भाषा

ENहिગુ
ग्रंथ पाठ

महाप्रतिसरामहाविद्याराज्ञी · अध्याय 10

10.1

[46] तद्यथा ।
ओं गिरि 2 । गिरिणि । गिरिवति । गुणवति । आकाशवति । आकाशशुद्धे । पापविगते । आकाशे । गगनतले । आकाशविचारिणि । ज्वलितशिखरे । मणिमौक्तिकखचितमौलिधरे । सुकेशे । सुवक्त्रे । सुनेत्रे । सुवर्णे । सुवर्णगौरे । अतीते । अनुत्पन्ने । अनागते । प्रत्युत्पन्ने । नमः सर्वेषां बुद्धानां ज्वलिततेजसाम् । बुद्धे । सुबुद्धे । भगवति । सुरक्षणि । सुक्षमे । सुप्रभे । सुदमे । सुदान्ते । वरे । भगवति । भद्रवति । भद्रे । सुभद्रे । विमले । जयभद्रे । प्रचण्डे । चण्डे । वज्रचण्डे । महाचण्डे । घोरि । गन्धारि । गौरि । चण्डालि । मातङ्गि । वर्चसि । सुमति । पुक्कसि । शवरि । शावरि । शङ्करि । द्रमिडि । द्रामिडि । रौद्रिणि । सर्वार्थसाधनि । हन 2 सर्वशत्रूणाम् । दह 2 सर्वदुष्टानां प्रेतपिशाचडाकिनीनां मनुष्यामनुष्याणाम् । पच 2 हृदयं विध्वंसय जीवितं सर्वदुष्टग्रहाणाम् । नाशय 2 सर्वपापानि मे भगवति । रक्ष 2 मां सर्वसत्त्वानां च सर्वत्र सर्वभयोपद्रवेभ्यः । सर्वदुष्टानां बन्धनं कुरु । सर्वकिल्बिषनाशनि । मार्तण्डे । मृत्युदण्डनिवारणि । मानदण्डे । मानिनि । महामानिनि । चले । चिटि 2 । विटि 2 । निटि 2 । निटिनि । तुटे । घोरिणि । वीरिणि । प्रवरसमरे । चण्डालि । मातङ्गि । रुन्धसि । सरसि । वर्चसि । सुमति । पुक्कसि । शवरि । शावरि । शङ्करि । द्रमिडि । द्रामिडि । दहनि । पचनि । मर्दनि । सरले 2 । सरलम्भे । हीनमध्योत्कृष्टविदारिणि । विधारिणि । महिले 2 । महामहिले । निगडे । निगडभञ्जे । मत्ते । मत्तिनि । दान्ते । चक्रे । चक्रवाकिनि । ज्वले 2 । ज्वाले 2 । ज्वलिनि । शवरि । शावरि । सर्वव्याधिहरणि । चूडि 2 । चूडिनि 2 । निमि 2 । निमिन्धरि । त्रिलोकजननि । त्रिलोकालोककरि । त्रैधातुकव्यवलोकनि । वज्रपरशुपाशमुद्गरखड्गशङ्खचक्रत्रिशूलचिन्तामणिमहाविद्याधारिणि । रक्ष 2 मां सर्वसत्त्वानां च सर्वत्र सर्वस्थानगतं सर्वदुष्टभयेभ्यः सर्वमनुष्यामनुष्यभयेभ्यः सर्वव्याधिभ्यः । वज्रे । वज्रवति । वज्रपाणिधरे । हिलि 2 । मिलि 2 । किलि 2 । चिलि 2 । सिलि 2 । वर 2 । वरदे । सर्वत्र जयलब्धे स्वाहा । पापविदारिणि स्वाहा । सर्वव्याधिहरणि स्वाहा । सर्वत्र भयहरणि स्वाहा । स्वस्तिर् भवतु मम सर्वसत्त्वानां च स्वाहा । शान्ति स्वाहा । पुष्टि स्वाहा । जयतु जये । जयवति । जय । विमले । विपुले स्वाहा । सर्वतथागतमूर्ते स्वाहा । ओं भूरि 2 । वज्रवति । तथागतहृदयपूरणि । संधारणि । बल 2 । जयविद्ये हूं 2 फट् 2 स्वाहा ।
[47] यस्य कस्यचिन् महाब्राह्मण अनया तथागतमूर्त्या विद्यामन्त्रपदधारण्या रक्षा कृता परित्राणं परिग्रहः परिपालनं शान्तिः स्वस्त्ययनं कृतं भवेत् तस्य परिक्षीणम् आयुः पुनर् एव विवर्धते । सुचिरं सुखं च जीवति । स्मृतिसंपन्नश् च भवति । उच्चारणमात्रेण वा वज्रावमार्जनेन वाकालमरणान् महाव्याधिभ्यश् च परिमुच्यते । सर्वरोगाश् चास्य प्रशाम्यन्ति । दैर्घ्यग्लान्यम् अवमार्जनमात्रेण प्रशमं गच्छति । दिने दिने स्वाध्यायं कुर्यान् महाप्राज्ञो भवति । तेजोबलवीर्यप्रतिभानसंपन्नो भवति । सर्वपापकर्मावरणानि चास्य नियतवेदनीयानि निरवशेषं परिक्षयं यास्यन्ति । सर्वबुद्धबोधिसत्त्वदेवनागयक्षादीनि चास्य ओजोबलवीर्यं काये प्रक्षेप्स्यन्ति । महाप्रीतिबहुलो भविष्यति । अन्तशो महाब्राह्मण इयं महाविद्यामन्त्रपदरक्षा तिर्यग्योनिगतानाम् अपि मृगपक्षिणां कर्णपुटे निपतिष्यति ते सर्वे ऽवैवर्तिका भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ । कः पुनर् वादो य इमां महाप्रतिसरां धारणीं श्राद्धः कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा राजा वा राजपुत्रो वा ब्राह्मणो वा क्षत्रियो वा तदन्यो वा यः कश्चित् सकृच् छ्रोष्यति श्रुत्वा च महत्या श्रद्धया गौरवेणाध्याशयेन लिखिष्यति लिखापयिष्यति धारयिष्यति वाचयिष्यति तीव्रेण मनसा भावयिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति तस्य महाब्राह्मण अष्टाव् अकालमरणानि सर्वथा न प्रतिकाङ्क्षितव्यानि । न चास्य काये महाव्याधयो भविष्यन्ति । न चास्य शरीरे ऽग्निर् न विषं न शस्त्रं न गरं न काखोर्दकिरणं न मन्त्रकर्म न चूर्णयोगो न चाङ्गशूलं न ज्वरो न शिरो ऽर्तिर् वा । एकाहिकद्वैतीयकत्रैतीयकचातुर्थकसप्ताहिका वा ज्वराः काये न क्रमिष्यन्ति । स स्मृत एव सुखं स्वपिति । स्मृत एव विबुध्यते । महापरिनिर्वाणलाभी भविष्यति । सकृत् सहधर्मेण महति महैश्वर्यं चाधिगच्छति । यत्र यत्रोपपद्यते तत्र तत्र जातौ जातौ जातिस्मरो भविष्यति । सर्वसत्त्वानां च प्रियो भविष्यति । वन्दनीयश् च भविष्यति । सर्वनरकतिर्यग्योनिगतिगहनप्रेतोपपत्तिभ्यश् च परिमुक्तो भविष्यति । यथा चार्कमण्डलं सर्वसत्त्वानां तथा रश्म्येव भासकरो भविष्यति । यथा चन्द्रमण्डलम् अमृतेन प्रभवतां सर्वसत्त्वानां कायं प्रह्लादयति तथा धर्मामृतेन सर्वसत्त्वानां चित्तसंतानानि प्रह्लादयिष्यति । सर्वदुष्टयक्षराक्षसभूतप्रेतपिशाचापस्मारडाकिनीग्रहविघ्नविनायकादयः सर्वे ऽस्य महाप्रतिसरविद्याराजप्रभावेन न शक्ता विहेठनां कर्तुम् । उपसंक्रमतां च तेषाम् अयं महाविद्याराजा स्मर्तव्या । ततस् ते सर्वदुष्टचित्ता विद्याधरस्य वश्या आज्ञाश्रवणविधेया भवन्ति । अस्या एवानुभावेन यद् उत महाप्रतिसराविद्याराज्ञ्या न चास्य शत्रुभयं भविष्यति । अनतिक्रमणीयश् च भविष्यति सर्वशत्रुगणै राजराजमहामात्यैर् ब्राह्मणगृहपतिभिश् च । अन्तशो ऽपि च वध्यार्हो वधकपुरुषैर् उच्छ्रितान्य् अपि शस्त्राणि खण्डखण्डं गच्छन्ति पांसुमयानीव विशीर्यन्ते । तस्मिंश् च समये सर्वधर्मा अस्यामुखीभविष्यन्ति । महच् चास्य स्मृतिबलं भविष्यति ।
[48] रक्षोघ्नं परमं ह्य् एतत् पवित्रं पापनाशनम् ।
श्रीकरं धीकरं चापि सर्वगुणविवर्धनम्

10.2

सर्वमङ्गलकरी ह्य् एषा सर्वामङ्गलनाशनी ।
सुस्वप्नदर्शनी चापि दुःस्वप्नस्य विनाशनी

10.3

स्त्रीपुंसयोः परा रक्षा विद्येयं हि महाबला ।
अटवीकान्तारदुर्गेषु नित्यं मुञ्चति तत्क्षणात्

10.4

सर्वकामांश् च लभते संबुद्धवचनं यथा ।
पथ उत्पथम् आपन्न एतां विद्याम् अनुस्मरेत्

10.5

पन्थानं लभते शीघ्रं भोजनं पानम् उत्तमम् ।
कायेन मनसा वाचा यत् कृतं पूर्वजन्मसु

10.6

अशुभं बहुविधं किंचित् तत् सर्वं क्षपयिष्यति ।
स्मरणाद् धारणाच् चैव उद्ग्रहाल् लेखनाद् अपि

10.7

पठनाद् वाचनाच् चैव जपनात् परदेशनात् ।
भविष्यत्य् अचिरेणासौ सर्वधर्मगतिंगतः

10.8

एवं हि धर्मरसे प्राप्ते पापा गच्छन्ति संक्षयम् ।
सिध्यन्ते सर्वकार्याणि मनसा यद् यद् ईप्सितम्

10.9

सर्वमृत्युभयेष्व् एषा त्राणं तस्य भविष्यति ।
राजाग्निर् उदकं चैव विद्युद् वा तस्करो ऽपि वा

10.10

युद्धसंग्रामकलहा दंष्ट्रिणो ये च दारुणाः ।
ते सर्वे प्रलयं यान्ति विद्याया लक्षजापतः

10.11

विद्येमां परमां सिद्धां सर्वबुद्धेहि देशिताम् ।
कीर्तमाना न सीदन्ति बोधिसंभारपूरये

10.12

सर्वेषु चैव स्थानेषु इमां विद्यां प्रयोजयेत् ।
यानि चेच्छन्ति कार्याणि स्वपरार्थप्रसिद्धये

मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc