भाषा

ENहिગુ
ग्रंथ पाठ

महाप्रतिसरामहाविद्याराज्ञी · अध्याय 4

4.1

परिवारितं समन्तेन पूजां कुर्वन्त्य् अनुत्तराम् ।
[24] यावत् तस्य तैर् यक्षैः प्रतिसरकूटो नाम स्थापितः । अथ ते यक्षाः पुनर् आगत्य यमस्य धर्मराजस्य निश्चयं विस्तरेणारोचयन्ति स्म । एवम् एतद् देव यथा त्वयाभिहितम् । समनन्तरारोचिते ऽस्मिन् वचनपर्यवसाने स महासत्त्वस् तं नारकं शरीरं विजह्य त्रयस्त्रिंशेषु देवेषूपपन्नः । तेन हेतुना प्रतिसरपूर्वी देवपुत्र इत्य् उच्यते ।
[25] तेन हि महाब्राह्मण परिज्ञातपूर्वम् । तस्माद् अवश्यम् एवेयं महाप्रतिसरेति धारयितव्या वाचयितव्या लिखितव्या यथाविधिना नित्यं शरीरगतां कृत्वा धारयितव्या । स नित्यं सर्वव्यसनदुःखेभ्यः परिमुच्यते । सर्वदुर्गतिभयभैरवेभ्य उत्तरति । न च विद्युता शक्यं पातयितुम् । किम् इति विद्युता परिज्ञातपूर्वम् ।
[26] महाब्राह्मण हिङ्गुमर्दने महानगरवरे विमलशङ्खो नाम श्रेष्ठी महाधनकनकसमृद्धः परिपूर्णकोशकोष्ठागारसंपन्नो बभूव । सार्थवाह इति ख्यातवान् । अथ स महासार्थवाहो यानपात्रम् आसाद्य महासमुद्रे ऽवतीर्णः । यावत् तिमिङ्गिलैः सो ऽस्य पोतो ऽवष्टब्धः । विनाशयितुकामा नागाश् च संक्षुब्धा महान्तं गर्जनास्फोटं कुर्वन्ति विद्युदुल्काम् उत्सृजन्ति वज्राशनिं प्रवर्षितुम् आरब्धाः । ततस् ते वणिजो महता दुःखेनाभ्याहतचित्तास् तं महान्तं नागसंक्षोभं विद्युदुल्कां वज्राशनिं चोत्सृजन्तं तैश् च तिमिङ्गिलैः पोतम् अवष्टब्धं दृष्ट्वा महान्तम् उत्क्रोशनाशब्दं कर्तुम् आरब्धाः । ते देवताविशेषान् आयाचयन्ति । न च कश्चित् तेषां परित्राणं भवति । ततस् ते सार्थवाहस्योपगम्य करुणकरुणम् इदं वचनम् अब्रुवन् ।
परित्रायस्व महासत्त्व मोचयास्मान् महाभयात् ।
अथ खलु महासार्थवाहो दृढचित्तो महामतिः

4.2

वणिजो विक्लवीभूतान् इदं वचनम् अब्रवीत् ।
मा भैर् मा भैर् वणिजो भवन्तो धीरतां व्रजत

4.3

अहं वो मोचयिष्यामि अतो दुःखमहार्णवात् ।
ततो धीरमनसो भूत्वा वणिज इदं वचनम् अब्रुवन्

4.4

किम् एतन् महासत्त्व ब्रूहि शीघ्रम् अविघ्नतः ।
यावज् जीवितम् अस्माकं त्वत्प्रभावान् महामते

4.5

कथ्यतां ज्ञानमाहात्म्यं पश्चात् त्वं किं करिष्यसि ।
ततः सार्थपतिस् तेषाम् इमां विद्याम् उदाहरत्

4.6

अस्ति मे महाविद्या प्रतिसरानामविश्रुता ।
दमनी सर्वदुष्टानां महाबलपराक्रमा

मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc