महाप्रतिसरामहाविद्याराज्ञी · अध्याय 6
कालेन वर्धते गर्भः कालेन परिमुच्यते ।
[29] किम् इति महाब्राह्मण पूर्ववच् छ्रूयताम् ।
इहैव मगधविषये राजा प्रसारितपाणिर् नाम्ना । स चापुत्रको बभूव । किम् इति प्रसारितपाणिर् इति ख्यातवान् । तेन राज्ञा जातमात्रेण पाणिं प्रसार्य मातुः स्तनं गृहीत्वा यावद् आप्तं क्षीरं पीतम् । तौ च स्तनौ सहस्पर्शमात्रेण सुवर्णवर्णौ संवृत्तौ । नित्यकालं च महाक्षीरेण प्रवर्धते । तेन कारणेन राज्ञः प्रसारितपाणिर् इति नाम स्थापितम् अभूत् । अन्यच् च तस्य राज्ञो यदा याचनकजना आगच्छन्ति तदा स राजा दक्षिणं पाणिं प्रसारयत्य् अन्तरीक्षे । बोधिसत्त्वः स राजा तेन हेतुना तस्य बुद्धाभिप्रसन्ना देवता दिव्यै रत्नविशेषैः सुवर्णमणिभिश् च पाणिं परिपूरयन्ति । स राजा तेभ्यो याचनकजनपदेभ्यो ऽनुप्रयच्छति । यथाचिन्तितमात्रेण सर्वयाचनकानां सर्वसुखसंपत्तिकामान् ददाति । देवानां च महान्ति महापूजासत्काराणि करोति पुत्रहेतोर् न च पुत्रं प्रतिलभते । स पौराणां तथागतचैत्यानां पुनः पुनः सत्कारं कर्तुम् आरब्धः । महान्ति पूजासत्काराणि करोति । दानानि ददाति । उपवासम् उपवसति । महान्ति पुण्यानि करोति । अक्षीणान्य् एव दानानि ददाति । तत् कस्य हेतोः ।
[30] भूतपूर्वं महाब्राह्मण अस्मिन्न् एव मगधविषये मल्ला नाम जनपदे कुशिनगरे महापत्तनवरे भगवतः प्रभूतरत्नस्य शासने समुत्पन्नो धर्मचित्तकः कश्चिन् महासत्त्वो धर्ममतिर् नाम श्रेष्ठी प्रतिवसति । स सर्वसत्त्वानाम् अन्तिके महाकरुणाचित्तम् उपस्थाप्येमाम् एव महाविद्यां महाप्रतिसराम् आरभ्य धर्मं देशयति । अथ कश्चिद् एव दरिद्रपुरुषस् तं धर्मं श्रुत्वा तस्य महाश्रेष्ठिन इदं वचनम् अब्रवीत् । अहम् आर्यस्य निवेशने भृतिकर्म करिष्यामि धर्मं च श्रोष्यामि । यदा मम किंचिद् भविष्यति तदाहं धर्मं पूजयिष्यामि । तस्य गृहव्यापारं कुर्वतो धर्मं च शृण्वतो अपरेण समयेन तेन श्रेष्ठिना तस्यैकं दीनारं दत्तम् । तेन सर्वसत्त्वपरित्राणार्थं बोधिचित्तम् उत्पाद्य सर्वसत्त्वसाधारणं कृत्वा महाप्रतिसररत्नेति निर्यातितम् । एवं च प्रणिधानं कृतम् । अनेन दानमहाफलेन मम सर्वसत्त्वानां च दारिद्र्यसमुच्छेदः स्यात् । तेन कारणेन तद् दानं परिक्षयं न गच्छति ।
[31] एवं बहुविधानेकविधः पुण्याभिसंस्कारः कृतो देवताश् च पूजिता यावन्तो बुद्धा भगवन्तः पूजितास् तदा शुद्धावासकायिकाभिर् देवताभिः स्वप्ने दर्शनं दत्तम् एवं चाभिहितम् । भो महाराज समन्तज्वालामालाविशुद्धिस्फुरितचिन्तामणिमुद्राहृदयापराजिता महाधारणी विद्याराज्ञी महाप्रतिसरा नाम । यथाविधिनालिख्य यथाविधिना कल्पो ऽभिहित उपवासोषिताया यथाविधिना अग्रमहिष्या देव्याः शरीरे बद्ध्वा ततस् ते पुत्रप्रतिलाभो भविष्यति । अथ स राजा प्रतिविबुद्धस् तस्या रात्र्या अत्ययेन संख्यालिपिनक्षत्रग्रहविपञ्चकान् कुलब्राह्मणान् संनिपात्य यथाविधिना कल्पोपदिष्टे पुष्यनक्षत्रराजे प्रतिपन्ने सुस्नातगात्राया उपवासोषिताया अग्रमहिष्या देव्या यथाविधिनालिख्येमां महाप्रतिसरां विद्याराज्ञीं कण्ठे बद्धवान् । महतीं महाबुद्धचैत्येषु पूजाम् अकार्षीत् । अनेकानि च रत्नविशेषानि सत्त्वानां दानानि दत्तानि । ततो नवानां मासानाम् अत्ययात् पुत्रो जातः । अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्कलतया समन्वागतः ।
[32] इति ज्ञात्वा महाब्राह्मण सर्वकामंगमापराजिता महाप्रतिसररत्नेति विश्रुता महाविद्याराज्ञी सर्वतथागतपूजिता । शक्रस्यापीयं चूडामणिः सर्वथा ।
[33] यदा शक्रो देवेन्द्रो महासंग्रामम् असुरैः सार्धं कर्तुकामस् तदा इमाम् एव कवचं कृत्वा चूडायाम् अवस्थाप्य सर्वासुरान् निर्जित्य पराजित्य सुखं स्वस्तिना क्षेमेन देवपुरं प्रविशति । सर्वासुरैर् अधृष्यो भवति ।
[34] एवं हि महाब्राह्मण प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्येमां महाप्रतिसरां महाविद्याराज्ञीं धारयतः सर्वमारैर् अनवमृद्यता भवति । यस्यैषा कायकण्ठगता भविष्यति स सर्वतथागताधिष्ठितो भविष्यति । सर्वबोधिसत्त्वसंरक्षितो भविष्यति । सर्वदेवमनुष्यराजराजामात्यब्राह्मणगृहपतिभिश् च सततसमितं वन्दितः पूजितः संमानितो भविष्यति । सर्वदेवासुरगरुडकिंनरमहोरगाभ्यर्चितः पूजितो भविष्यति । स महासत्त्व इत्य् उवाच भगवान् मारबलप्रमर्दकः । सर्वव्याधिविगतो भविष्यति । सर्वेत्युपद्रवोपसर्गाश् चास्य प्रशाम्यन्ति । तस्य महासत्त्वस्य सर्वशोकविगमो भविष्यति । सर्वदेवताश् चास्य सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति ।
[35] इमानि चानेन चत्वार्य् अपराजितामहामन्त्रहृदयानि सततसमितं लिखित्वा कायगतानि कृत्वा धारयितव्यानि सततसमितं मनसिकर्तव्यानि स्वाध्यायितव्यानि भावयितव्यानि चाध्याशयेन । सर्वदुःस्वप्नदुर्निमित्तामङ्गल्यभावा विनश्यन्ति सर्वसुखसंपत्तयश् च प्रादुर्भविष्यन्ति ।
अत्र मन्त्रपदाः सिद्धाः सर्वकर्मकराः शुभाः ।
ओं अमृतवरे वर 2 प्रवरविशुद्धे हूं 2 फट् 2 स्वाहा ।
ओं अमृतविलोकिनि गर्भसंरक्षणि आकर्षणि हूं 2 फट् 2 स्वाहा ।
अपराजिताहृदयम् ।
ओं विमले जयवरे अमृते हूं 2 फट् 2 स्वाहा ।
ओं भर 2 संभर इन्द्रियबलविशोधनि हूं 2 फट् 2 रुरु चले स्वाहा ।
उपहृदयविद्या ।
[36] अशेषैः सर्वबुद्धबोधिसत्त्वैश् च एकसंनिपाते एकस्वरनिर्घोषेण इमानि धारणीमन्त्रपदानि भाषितानि । महाप्रतिसरामहाविद्याराज्ञीहृदयकवचान्य् एतानि मन्त्रपदानि सर्वतथागतमुद्रया मुद्रितानि । अतिदुर्लभम् अप्य् एषां श्रवणं किं पुनर् लिखनपठनवाचनधारणपरदेशना । बुद्धकृत्यम् एतद् इति ज्ञातव्यम् । इयं ह्य् अतीव सर्वतथागतैः प्रशंसितानुमोदिता व्याकृता । परमदुर्लभेयं महाधारणी । अपराजिता महाप्रतिसरा । नामधेयम् अपि परमदुर्लभं सर्वपापक्षयंकरी महाबलपराक्रमा महातेजा महाप्रभावा महागुणोद्भावनी सर्वमारकायिकदेवताविध्वंसनकरी सर्ववासनानुसंधिमारपाशच्छेदनकरी । परमन्त्रमुद्राविषकाखोर्दचूर्णकिरणप्रयोगविद्वेषणाभिचारुकाणां च दुष्टचित्तानां विध्वंसनकरी । बुद्धबोधिसत्त्वार्यगणवरपूजाभिरतानां परिपालनकरी ।
महायानोद्ग्रहणलिखनवाचनपठनस्वाध्यायनश्रवणधारणाभियुक्तानां परिपालिकेयं महाधारणी । यावद्बुद्धबोधिपरिपूरयित्रीयं महाब्राह्मण महाप्रतिसरा विद्याराज्ञी न क्वचित् प्रतिहन्यते । सर्वत्र च महापूजां प्राप्नोति यथाहं शास्ता जितविद्विषः ।
[37] किम् इति । पूर्वं परिज्ञातवतीयं महाविद्या सर्वविघ्नविनायकानां विध्वंसयित्री ।
यदा च भगवान् विपुलप्रहसितवदनमणिकनकरत्नोज्ज्वलरश्मिप्रभासाभ्युद्गतराजस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रथमाभिसंबुद्धो येन बोधिमण्डस् तेनोपसंक्रान्तः सर्वबुद्धप्रशस्तं धर्मचक्रं प्रवर्तयितुकामस् तदा तस्य भगवतः सर्वमारैः सपरिवारैर् अनेकमारकोटीनियुतशतसहस्रपरिवृतैर् नानारूपविरूपभयभैरवशब्दाकुलैर् बहुविविधमारविषयविकुर्वणाधिष्ठानैर् नानाप्रहरणवृष्टिम् अभिनिर्मायागत्य चतुर्दिशं परिवार्यानन्तापर्यन्तमारकोटीनियुतशतसहस्रातिरेकाः पापीयांसो अन्तरायं कर्तुम् आरब्धाः । ततः स भगवान् विपुलप्रहसितवदनमणिकनकरत्नोज्ज्वलरश्मिप्रभासाभ्युद्गतराजो मुहूर्तं तूष्णीम् आस्थाय इमां महाप्रतिसरां महाविद्यां मनसा सप्तकृत्वः प्रवर्तयाम् आस । समनन्तरप्रवर्तिते ऽस्मिन् महाप्रतिसरे विद्याराजे तत्क्षणाद् एव सर्वे ते माराः पापीयांसो ददृशुर् भगवत एकैकस्माद् रोमविवराद् अनेककोटीनियुतशतसहस्राणि संनद्धबद्धकवचानां ज्वलितखड्गपरशुपाशमुद्गरासित्रिशूलहस्तानाम् एवं वाचं प्रव्याहरमाणानि निर्गच्छन्ति । गृह्नत 2 बन्धत 2 दुष्टमारां विध्वंसयत दुष्टचित्तानां विचूर्णयत जीवितं सर्वदुष्टग्रहविघ्नविनायकानां ये भगवतो विहेठां कुर्वन्ति । ततस् ते सर्वदुष्टमारान् मैत्रीखड्गेनाभिनिर्जितान् कृत्वा केचिच् छिक्षापदानि ग्राहिताः केचिद् यावद् अनुत्तरायां सम्यक्संबोधौ व्याकृतास् तत्र महानुभावाः । अन्ये पुनस् तांस् तथागतरोमविवरविनिर्गतान् महापुरुषान् दृष्ट्वा तस्मिन् नगरे विह्वलीभूता ऋद्धिपरिहीना प्रतिभानबलपराक्रमप्रनष्टा विध्वस्ताः समस्ताः प्रपलीना इति । ततो भगवता धर्मचक्रं प्रवर्तितं यथान्यैर् बुद्धैर् इति । सर्वविघ्नविनायकान् मारांश् च पापीयांसो विध्वंसयित्वा उत्तीर्णः पारंगतः ।
[38] एवं हि महाब्राह्मण महाबलवेगऋद्धिपारमिताप्राप्तेयं महाप्रतिसरा महाविद्याराज्ञी स्मरणमात्रेण सर्वव्यसनभयभैरवेभ्यः परिमोचयति आशयपरिशुद्धानां सत्त्वानां नान्येषां दुष्टचेतसाम् । तस्मात् तर्हि महाब्राह्मण नित्यम् एवानुस्मरणेन मनसिकारेण मनसिकर्तव्या । सर्वकालं च लिखित्वा कायगतां कृत्वा धारयितव्या ।
[39] किम् इति पूर्वोक्तवती वाक् ।
उज्जयन्यां महानगर्यां राज्ञो ब्रह्मदत्तस्य विजिते केनचित् पुरुषेणापराधः कृतः । स राज्ञा ब्रह्मदत्तेन वधकपुरुषेभ्य आज्ञप्तः । भवन्तो गच्छतैनं पुरुषं जीविताद् व्यपरोपयथ । अथ ते वधकपुरुषास् तं राज्ञाज्ञप्तं पुरुषं गृहीत्वा पर्वतविवरं गत्वासिं कोशान् निष्कास्य तं पुरुषं जीविताद् व्यवरोपयितुम् आरब्धाः । तदा स पुरुष इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा स्मृतवान् । लिखितां च दक्षिने बाहौ धारयति स्म । तस्य महासत्त्वस्यास्या महाविद्यायाः प्रभावेनासिर् एकज्वालीभूता खण्डखण्डं यथा पांसुमयो विकीर्ण इति । ततस् ते वधकपुरुषा इमम् एव निश्चयं राज्ञो विस्तरेणारोचयाम् आसुः । ततो राजा प्रकुपितः कथयति । गच्छथ भोः पुरुषा अन्यतमस्मिन् प्रदेशे यक्षगुहास्ति । तत्र बहूनि यक्षशतसहस्राणि प्रतिवसन्ति पिशिताशिनः । तत्र नीत्वा छोरयत । ततः स पुरुषस् तैर् वधकपुरुषैस् तस्यां यक्षगुहायां छोरितः । समनन्तरछोरिते तस्मिन् यक्षगुहायां ततस् ते यक्षाः सर्वे तुष्टमनसः प्रधाविता मानुषं भक्षयिष्याम इति ते पश्यन्ति अस्या महाप्रतिसराया अनुभावेन तं पुरुषम् एकज्वालामालार्चिषं देदीप्यमानं दृष्ट्वा च सर्व एव संत्रस्ता दह्यमानं शरीरं पश्यन्ति । अथ ते यक्षा विस्मयम् आपन्नास् तं पुरुषं गृहीत्वा बहिर्द्वारे ऽवस्थाप्य प्रदक्षिणं कर्तुम् आरब्धाः । यावत् तैर् वधकपुरुषै राज्ञो ऽयं निश्चयो विस्तरेणारोचितः । ततो भूयो राजा कुपितश् चण्डीभूतः कथयति । यद्य् एवं भवन्तो गच्छथैनं पुरुषं बद्ध्वा नद्यां प्रक्षिपथ । स तैः पुरुषैर् बद्ध्वा नद्यां प्रक्षिप्तः । समनन्तरप्रक्षिप्ते च तस्मिन् महापुरुषे सा नदी निरुदकीभूता यथा स पुरुषः स्थलगत एव तिष्ठति । ते च बन्धनाः खण्डखण्डं विचूर्णिताः । राज्ञा श्रुतम् । ततो राजा विस्मयोत्फुल्लितवदनः कथयति । अहो विस्मयम् इदं पुरुषस्य । किम् अत्र कारणं स्याद् इति मे वितर्कः । अथ स राजा तं पुरुषं आहूयैवम् आह । किं त्वं भोः पुरुष जानासि । पुरुष उवाच । नाहं महाराज किंचिद् अपि जानामि अन्यत्र महाप्रतिसरां महाविद्यां धारयामि । तस्या एव देव प्रभावः । राजा आह । अहो आश्चर्यं महत् । महाविद्या सुभाषिता ।
मोहनी मृत्युदण्डस्य सर्वबुद्धैर् अधिष्ठिता ।
तारणी सर्वसत्त्वानां रुजादुःखप्रमोचनी
महाविद्या महातेजाकालमृत्युप्रमोचनी ।
भाषिता कारुणिकैर् नाथैर् महारोगनिवारणी
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0