + + + + + + ।
छिन्द्याम् अहं तु तृष्णजालु तीर्ण तारये जगत्
कियच्चिरेण बुद्धो भेष्ये + + + + + + + + ॥ र्क्प्_4.110
+ + + + + + + + + + + + + + + +
+ + + + + + + मार्गे स्थापये निरास्रवे ।
दशद्दिशासु ये ऽपि बुद्ध सागरोपमा गुणे
+ + + + + + + + + + + + + + + + + ॥ र्क्प्_4.111
+ + + + + + + + + + + + + कर्कशैस्
त्रि-य्-अध्विकं च पुण्यम् अद्य कायवाङ्मनसं मे ।
भवेच् च तेन दु + + + + + + + +
+ + + + + + + + + + + + + + + ॥ र्क्प्_4.112
.यंतु सर्वस त् त्वव्याधि क्लेशतोयु शुष्यतु
लभंतु ज्ञानम् इन्द्रियाणि सारवंति .... ।
...............
........ ह्य पुण्यतेजसा ॥ र्क्प्_4.113
एकैकु स त् त्वो सर्वे सागरे गुणां लभे
प्रज्ञैव पुण्य .......... ।
..............
जा तिस्मराश् च सर्वे संतु स त् त्व धर्मचारिणः ॥ र्क्प्_4.114
पारं भवार्णवस्य ते तरंतु सर्वे ........
................... ।
.......... मेया न् धर्मवृष्टि वर्षयन्
स्नापयंतु सर्वस त् त्व धर्ममेघवारिणा ॥ र्क्प्_4.115
काये ..............
......... त्व गौरवात् ।
माहं च भूयु पापं दुष्टकर्मम् आचरेत्
अचिन्त्यान् सदाग्रपुद् ............. ॥ र्क्प्_4.116
............... पुनः
सर्वे चर्या ः स त् त्वहेतु सर्वदुःखम् उत्सहे ।
नियोजयेय सर्वस त् त्व ब् ओ धिमा ............
कल्पक्षेत्रम् ................. ॥ र्क्प्_4.117
.. णेय यत्र बोधिस्पर्शये भवेद् विशुद्ध
स र्व स त् त्व क्षान्तिभूमिसुस्थिताः प्राप्नुयाम् ।
अभिज्ञपंच वादिसिं ...............
............... यक ॥ र्क्प्_4.118
सचेद् भविष्ये बुद्धो लोके सर्वधर्मसारथे
क्षिपेय मुक्तपुष्प च्छत्र अंबरे स्थिहेयु ते ।
भवंतु ............
......... दते शिरेण कंपता वसुन्धरा ॥ र्क्प्_4.119
अथ खलु ज्योतीरसो ऋषिस् तानि पुष्पाणि येन भगवांस् तेनोपरि प्र क्षिप्तानि । ................ न्धौ एकच्छत्रं तस्थौ । यं दृष्ट्वा ज्योतीरसो ऋषि र् भूयस्या मात्रय निरामिषेण प्रीतिसौमनस्येनोद्विल्य ............. भगवतः पादयोर् निपपात । समनन्तरनिपतितश् च ज्योतीरसो ऋषि र् भगवतश् चरणयोर् अथ तावद् ए ................. धातुः षड्विकारं प्रचकंपे । यानि च तत्राप्रमेयासंख्येयानि स त् त्वकोटीनय् उ तशतसहस्रा णि ........... प्राप्तान्य् अभूवन् । ये च गजवैनयिकाः स त् त्वास् ते गजरूपेण सुगतं दृष्ट्वा .......... संस्थितानि । तं च पृथिवीकंप ं दृष्ट्वा भूयस्या मात्रयाश्चर्यप्राप्ता भगवतश् चरणयोर् निपेतु ः । ये ऽपि ब् ............ दृष्ट्वा सर्वे आश्चर्यप्राप्ता अभूवन् ॥
अथ भगवां छूरंगमात् समाधेर् व्यु द तिष्ठत् । तस्माच् च समाधेर् व्युत्थितं ........... प्रीतिप्रामोद्यजाता भगवन्त ं यथालब्ब्धै ः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालङ्कारैर् अभ्यवकिरन् । ............ गाथा अभाषत ॥
उत्तिष्ठ शीघ्रं शृणु व्याकरिष्ये महर्षे बोधये नायको ऽब्रवीत् ।
धरा चकंपे कुसु + + + + + + + + + + + + + + + + + ॥ र्क्प्_4.120
+ + + सि त्वन् द्विपदप्रधानो बुद्धो विभुर् लोकहिताय शास्ता ।
अनन्तपुण्यो गगनप्रमाणस् त्रैलोक्यसारो जगत ः प् र् अदीपः ॥ र्क्प्_4.121
अथ खलु ज्योतीरसो बोधिसत्त्वो महासत् त्वो भगवन्तम् एतद् अवोचत् । कीदृशं भगवन् तद् बुद्धक्षेत्रं भविष्यति यत्राहन् धर्मचक् र् अं प्रवर्तिष्ये । भगवान् आह । ...........................
व्.
................................................ अथ तस्मिन् समये बुद्धक्षे त्रे कोटीशतं माराणां ते सपरिवारा येन भगवां छाक्यमु निस् ..... अथ मारः पापीमान् ये न भगवांस् तेनांजलिं प्रणाम्यैवम् आह ॥
भगवं छरणम् यामि विप्रस् अन्नेन चेतसा ।
शीघ्रं मोचय बन्धान् मां धर्मचर्यां च संदिश ॥ र्क्प्_5.6
भगवान् आह ।
नाहं कस्य नि वारेमि गच्छन्तं वागतं पुनः ।
मार्गं त्वं यत् प्रजानीषे येन य थेच्छसि ॥ र्क्प्_5.7
पापीमान् आह ।
यदाहं गन्तुम् इच्छामि सानन्दं विषयं स्वकम् ।
+ + + + + म् आत्मानं बद्धं पश्यामि गौतम ॥ र्क्प्_5.8
भगवान् आह ।
सर्वकल्पप्रही णा मे मुक्तो ऽहम् इह बन्धनात् ।
हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच् च मोचये ॥ र्क्प्_5.9
अथ खलु भगवान् बुद्ध चक्षुषा सर्वम् इदं बुद्धक्षेत्रं क्षितिगगनस्थैः स त् त्वैः परिपूर्णम् अव लोक्येमा गाथा अभाषत ।
शृणु हि वचनं मे ऽद्य सर्वं त्वं सुसमाहितः ।
प्रहाय संशयान् सर्वांस् तूष्णीभूतस् तदंतरं ॥ र्क्प्_5.10
दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः ।
दुर्लभा श्रद्धाधिमुक्तिर् बोधिचर्या सुदुर्लभा ॥ र्क्प्_5.11
दुर्लभं लोकनाथास्याद् धर्मस्य श्रवणं त था ।
दुर्लभः समयो ह्य् एक ः क्षान्तिर् यत्र निषेव्यते ॥ र्क्प्_5.12
दुर्लभं चित्तदम नं दुर्लभा शून्यभावना ।
लोके हि दुर्लभं पापसंकल्पस्य प्रहाणकम् ॥ र्क्प्_5.13
दुर्लभा बोधि चर्या वै यथा चीर्णा मया पुरा ।
देशयिष्यामि युष्माकं पुष्पमात्रम् इ दं ततः ॥ र्क्प्_5.14
+ + + + + + + + + + + + + + + + ।
युष्माकं भाषयिष्यामि येन बो धिः समृध्यते ॥ र्क्प्_5.15
कुमलांस् त्रीन् प्रहायेह शास्तु ः शृणुत भाषितं ।
त + + + + + + + + + + + + + + + ॥ र्क्प्_5.16
त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव ।
त्रै धातुकाश् च ये क्लेशास् तान् अशेषान् विधुन्वत ॥ र्क्प्_5.17
त्रिरत्नवंशपूजार्थं यूयं + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.18
+ + + + + + + + प्रहास्यति विशेषतः ।
त्रैधातुकविनिर्मुक्तां क्षा न्तिं लप्स्यति शामिकीम् ॥ र्क्प्_5.19
चतुर् दिशि + + + + + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.20
चक्षुरूपप्रसंगेन कायवाक्चेतनाव्र्तैः ।
चतुर्ध्यानविहीनैश् च + + + + + + + + ॥ र्क्प्_5.21
+ + + + + + + + + + + + + + + + ।
+ + + + + + + + विपर्यासचतुष्टयात् ॥ र्क्प्_5.22
मोचयंते च ते स त् त्वांश् चतुरोघेभ्य ईश्व राः ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.23
+ + + + + + + + बोधिसत्त्ववि शारदाः ।
सम्यग्ज्ञानेन च्छिन्दंति स त् त्वानां भवबन्धनम् ॥ र्क्प्_5.24
पंचस्कन्धाः परि ज्ञान + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.25
पापान् देशयत क्षिप्रं बुद्धानां यूयम् अग्रतः ।
प्रहाय पापं निःशेषं पारं या स्यकुतोभयम् ॥
र्क्प्_5.26
+ + + + + + + + + + + + + + + + ।
+ + + + + + + + + + + + वशेन हि ॥ र्क्प्_5.27
पापमित्रप्रहीणास् तु पापदृष्टिविवर्जिताः ।
स्मृत्वा संसा रदुःखं + + + + + + + + + ॥ र्क्प्_5.28
+ + + + + + + + + + + + + + + + ।
परमार्थे न भा वो ऽस्ति न द्रव्यं नापि लक्षणं ॥ र्क्प्_5.29
षडिन्द्रियं यथा शून्यं कारको ऽत्र न विद्यते ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.30
+ + + + + + + + + + + + + + + + ।
षट् स्पर्शायतनान्य् एवं शून्यान्य् अपि विजानथ ॥ र्क्प्_5.31
भावम् एकं निरीक्षध्वं य + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.32
+ + + + + + + + + + + + निरीह काः ।
यैर् ज्ञाता निर्ज्वरास् ते वै एष मार्गो ह्य् अनुत्तर ः ॥ र्क्प्_5.33
त्रयोदशाक + + + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.34
...................... भग वन्त अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द ( कुरुमिय 112 ) ........................ ख्येयाक्षोभ्यगंगानदीवालुकोपमासु शून्याशून्यासु पंचकष् आयेषु ........................ अ प्रमेयासंख्येयानि स त् त्वकोटीनयुतशतसहस्राणि अतीव निर् ........................ वि चित्राः समाधिक्षान्तिधारणीः प्रतिलेभिरे । इह बुद्धक्षेत्रसन्निपतिता .............................. प्रतिलाभो ऽभू त् । त्रिभिर् यानैर् अप्रमेयासंख्येयाः स त् त्वा निर्याणम् अवा .........
.......... सोपा नं पुष्पसंछन्नम् अभिनिर्मीय तस्य पद्म् आसन् अस्यारोहणार्थं येन भग वांस् तेन ........
+ + + + + + + + + + + + + + + + ।
समीक्ष्य धर्मसेतुं सृजस्व सचराचरे लोके ॥ र्क्प्_5.35
क्षेत्रं समीक्ष्य पूर्णम् कृत ............ ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_5.36
क्ले शहतानां प्रज्ञोपायौ प्रविदर्शयाप्रतिम ।
पद्मे ऽभिरुह्य नाथ प्र .......... ॥ र्क्प्_5.37
@fओलिओस् 55 अन्द् 56 अरे मिस्सिन्ग्@@ .........................................................................................................................
पूर्वप्रणिधान् ए नानुत्तरा ं सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयति स्म । स च तथागत एतर्हि सर्वमारविषय य ................... विष योच्छ्रेपणां सर्वबुद्धशासनवंशतृरत्नप्रदीपचिरस्थापयित्री ं सर्वकुशलमूलविवृद्धिवीर्याधिष्ठानब .................... कौतुकामंगलविवाददुःस्वप्नदुर्निमित्तदुर्भिक्षोभयचक्रकलिकलहबन्धनविग्रहविवदानावृष्ट्यकालशि ........... स र्वदेवनागयक्षमनुष्यामनुष्यावर्जनीं सर्वक्षत्रियावर्जनकरीं सर्वचातुर्वर्ण्यधमार्थनियोजनीं प्रज्ञोल्का ................ सर्वगृहग्राम नगरनिगमराष्ट्रराजधान्यावर्जनीं सर्वनक्षत्रग्रहरात्रिदिवसमासार्धमाससंवत्सरसमावाहनीं सर्वस .............. सर्वशिल्प कर्मान्तस्थानाधिष्ठानकार्यसंपादयित्रीं सर्वकायवाङ्मनोदोषप्रशमनकरीं ( कुरुमिय 114 ) युक्तिस्मृतिमतिधृतिशौर्यकति ...................... बोधनी ं चतुरार्यवंशधर्मनेत्र्यधिष्ठानचरीं महायानोद्योतनी ं बोधिस त् त्वविवर्धनीं महास त् त्वानाम् आश्वासनी ं ................ समवसरणकरीं अनुत्पत्तिकधर्मक्षान्त्यवबोधनीं अभिषेकधर्मबोधिप्रतिष्ठापनीं वैनेयस त् त्वानुग्राहिकां ................. दिकां पारमितानियोजनीं अनुत्तरमार्गसंस्थापिकां धर्मवृष्टिप्रवर्षणी ं धर्मरसेन स त् त्वानां सन्तर्पणकरीं सकल ................. र्णी ं अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापनीं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धा रणीमुद्रापदप्रभेदप्रवेशव्याकरणीं ... भाषितुं । सर्वैश् चातीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंस णीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकर णीं भाषिता अधिष्ठिता ऽन्योन्यम् अनुमोदिताः । ये ऽप्य् एतर्हि दशसु दिक्षु बुद्धा भगवन्तः तिष्हंति धृयंति यापयंति ध र्मं देशयन्ति ते सर्वे ऽपि वज्रधर्म समताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषंते ऽधि तिष्ठन्त्य् अन्योन्यम् अनुमोदन्ते । ये ऽनागते ऽध्वनि द शसु दिक्षु अन्योन्यासु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति ते ऽपीमां वज्रधर्मसमताप्रतीत्य धर्महृदयसमुच्छ्रयविध्वंसनीं ( कुरुमिय 115 ) नाम धारणीमु द्रापदप्रभेदप्रवेशव्याकरण् ईं भाषिष्यंते अधिष्ठास्यन्त्य् अन्योन्यं चानुमोदिष्यंति ॥
अथ खलु तेषु बुद्धक्षेत्रेषु ये बो धिसत्त्वा महासत्त्वास् ते तान् प्रतिप्रतिबुद्धान् भगवतः परिप्राक्षु ः । कतमासौ भगवन्न् अस्माभिर् अश्रुतपूर्वा वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनी धारणीमुद्रा पदप्रभेदप्रवेशव्याकरणी यम् एवं बहुगुण् आकारी । एवम् अचिन्त्यधर्म गुण समन्वागता सर्वधर्मानावरणालोककरी यावद् उपशमकरी । देशयतु भगवांस् तां वज्र धर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयवि ध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणी ं सर्वमारबल विषय प्रमर्दनकरीं यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वापणीं बहुजनहिताय बहुजनसुखा य लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥
अथ खलु ते बुद्धा भगवन्तस् तान् बोधिसत्त्वान् एवम् आहुः । वयम् अपि कु लपुत्रा स् तां सहा ं लोकधातुं गमिष्यामो यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः । ये ऽपि दशसु दि क्षु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ति याप यंत्य् अन्योन्यासु लोकधातुषु ते सर्वे बोधिस त् त्वगणपरिवृताः श्रावकसंघपुरस्कृताः तां सहां लोकधातुं ग मिष्यन्ति यत्र शाक्यमुनिस् तथागतो विहरत्य् अ र्हा न् सम्यक्संबुद्धस् तेन ( कुरुमिय 116 ) शाक्यमुनिना तथागतेन सार्धम् इमां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वं सनीं धारणीमुद्रापदप्रभेदप्रवेशव्या करणी ं भाषिष्यंते ऽधिष्ठास्यंत्य् अन्योन्यं चानुमोदिष्यंति सर्वस त् त्वा नां हिताय दुश्चरितकर्मनिवारणाय भद्रचर्याप्र पूरणायानुत्तरज्ञानपरिपूरणाय । ते सर्वे बुद्धा भ गवन्तो ऽद्य तां सहां लोकधातुं सन्निपत्य बोधिस त् त्वगणपरिवृताः श्रावकसंघपुरस्कृता इमां वज्रधर्मसम तां प्रतीत्यधर्महृअदयसमुच्छ्रयविध्वंसनीं धा रणीमुद्रापदप्रभेदप्रवेशव्याकरणी ं भाषिष्यन्ति । तद् यो युष्माकम् इच्छति तां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं श्रोतुं तांश् चाप्रमेयासंख्येया ं गंगानदीवालुकोपमान् एककल्पैक बुद्धक्षेत्रे बुद्धान् भगवतः तिष्ठतह् पूजयितुं तांश् च ध र्मां श्रोतुं तांश् च सर्वबुद्धबोधिस त् त्वदेवविषय सर्वमारविषय बुद्धक्षेत्रालंकारव्यूहान् द्रष्टुं तांश् च बहुबुद्धा न् सन्निप तितान् अदृष्टाश्रुतपूर्वान् द्रष्टुं त एतर्ह्य् अस्माभिः सार्धं गच्छतु तां स हां लोकधातुं यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः ॥
अथ ते बोधिस त् त्वा महास त् त्वास् तां बुद्धा न् भगवन्त ए वम् आहुः । एवं भदन्त भगवङ् गच्छामो वयं तथा गतेन सार्धं तां सहां लोकधातुं यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हां सम्यक्संबुद्धस् ताम् अश्रुतपूर्वां वज्र धर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं ( कुरुमिय 117 ) धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं श्रवणाय । तत्र वयम् एककाले एकसमयैकबुद्धक्षेत्रे-न्-अ प् र मेयासंख्येयान् बुद्धान् भगवतः तिष्ठतो ध्रियतो यापयतो पूजयिष्यामः तेभ्यो धर्मम् अपि श्रोष्यामः । तत्र च वयं चतुर्भी ऋद्धि विषयव्यूहैस् तां सहां लोकधातुं समलंकृतां द्रक्ष्यामः । तांश् च महासन्निपातव्यू हान् द्रक्ष्यामः । सचेद् वयं तत्र बुद्धक्षेत्रे तस्यां धाऋअण्यां भाष्यमाणायां स्थानं लप्स्यामहे तांश् च बुद्धां भगवतो वन्दितुं शक्ष्यामः पर्युपासितुं पूजयितुं धर्मं च श्रोतुं तांश् च यथासन्निपतितान् ब् ओ धिस त् त्वा न् महास त् त्वान् इ ति ॥
अथ ते बुद्धा भगवन्तः प्रतिप्रतिबुद्धक्षेत्रे तान् स्वान् बोधिस त् त्वां महास त् त्वा ं स् तांश् च महाश्रावकान् एवम् आहुः । मा यूयं कुलपुत्रा एवङ् का ङ् क्षत मैवं विचिकित्सध्वं चात्र लो कधातौ प्रवेशस्थानावकाशं प्रति । तत् कस्य हेतोः । अन न्तो बुद्धानां भगवतां बुद्धविषयावतारसमताज्ञानकौशल्यस त् त्वपरिपाकः । विस्तीर्णावकाशः स कुलपुत्रा शा क्यमुनिस् तथागतो महोपायकौशल्येन समन्वाग तः । ये केचित् कुलपुत्राः स त् त्वाः स त् त्वधातुसंग्रहसंगृहीताः धात्वायतनसंनिशृतास् ( कुरुमिय 118 ) तेषां स त् त्वानां सचेद् एकैकस्य सु मेरुप्रमाण आत्मभावो भवेत् परिकल्पम् उपादा य शक्तः स शाक्यमुनिस् तथागतस् तान् सर्वस त् त्वान् एवंरूपात्मभावान् एकस्मिन् सर्षपफले प्रवेशयितुं । एकैकश् च सत्त्वो विस्तीर्णविषयावकाशः स्यान् न च परस्परं ते चक्षुष आभासम् आगच्छेरन् । न चैकस्यैकस्य सर्षपफलस्य सर्वस त् त्वमहात्मभावप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञाये त । एवंरूपेण कुलपुत्रा उपायकौशल्येन स मन्वागतः स शाक्यमुनिस् तथागत इति ॥
मूल पाठ: Mahāsaṃnipātaratnaketudhāraṇīsūtra or Ratnaketuparivarta (=RKP) · Edition: Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0