महाप्रतिसरामहाविद्याराज्ञी · अध्याय 7
[40] ततो राज्ञा प्रहृष्टमानसेन महाप्रतिसरा महाविद्याराज्ञी पूजिताभिनन्दिता । तस्य पुरुषस्य पट्टबन्धं कृत्वा स्वकस्य जनपदस्य पुरस्तान् नगरज्येष्ठतायाम् अभिषेको दत्तः ।
[41] एवं महाब्राह्मणेयं महाप्रतिसरा विद्याराज्ञी सर्वत्र महतीं पूजां लभते । अनतिक्रमणीया सर्वदुष्टचित्तैः सत्त्वैः । पूर्वम् इयं परिज्ञाता महाविद्याराज्ञी न क्वचित् प्रतिहन्यते । तस्माद् अवश्यं कायगतां कृत्वा धारयितव्या । अपि तु महाब्राह्मण सुनक्षत्रेणेयं सुप्रशस्तविधानेन लिखितव्या । अथ स महाब्राह्मणो ऽतीवप्रहृष्टमना भगवन्तं पञ्चमण्डलकेनाभिप्रणम्य प्रष्टुम् आरब्धः । कीदृशेन भगवन् विधानेनेयं महाविद्याराज्ञी लिखितव्या । भगवान् आह । शृणु महाब्राह्मण त्वाम् अहं वक्ष्ये सर्वसत्त्वानुकम्पया ।
[42] येन सत्त्वाः सुखिनो भोन्ति मुच्यन्ते कर्मसंकटात् ।
व्याधितानां च मोक्षार्थं स्त्रीनां गर्भसमुद्भवम्
भविष्यति च सत्त्वानां दारिद्र्यव्रणरोहणम् ।
उपवासोषितो भूत्वा नक्षत्रे पुष्यसंमते
बुद्धपूजापरो भूत्वा चित्तम् उत्पाद्य बोधये ।
करुणाम्रेडितचित्तेन मैत्र्या चापि समन्वितः
हिताधानपरश् चापि सर्वसत्त्वेषु नित्यशः ।
स्नात्वा चन्दनकर्पूरैः सकस्तूर्योदकेन च
शुचिवस्त्राणि प्रावृत्य धूपितानि च धूपनैः ।
ततो मण्डलकं कृत्वा मृद्गोमयसमन्वितम्
पूर्णकुम्भांश् च चत्वारः पञ्चमं मध्यमण्डले ।
पुष्पधूपाश् च गन्धाश् च दातव्यात्र महार्हाः
धूपनं चन्दनं चैव स्पृक्कागरु तथैव च ।
पञ्चशर्करास् तुरुष्काश् च दातव्यानि विधानतः
नानाविधानि पुष्पानि यथाकालं यथाविधि ।
सर्वपुष्पफलैर् बीजैर् गन्धैश् चापि सुमण्डितान्
घृतमाक्षिकदुग्धैश् च पावकैः पायसादिभिः ।
पूरयेद् बलिकुम्भांश् च लक्षणाढ्यान् सुमङ्गलान्
स्थापयेच् चतुरो दिक्षु पञ्चमं मध्यमण्डले ।
स्थापनीयाः शरावाश् च कोणेषु गन्धपूरिताः
चत्वारः कीलकाश् चापि खादिरा दृढवेष्टिताः ।
पञ्चरङ्गेन सूत्रेण वेष्टयित्वा विचक्षणः
समभागेन माप्यैतान् निखन्यान् मण्डलाद् बहिः ।
एवं कृते लिखेद् विप्र यद् इच्छेत् सिद्धिम् आत्मनः
शुक्लभोजनभुक्तेन लिखितव्यं सुखैषिणा ।
पटे वा वस्त्रभूर्जे वान्यत्र वा यत्र कुत्रचित्
लिखेत् स्त्रीषु पुत्रार्थी सम्यग् गोरोचनेन वै ।
मध्ये च दारकं कुर्यात् सर्वालंकारविभूषितम्
रत्नपूर्णं तथा पात्रं वामहस्तेन धारयेत् ।
कार्यः पद्मे निषण्णो ऽसौ प्रफुल्लितविभूषिते
मणिहारसुवर्णं च नानारत्नं विशेषतः ।
दुर्धर्षाश् चापि कर्तव्याश् चतुःकोणेषु पर्वताः
एवं लिखेत् प्रयत्नेन यद् इच्छेज् जीवितुं सुखम् ।
कुङ्कुमेन लिखेत् वापि पुरुषानां तु विशेषतः
तस्येप्सितानि कार्याणि सिध्यन्ते नात्र संशयः ।
नानारूपाश् च कर्तव्या मुद्राचिह्नाश् च पद्मिनी
द्वे पद्मे अथवा त्रीणि चत्वारि पञ्च वा लिखेत् ।
पद्मानां च तथा कुर्यात् केसराणि समन्ततः
सुपुष्पितं पद्मं कुर्वीत सदण्डं पट्टबद्धकम् ।
त्रिशूलं पद्मं कुर्वीताष्टकोणं पट्टबद्धकम्
सपरशुं तथा पद्मम् अष्टपत्त्रं समन्ततः ।
सखड्गं पद्मं कुर्वीत स पद्मं सितम् एव च
शङ्खं पद्मे तथा कुर्यात् सर्वत्र विधिविस्तरम् इति ।
सर्वत्र विधिचिह्नानि कारयेद् विचक्षणः
वर्जयेद् बालरूपाणि यत्र चित्तं प्रदुष्यति ।
देवरूपं च कर्तव्यं नानालंकारभूषितम्
भिक्षुं वज्रधरं कुर्याद् दुष्टतर्जनतत्परम् ।
चतुरश् च महाराज्ञश् चतुःपार्श्वेषु संलिखेत्
ब्राह्मणे ईश्वरो लेख्यः क्षत्रियेषु महेश्वरः ।
शूद्रेषु सदा सौम्यं चक्रस्वामिनम् आलिखेत्
वैश्येषु वैश्रवणम् इन्द्रं चैव सुरेश्वरम् ।
दारके सदा लेख्यः प्रजापतिर् महामतिः
श्यामवर्णा भवेद् या तु रौद्रं तस्याः समालिखेत् ।
गौराया रूपसंपन्नं लिखेन् नित्यं यशस्विनम्
स्थूलायां माणिभद्रश् च लिखितव्यः प्रयत्नतः ।
कृषायां पूर्णभद्रस् तु मया ह्य् उक्तं स्वयम्भुवा
गुर्विण्याश् च महाकालं लिखेच् च ब्रह्मदेवताम् ।
अन्यांश् चापि यथापूर्वं विधिनोक्तान् समालिखेत्
लिखित्वैवं प्रयत्नेन विधिदृष्टेन कर्मणा ।
धारयेत् सततं कण्ठे भद्रकं तस्य भविष्यति
ज्वालाग्रं चिन्तामणिं कुर्याद् वज्राग्रे पद्मसंस्थितम् ।
पद्मस्य केसरे पाशं चक्रं चापि तथा परम्
वज्रं पद्मे समालिख्य मुद्गरं पद्मसंस्थितम् ।
शक्तिं लिखेत् तथा पद्मे यथा विधिषु दृश्यते
ज्वालाग्रा मणयः सर्वे विस्फुलिङ्गसमाकुलाः ।
पट्टबद्धाश् च कर्तव्या यथा विधिषु कीर्तिताः
नागाश् च फणिनः कार्या मणिज्वाला नवशीर्षाः ।
ते ऽपि सर्वे प्रयत्नेन हृदि वज्रप्रतिष्ठिताः
पार्थिवानां बलं नित्यं सार्थवाहं लिखेद् बुधः ।
विद्याधराणां च सर्वेषां विद्यादेवीं समालिखेत्
चन्द्रसूर्यौ सनक्षत्रौ राहुकेतुग्रहाष्टकम् ।
लिखेच् च षण्डपण्डानां पुत्रलाभो भविष्यति
निश्चयाद् विधिनालिख्य सर्वसिद्धिर् भविष्यति ।
तस्मात् सर्वप्रयत्नेन धारयेन् मतिमान् नरः
[43] सर्वसिद्धिकरं ह्य् एतन् मङ्गल्यं पापनाशनम् ।
प्राप्नोति परमं स्थानं स्वयम्भूवचनं यथा
लोके ऽस्मिन् परमं सौख्यं परलोके सुखं परम् ।
त्रयस्त्रिंशभवनादौ स्थानं तस्य सुरालयम्
जम्बुद्वीपे शुभे रम्ये विशिष्टे कुलसंमते ।
क्षत्रियेषु विशिष्टेषु ब्राह्मणेषु विशेषतः
जन्म तस्य महात्मस्य विद्या सुखं च नित्यशः ।
सर्वबुद्धैर् न शक्यं हि पुण्यस्कन्धं प्रकीर्तितुम्
यत् पुण्यं समवाप्नोति प्रतिसराधारको नरः ।
नरकद्वाराः पिथिताः सर्वस्वर्गद्वारा अपावृताः
सुखसंपत्तिसंपन्नो भविष्यति महामतिः ।
बुद्धाश् च बोधिसत्त्वाश् च आश्वासयन्ति च नित्यशः
कायेन सुखसंपन्नो बलेन महता भवेत् ।
यथापि तद् वै जिनेन्द्रोक्तं चक्रवर्ती भविष्यति
आश्वासनं नृदेवानां त्रासनं दुष्टचेतसाम् ।
भविष्यत्य् अचिरेणासौ यस्य विद्या सुभाषिता
नासौ हन्यति शस्त्रेण न विषेण न चाग्निना ।
नाकालमरणं चास्य दूरे गच्छन्ति पापकाः
दर्शनात् स्पर्शनाच् चैव श्रवणाद् एव सर्वतः ।
भूतग्रहविवादाश् च उदकाग्निभयं तथा
मृगा व्याडाहयो नागा व्याधयश् च सुदारुणाः ।
ते सर्वे न भविष्यन्ति येषां विद्या सुभाषिता
सर्वथा सर्वमारैस् तु शृणु वक्ष्यामि तत्त्वतः ।
पूजनीया भविष्यन्ति सर्वसत्त्वोत्तमा हि ते
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0