महाप्रतिसरामहाविद्याराज्ञी · अध्याय 9
[45] अत्र मन्त्रपदाः सिद्धाः सम्यक्संबुद्धभाषिताः ।
नमो बुद्धाय । नमो धर्माय । नमः संघाय । नमो भगवते शाक्यमुनये महाकारुणिकाय तथागतायार्हते सम्यक्संबुद्धाय । नमस् तेभ्यः सम्यक्संबुद्धेभ्यः ।
भावेनैतान् नमस्कृत्य बुद्धशासनवृद्धये ।
अहम् इदानीं संप्रवक्ष्यामि सर्वसत्त्वानुकम्पया
इमां विद्यां महातेजां महाबलपराक्रमाम् ।
यस्यां भाषितमात्रायां मुनीनां वज्रासने
माराश् च मारकायाश् च ग्रहाः सर्वविनायकाः ।
विघ्नाश् च सन्ति ये केचित् तत्क्षणाद् विलयं गताः
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0