महाप्रतिसरामहाविद्याराज्ञी · अध्याय 8
महाविद्याराजस्यायं महाप्रतिसरस्य कल्पः समाप्तः ।
[44] अथातो विद्याधरस्य रक्षाविधानकल्पं व्याख्यास्यामि सर्वसत्त्वानुकम्पया ।
येन रक्षाविधानेन महासिद्धिर् भविष्यति ।
यत्र तत्र कृता रक्षा भवत्य् अवध्यो न संशयः
निर्भयं निर्ज्वरं चैव सर्वग्रहनिवारणम् ।
नक्षत्रानुकूलं च कर्मसंकलछेदनम्
दुर्भुक्तं दुर्लङ्घितं चैव सर्वशत्रुगणैः कृतम् ।
दुःप्रेक्षितं दुर्लिखितं काखोर्दा ये च दारुणाः
चूर्णमन्त्रकृतं चैव विषभुक्तं तथा गरम् ।
सर्वे तस्य प्रशाम्यन्ति रक्षां धारयते ऽत्र यः
प्रत्यङ्गिरा विपच्यन्ते यो विद्यां समतिक्रमेत् ।
परचक्रा दारुणा ये ऽपि प्रत्यमित्रा महाभयाः
सर्वे ते प्रलयं यान्ति प्रतिसराशापतर्जिताः ।
बुद्धा रक्षन्ति सर्वज्ञा बोधिसत्त्वाश् च सूरताः
रक्षन्ति प्रत्येकबुद्धाः श्रावकाश् च महातपाः ।
अन्ये च बहुविधा भूयो देवा नागा महर्द्धिकाः
रक्षां कुर्वन्ति तस्येमे अस्मिन् युक्तस्य नित्यशः ।
अस्याः श्रवणमात्रेण विद्यारक्षा अनुत्तरा
निर्भयं भवति सर्वत्र इत्य् एवं मुनिर् अब्रवीत् ।
दुःस्वप्ना दुष्कृता ये च उपसर्गा ये च दारुणाः
व्याधिस्पृष्टा महारोगैर् ये ग्रस्ता राजयक्ष्मणा ।
अन्ये च बहुविधा रोगा गण्डलूता विचर्चिकाः
ईतयो दारुणा ये च ग्रसन्ते मानुषीं प्रजाम् ।
मनुष्याणां विनाशार्थं हिंसकाः परमदारुणाः
सर्वे ते विनश्यन्ति रक्षा यत्र महाबला ।
अनेन कृतरक्षस् तु वध्यप्राप्तो ऽपि मुच्यते
यदि ग्रस्तः कालपाशेन नीतश् चापि यमालयम् ।
तस्य आयुर् विवर्धेत प्रतिसरालिखनाद् अपि
परिक्षीणायुषो यस् तु सप्ताहमृत एव च ।
यावल् लिखितमात्रेण रक्षा एषा अनुत्तरा
अथवा श्रवणमात्रेण कृतरक्षाविधानतः ।
सर्वस्वस्तिं अवाप्नोति सुखं जीवति ईप्सया
अष्टषष्टिसहस्राणि कोटीनियुतशतानि च ।
त्रायस्त्रिंशाश् च ये देवाः सर्वे शक्रपुरोगमाः
रक्षार्थं तस्य सत्त्वस्य पृष्ठतः समुपस्थिताः ।
चत्वारो लोकपालाश् च वज्रपाणिर् महाबलः
विद्याकुलशतैः सार्धं रक्षां कुर्वन्ति नित्यशः ।
सोमः सुमनाः सूर्यब्रह्मविष्णुमहेश्वराः
यमश् च माणिभद्रश् च बलदेवो महाबलः ।
पूर्णभद्रो महावीरो हारीती च सपुत्रिका
पञ्चालः पाञ्चिकश् चैव कार्त्तिकेयो गणेश्वरः ।
श्रीर् अपि च महादेवी वैश्रवणश् च सरस्वती
शङ्खिनी पुष्पदन्ती च तथैवैकजटापि च ।
धन्या एता महायक्षा रक्षां कुर्वन्ति नित्यशः
षण्डानां पुत्रजननं गर्भस्थानविवर्धनम् ।
रक्षेयं महती तस्य यावज् जीवं भविष्यति
पुरुषाणां जयदा नित्यं युद्धे संग्रामभैरवे ।
अनेन वरदा भोन्ति देवता धर्मनिश्चिताः
अथवा पापविनाशे तु लिखनाद् एव मुच्यते ।
तथागता विलोकयन्ति बोधिसत्त्वास् तथैव च
यशश् च वर्धते तस्य पुण्यम् आयुश् च वर्धते ।
धनधान्यसमृद्धिश् च भविष्यति न संशयः
सुखं स्वपिति मेधावी सुखं च प्रतिविबुध्यते ।
अधृष्यः सर्वश्त्रूणां सर्वभूतगणैर् अपि
संग्रामे वर्तमानस्य जयो भवति नित्यशः ।
विद्यायां साध्यमानायाम् इयं रक्षा अनुत्तरा
सुखं च साधयेद् विद्यां विघ्नो ऽस्य न भविष्यति ।
सिध्यन्ति सर्वकल्पाश् च प्रविष्टः सर्वमण्डले
क्षिप्रं च समयज्ञो ऽसौ भवेत् सर्वत्र जातिषु ।
वैश्वासिको भवेत् तत्र जिनानां गुह्यधारणे
सर्वमङ्गलसंपूर्णः सर्वसिद्धिमनोरथः ।
अनया लिखितमात्रेण सर्वसौख्यं समृध्यति
सुखं कालक्रियां कृत्वा भवेत् स्वर्गपरायणः ।
विवादे कलहे चैव विग्रहे परमदारुणे
सर्वभयविनिर्मुक्तो जिनोक्तं वचनं यथा ।
स नित्यं जातिस्मरो भोति जातौ जातौ न संशयः
राजानो वशगास् तस्य सान्तःपुरमहाजनाः ।
स मान्यश् च भवेन् नित्यं साधुभिर् लोकसंमतैः
सर्वेषां च प्रियो भवति ये देवा ये च मानुषाः ।
रक्षां तस्य करिष्यन्ति दिवारात्रौ न संशयः
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0