भाषा

ENहिગુ
ग्रंथ पाठ

महाप्रतिसरामहाविद्याराज्ञी · अध्याय 5

5.1

तेनाहं मोचयिष्यामि अतिदुःखमहाभयात् ।
[27] ततः स महासार्थवाहस् तस्यां वेलायाम् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा ध्वजाग्रावरोपितां कारयति स्म । समनन्तरध्वजाग्रावरोपिते ऽस्मिन् महाप्रतिसरे सर्व एव ते तिमिङ्गिलास् तत् पोतम् एकज्वालीभूतं पश्यन्ति । ततस् ते नागा मैत्रमनसस् तेषाम् अन्तिके ऽवतीर्य पूजां कर्तुम् आरब्धाः । ते च तिमिङ्गिला अस्या एव महाप्रतिसराविद्याराज्ञ्या अनुभावेन दह्यमाना निष्पलायिता विलयं गतास् ते च सार्थिकास् तैर् महानागैर् महति महारत्नद्वीपे प्रापिता इति ।
[28] ज्ञानवती महाविद्या महाप्रतिसरा सर्वतथागताधिष्ठिता । तेन हेतुनेयं महाब्राह्मण महाविद्येति ख्याता । अवश्यम् एवेयं ध्वजाग्रावरोपितां कृत्वा धारयितव्या । सर्ववातशीताकालमेघविद्युदशनिं प्रशमयति । सर्वदेवमनुष्यामनुष्यविग्रहविवादेषु परिमोचयति । सर्वदंशमशकशलभप्राणकजाता विविधरूपाः सस्यविनाशका न प्रभवन्ति । प्रशमं गच्छन्ति । सर्वे च दुष्टचित्ता मृगपक्षिणो दंष्ट्रिणो विनश्यन्ति । सर्वाणि च पुष्पफलपत्त्रवनस्पत्योषधिसस्यादीन्य् अभिवर्धन्ते । सुरसानि स्वादूनि मृदूनि च भविष्यन्ति । सम्यग् एव परिपाचितानि भविष्यन्ति । अतिवृष्ट्यनावृष्टिदोषाः सर्वेण सर्वं न भविष्यन्ति । कालवृष्टिर् भविष्यति नाकालवृष्टिः । ये च तस्मिन् विषये महानागास् ते च सम्यग् एव कालेन कालं वर्षधारा उत्सृजन्ति । यस्मिन् विषये इयं महाविद्याराज्ञी महाप्रतिसरा नाम प्रचरिष्यति तत्र तैः सत्त्वैर् ज्ञात्वा पूजासत्कारं कृत्वा नानागन्धैर् नानाधूपैर् नानापुष्पैर् नानावस्त्रैः परिवेष्टयित्वा चैत्यस्योपरि ध्वजाग्रावरोपितां कृत्वा नानावाद्यतूर्यसंगीतिभिर् वाद्यमानाभिः प्रदक्षिणीकर्तव्या । तेषां महासत्त्वानां यथाचिन्तितम् आशां परिपूरयिष्यन्ति देवताः शक्रब्रह्मप्रभृतयः । अथवा यथा यथा विधिना लिख्यते तथा तथा समृध्यते ।
पुत्रार्थी लभते पुत्रं गर्भसंधारिणी परा ।
सुखेन वर्धते गर्भः सुखेन च प्रसूयते

मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc