महाप्रतिसरामहाविद्याराज्ञी · अध्याय 3
तद् इदानीं संप्रवक्ष्यामि भूतसंघाः शृणोथ मे ।
[14] नमः सर्वतथागतानाम् । नमो नमः सर्वबुद्धबोधिसत्त्वसंघेभ्यः ।
ओं विपुलगर्भे । विपुलविमले । जयगर्भे । वज्रज्वालागर्भे । गतिगहने । गगनविशोधने । सर्वपापविशोधने । ओं गुणवति । गगनविचारिणि । गगरिणि । गिरि 2 । गमरि 2 । गह 2 । गर्गारि 2 । गगरि 2 । गम्भरि 2 । गभि 2 । गहि 2 । गमनि । गरे । गुह 2 । गुहनि 2 । चले । मुचिले । जये । विजये । सर्वभयविगते । गर्भसंभरणि । सिरि 2 मिरि 2 घिरि 2 । समन्ताकर्षणि । सर्वशत्रुप्रमथनि । रक्ष 2 मां सर्वसत्त्वानां च । चिरि 2 । विगतावरणे । आवरणविनाशनि । सुरि 2 मुरि 2 चिलि 2 । कमले । विमले । जये । जयावहे । जयवति । भगवति । रत्नमकुटमालाधरि । बहुविविधविचित्रवेषधारिणि । भगवति । महाविद्यादेवि । रक्ष 2 मां सर्वसत्त्वानां च समन्तात् सर्वत्र । सर्वपापविशोधनि । हुरु 2 । रक्ष 2 मां सर्वसत्त्वानां चानाथान् अत्राणान् अपरायणान् । परिमोचय मां सर्वदुःखेभ्यः । चण्डि 2 । चण्डिनि । वेगवति । सर्वदुष्टनिवारणि । विजयवाहिनि । हुरु 2 मुरु 2 चुरु 2 । आयुःपालनि । सुरवरमथनि । सर्वदेवगणपूजिते । धिरि 2 । समन्तावलोकिते । प्रभे 2 । सुप्रभविशुद्धे । सर्वपापविशोधनि । धर 2 । धरणिधरे । सुमु 2 । मुसु 2 । रुरु चले । चालय दुष्टान् । पूरय आशाम् । श्रीवपुर्धरे । जयकमले । क्षिणि 2 । वरदाङ्कुशे । ओं पद्मविशुद्धे । शोधय 2 । शुद्धे । भर 2 भिरि 2 भुरु 2 । मङ्गलविशुद्धे । पवित्रमुखि । खड्गिनि 2 । खर 2 । ज्वलितशिखरे । समन्तप्रसारितावभासितशुद्धे । ज्वल 2 । सर्वदेवगणसमाकर्षणि । सत्यव्रते । तर 2 । तारय 2 मां सर्वसत्त्वांश् च । नागविलोकिते । लहु 2 हुलु 2 हुतु 2 तुरु 2 किणि 2 क्षिणि 2 । सर्वग्रहभक्षणि । पिङ्गलि 2 । मुचु 2 चुमु 2 सुमु 2 । सुविचरे । तर 2 । नागविलोकिनि । तारय मां सर्वसत्त्वांश् च भगवति अष्टमहाभयेभ्यः सर्वत्र समन्तेन दिशाबन्धेन वज्रप्राकारवज्रपाशबन्धेन । वज्रज्वालाविशुद्धे । भुरि 2 । भगवति । गर्भवति । गर्भविशोधनि । कुक्षिसंपूरणि । ज्वल 2 । चल 2 । ज्वालिनि । वर्षतु देवः समन्तेन दिव्योदकेन । अमृतवर्षणि । देवतावतारिणि । अभिषिञ्चतु मां सर्वसत्त्वांश् च । सुगतवरवचनामृतवरवपुषे । रक्ष 2 मम सर्वसत्त्वांश् च सर्वत्र सर्वदा सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वव्याधिभ्यः सर्वदुष्टभयभीतस्य ।सर्वकलिकलहविग्रहविवाददुःस्वप्नदुर्निमित्तामङ्गल्यपापविशोधनि । सर्वयक्षराक्षसनागविदारिणि । बल 2 । बलवति । जय 2 । जयतु मां सर्वत्र सर्वकालं । सिध्यतु मे इयं महाविद्या । साधय मण्डलं घातय विघ्नान् । जय 2 । सिद्धे । सिध्य 2 । बुध्य 2 । पूरय 2 । पूरणि 2 । पूरय आशां । सर्वविद्योद्गतमूर्ते । जयोत्तरि । जयवति । तिष्ठ 2 । समयम् अनुपालय । तथागतहृदयशुद्धे । व्यवलोकय मां सर्वसत्त्वानां चाष्टमहादारुणभयेषु । सर 2 । प्रसर 2 । सर्वावरणविशोधनि। समन्ताकारमण्डलविशुद्धे । विगते 2 । विगतमले । विशोधनि । क्षिणि 2 । सर्वपापविशुद्धे । मलविगते । तेजोवति । वज्रवति । त्रैलोक्याधिष्ठिते स्वाहा । सर्वतथागतमूर्धाभिषिक्ते स्वाहा ।
सर्वबोधिसत्त्वाभिषिक्ते स्वाहा । सर्वदेवताभिषिक्ते स्वाहा । सर्वतथागतहृदयाधिष्ठितहृदये स्वाहा । सर्वतथागतसमयसिद्धे स्वाहा । इन्द्रे इन्द्रवति इन्द्रव्यवलोकिते स्वाहा । ब्रह्मे ब्रह्माध्युषिते स्वाहा । विष्णुनमस्कृते स्वाहा । महेश्वरवन्दितपूजितायै स्वाहा । वज्रधरवज्रपाणिबलवीर्याधिष्ठिते स्वाहा । धृतराष्ट्राय स्वाहा । विरूढकाय स्वाहा । विरूपाक्षाय स्वाहा । वैश्रवणाय स्वाहा । चतुर्महाराजनमस्कृताय स्वाहा । यमाय स्वाहा । यमपूजितनमस्कृताय स्वाहा । वरुणाय स्वाहा । मारुताय स्वाहा । महामारुताय स्वाहा । अग्नये स्वाहा । नागविलोकिताय स्वाहा । देवगणेभ्यः स्वाहा । नागगणेभ्यः स्वाहा । यक्षगणेभ्यः स्वाहा । राक्षसगणेभ्यः स्वाहा । गन्धर्वगणेभ्यः स्वाहा । असुरगणेभ्यः स्वाहा । गरुडगणेभ्यः स्वाहा । किंनरगणेभ्यः स्वाहा । महोरगगणेभ्यः स्वाहा । मनुष्यगणेभ्यः स्वाहा । अमनुष्यगणेभ्यः स्वाहा । सर्वग्रहेभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । सर्वप्रेतेभ्यः स्वाहा । पिशाचेभ्यः स्वाहा । अपस्मारेभ्यः स्वाहा । कुम्भाण्डेभ्यः स्वाहा । ओं धुरु 2 स्वाहा । तुरु 2 स्वाहा । मुरु 2 स्वाहा । हन 2 सर्वशत्रूणां स्वाहा । दह 2 सर्वदुष्टाणां स्वाहा । पच 2 सर्वप्रत्यर्थिकप्रत्यमित्राणां स्वाहा । ये मम अहितैषिणस् तेषां सर्वेषां शरीरं ज्वालय सर्वदुष्टचित्तानां स्वाहा । ज्वलिताय स्वाहा । प्रज्वलिताय स्वाहा । दीप्तज्वालाय स्वाहा । समन्तज्वालाय स्वाहा । माणिभद्राय स्वाहा । पूर्णभद्राय स्वाहा । महाकालाय स्वाहा । मातृगणाय स्वाहा । यक्षिणीनां स्वाहा । राक्षसीनां स्वाहा । आकाशमातृर्णां स्वाहा । समुद्रवासिनीनां स्वाहा । रात्रिचराणां स्वाहा । दिवसचराणां स्वाहा । त्रिसंध्याचराणां स्वाहा । वेलाचराणां स्वाहा । अवेलाचराणां स्वाहा । गर्भहरेभ्यः स्वाहा । गर्भसंधारणि स्वाहा । हुलु 2 स्वाहा । ओं स्वाहा । स्वः स्वाहा । भूः स्वाहा । भुवः स्वाहा । भूर् भुवः स्वाहा । चिटि 2 स्वाहा । विटि 2 स्वाहा । धरणि स्वाहा । धारणि स्वाहा । अग्नि स्वाहा । तेजोवपु स्वाहा । चिलि 2 स्वाहा । सिलि 2 स्वाहा । मिलि 2 स्वाहा । बुध्य 2 स्वाहा । सिध्य 2 स्वाहा । मण्डलबन्धे स्वाहा । सीमाबन्धनि स्वाहा । सर्वशत्रूणां भञ्जय 2 स्वाहा । जम्भय 2 स्वाहा । स्तम्भय 2 स्वाहा । छिन्द 2 स्वाहा । भिन्द 2 स्वाहा । भञ्ज 2 स्वाहा । बन्ध 2 स्वाहा । मोहय 2 स्वाहा । मणिविशुद्धे स्वाहा । सूर्ये सूर्यविशुद्धे स्वाहा । विशोधनि स्वाहा । चन्द्रे 2 पूर्णचन्द्रे स्वाहा । ग्रहेभ्यः स्वाहा । नक्षत्रेभ्यः स्वाहा । शिवे स्वाहा । शान्ति स्वाहा । स्वस्त्ययने स्वाहा । शिवंकरि स्वाहा । शान्तिकरि स्वाहा । पुष्टिकरि स्वाहा । बलवर्धनि स्वाहा । श्रीकरि स्वाहा । श्रीवर्धनि स्वाहा। श्रीज्वालिनि स्वाहा । नमुचि स्वाहा । मरुचि स्वाहा । वेगवति स्वाहा । ओं सर्वतथागतमूर्ते । प्रवरविगतभये । शमयस्व मे भगवति सर्वपापान् । स्वस्तिर् भवतु मम सर्वसत्त्वानां च । मुनि 2 । विमुनि । चरि । चलने । भयविगते । भयहरणि । बोधि 2 । बोधय 2 । बुद्धिलि 2 । सर्वतथागतहृदयजुष्टे स्वाहा । ओं मुनि 2 । मुनिवरे । अभिषिञ्चन्तु मां सर्वसत्त्वांश् च सर्वतथागताः सर्वविद्याभिषेकैर् महावज्रकवचमुद्रामुद्रितैः । सर्वतथागतहृदयाधिष्ठितवज्रे स्वाहा ।
समन्तज्वालामालाविशुद्धिस्फुरितचिन्तामणिमुद्राहृदयापराजिता धारणी अस्या महाप्रतिसरामहाविद्याराज्ञ्याः ।
[15] सहश्रवणमात्रेणायं महाब्राह्मण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सर्वपापविनिर्मुक्तिर् भवति । यस्य पुनर् इयं हृदयगता भवति स महाब्राह्मण वज्रकाय इति वेदितव्यः । नाग्निस् तस्य काये क्रमिष्यति । किम् इति संज्ञातम् ।
[16] यदा कपिलवस्तुनि महानगरवरे राहुलभद्रः कुमारो मातुः कुक्षिगतो ऽभूत् तदा गोपया शाक्यकन्यया आत्मानम् अग्निखदायां प्रक्षिप्तः । तत्र पद्मिनी प्रादुर्भूता । तदा राहुलभद्रः कुमारः कुक्षिगत इमां विद्यां मनस्य् अकार्षीत् । अस्या विद्याया अनुस्मरणमात्रेण सो ऽग्निस् तस्मिन् क्षणे शीतीभावम् उपगतः । ततो गोपायाः शाक्यकन्यायाः शरीरम् अग्निना न स्पृष्टम् इति ।
[17] तत् कस्य हेतोः । एषा विद्या सर्वतथागताधिष्ठानाधिष्ठिता । तेन हेतुना महाब्राह्मणाग्निर् न दहति । न च विषेण शक्यं जीविताद् व्यपरोपयितुम् । तत् कथम् इति ।
[18] यदा महाब्राह्मण शूर्पारके महानगरवरे कोशबलिकस्य श्रेष्ठिनः पुत्रो विद्यावादिको बभूव तेन तद्विद्याबलेन तक्षको नागराजा आकर्षितः । आकर्षयित्वा च प्रमादवशाद् बद्धो न दान्तः । यावत् तेनासौ क्रोधाद् दष्टः स तीव्रां वेदनां वेदयति । जानाति च यथा मे जीवितं निरुद्धम् इति । तत्र बहवो वादिका आहूता न च कश्चिच् छक्नोति विषं चेष्टयितुम् । अथ तत्रैव शूर्पारके महानगरे विमलशुद्धिर् नामोपासिका प्रतिवसति महाकरुणासमन्वागता । तस्या इयं महाविद्याराज्ञी मुखाग्रे ऽभूत् । सा तस्यान्तिकम् उपसंक्रान्ता उपसंक्रम्येमां महाविद्यां प्रवर्तयाम् आस । एकवेलायाम् अनुस्मृतमात्रेण निर्विषं स्मृतिं प्रतिलब्धं कृत्वा ततो महाव्यसनात् परिमोचयित्वा इमाम् एव महाविद्यां हृदयगतां कारयति स्म यथा विधिवद् अनुज्ञातम् इति ।
[19] अपि च महाब्राह्मण किं परिज्ञातम् इति ।
वाराणस्यां महानगर्याम् अनुपूर्वेणानुविचरमाणो राजा ब्रह्मदत्त इति संख्यां गच्छति । तस्य प्रातिसीमिको बलचक्रराजा चतुरङ्गं बलकायं संनाह्य वाराणसीं महानगरीं परिवार्य विनाशयितुम् आरब्धः । ततो राज्ञो ब्रह्मदत्तस्यामात्यैर् निवेदितम् । देव परचक्रेण नगरम् अपहृतम् । किं नु खलु वयम् उपायं कुर्यामो येनैतत् परचक्रं विनश्येत् । आज्ञां प्रयच्छ । राजा कथयति । अल्पोत्सुका भवन्तो भवथ । अस्ति मम महाप्रतिसरा नाम महाविद्याराज्ञी येनाहम् इमं चतुरङ्गं बलकायं पराजयिष्यामि भस्मीकरिष्यामि च । अमात्याः शिरसा प्रणिपत्योचुः । किम् इदं महाराज । नास्माभिः कदाचिद् अपि श्रुतम् इति । राजा प्राह । अहम् इदानीं प्रत्यक्षदर्शनं करिष्यामि । अथ स राजा ब्रह्मदत्तो नानागन्धोदकेन स्नातशिरः शुचिवस्त्रं प्रावृत्य इमं महाविद्याराजं यथाविधिनालिख्य शिरःकोशे स्थाप्य इमाम् एव विद्याराज्ञीकवचं कृत्वा संग्राममध्ये ऽवतीर्य एकाकिनैव सर्वो ऽसौ चतुरङ्गबलकायः पराजितः । आमर्द्य च तावद् अनया शरणं गत इति कृत्वासौ बलचक्रराजा मुक्त
[20] इति महाब्राह्मण प्रत्यक्षमहानुभावेयं महाविद्याराज्ञी सर्वतथागतहृदयमुद्राधिष्ठिता प्रत्यक्ष एवेति धारयितव्या । सर्वतथागतसमैषा द्रष्टव्या । पश्चिमे काले पश्चिमे समये अल्पायुष्काणां मन्दपुण्यानां परीत्तभाग्यानां सत्त्वानां हिताय द्रष्टव्या । यः कश्चिन् महाब्राह्मण इमां महाप्रतिसरां महाविद्याराज्ञीं यथाविधिना लिखित्वा बाहौ कण्ठे वा धारयिष्यति स सर्वतथागताधिष्ठितो वेदितव्यः । सर्वतथागतकाय इति वेदितव्यः । वज्रकाय इति वेदितव्यः । सर्वतथागतधातुगर्भ इति वेदितव्यः । सर्वतथागतनेत्र इति वेदितव्यः । ज्वलितार्चिःशरीर इति वेदितव्यः । अभेद्यकवच इति वेदितव्यः । सर्वशत्रूणां प्रमथन इति वेदितव्यः । सर्वपापावरणनिर्दहन इति वेदितव्यः । नरकगतिविशोधक इति वेदितव्यः । किम् इति पूर्वपरिज्ञातं महाब्राह्मण ।
[21] अन्यतमस्मिन् प्रदेशे भिक्षुर् अश्राद्धस् तथागतकुलशिक्षाखण्डकः अदत्तादायी । सुखायद्वारहारिकः सांघिकं चातुर्दिशिकं गणप्राप्तं च यद् द्रव्यं तत् पौद्गलिकं सर्वम् अधिष्ठाय भक्षयति । यावद् अपरेण समयेन महता व्याधिना स्पृष्टः महतीं दुःखां वेदनाम् अनुभवति । स तपस्वी अत्राणो ऽप्रतिसरणो महान्तम् उत्क्रोशनशब्दं करोति । अथ तस्मिन्न् एव प्रदेशे उपासको ब्राह्मणः प्रतिवसति । तेन तच्छब्दं श्रुतम् । श्रुत्वा च पुनर् येन स भिक्षुस् तेनोपसंक्रान्त उपसंक्रम्य तस्य भिक्षोर् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा कण्ठे बध्नाति स्म । समनन्तरबद्धे च महाप्रतिसरे तस्य भिक्षोः सर्वा वेदनाः प्रशान्ताः सर्वव्याधिभिः परिमुक्तः स्वस्थः संवृत्त इति । स तस्या एव रात्र्या अत्ययात् सूपस्थितस्मृतिः कालगतः । स तस्मिन् कडेवरे उत्सृष्टे ऽवीचौ महानरके उपपन्नः । तच् च तस्य मृतशरीरं भिक्षुभिः कूटे स्थापितम् । सा तस्य महाप्रतिसरा महाविद्याराज्ञी कण्ठे बद्धैवावस्थिता । समनन्तरोपपन्नस्य तस्य भिक्षोस् तस्मिन्न् अवीचौ तेषां नारकाणां सत्त्वानां सर्वदुःखवेदनाः प्रशान्ताः । ते च नारकाः सत्त्वाः सर्वसुखसमर्पिता अभूवन् । ये च ते महान्ता आवीचिका अग्निस्कन्धास् ते ऽपि सर्वेण सर्वम् उपशान्ता इति । अथ ते यमपुरुषा विस्पन्दमाना यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयन्ति स्म ।
अतिविस्मयम् इदं देव दृश्यते नरकसंकटे ।
प्रशान्ता दारुणा दुःखाः सत्त्वानां कर्मजाश् च ये
प्रशान्तास् ते ऽपि अङ्गारा देहस्था देहिनां सदा ।
करपत्त्रा न बाधन्ते क्षुरधारा न सज्जते
अस्त्राश् च भग्नाः सर्वे प्रशान्ता लोहकुम्भयः ।
असिपत्त्रवने पत्त्रा न बाधन्ते कर्मजाः पुनः
यमस् त्वं धर्मराजो ऽसि धर्मेण शासयसे नृणाम् ।
इदं तु कारणं नाल्पं त्वम् अस्माकं वक्तुम् अर्हसि
ततो ऽसौ धर्मराजा धर्मात्मा धर्मनिश्चयः ।
करुणाशयनष्टानां वचनं श्रुत्वेदम् ईदृशम्
किम् एतत् कथ्यतां शीघ्रं कथम् एतत् पुनर् ब्रुवन् ।
ततस् ते दुष्टसत्त्वानां यमपुरुषाः सुदारुणाः
यमस्य धर्मराजस्य इदं वचनम् अब्रुवन् ।
अयं देव महासत्त्व उत्पन्नो नरकसंकटे
अवीचिर् यस्य नामेदं तेनासौ संकट उच्यते ।
कर्मणां यस्य वैचित्र्यं सत्त्वा येन सुखीकृताः
सुखितो ह्य् एष सर्वत्र पुनर् यास्यति सुरालयम् ।
यमो ऽपि धर्मराजा वै दृष्ट्वा कथयति विस्मितः
महर्द्धिको ऽयं महच् चास्य शरीरं पौर्वजन्मिकम् ।
यथा धातुशतैर् वृन्दैः स्तूपं शोभति शास्तुनः
तथास्य शोभते कायः प्रतिसराबद्धकण्ठकः ।
[22] अथ ते नरकपालका यक्षा यमस्य धर्मराजस्येदं वचनम् अब्रुवन् । कथम् इदं देव प्रतिसरेत्य् उच्यते । धर्मराज उवाच ।
प्रतिपत् स्मारयेद् यस् तु स न गच्छति दुर्गतिम् ।
सुगतिं गच्छते ह्य् असौ प्रतिसराभावभावितः
अथवा नरकपाला वै गच्छथ पुष्कलावतीम् ।
तद् द्रक्ष्यथ महाकूटं देवतैः परिवारितम्
तद् दृष्ट्वा सर्वसत्त्वेषु मैत्रचित्ता भविष्यथ ।
[23] अथ ते यमपुरुषा तस्याम् एव रात्र्यां पुष्कलावतीं गताः ।
ते पश्यन्ति तदा तत्र राजधानीसमीपतः ।
तच् च कूटं समन्तेन एकज्वालासमाकुलम्
मृतशरीरं च पश्यन्ति प्रतिसराबद्धकण्ठकम् ।
देवा नागाश् च गन्धर्वा यक्षराक्षसकिंनरैः
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0