महाप्रतिसरामहाविद्याराज्ञी · अध्याय 2
[1] एवं मया श्रुतम् । एकस्मिन् समये भगवान् महावज्रमेरुशिखरकूटागारे विहरति स्म । महावज्रसमाधिभूमिप्रतिष्ठाने महावज्रकल्पवृक्षसमलंकृते महावज्रपुष्किरिणीरत्नपद्मप्रभोद्भासिते महावज्रवालिकासंस्तृतभूमिभागे । महावज्राधिष्ठाने महावज्रमण्डलमात्रे । शक्रस्य देवानाम् इन्द्रस्य भवने । महावज्रसिंहासनकोटीनियुतशतसहस्रविराजिते धर्मदेशनाप्रातिहार्यसर्वबुद्धाधिष्ठानाधिष्ठिते सर्वधर्मसमताप्रवेशे सर्वज्ञतानिर्याते ।
[2] चतुरशीतिभिर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सर्वैर् एकजातिप्रतिबद्धैर् अवैवर्तिकैर् अनुत्तरायां सम्यक्सम्बोधौ महास्थामप्राप्तैर् महावज्रविमोक्षसमाधिबुद्धक्षेत्रविकुर्वणप्रातिहार्यसंदर्शकैः । एकक्षणलवमुहूर्तसर्वसत्त्वचित्तचरितानुप्रवेशविचित्रमधुरोदारगम्भीरधर्मदेशनाप्रतिभानप्रातिहार्यसमन्वागतैर् अनेकबुद्धक्षेत्रतथागतमहापूजामेघार्चनाविमोक्षमुखधारणीसमाधिवशिताभिज्ञावेणिकबोध्यङ्गमार्गभूमिपारमितोपायकौशल्यसंग्रहवस्तुमैत्रीकरुणामुदितोपेक्षाबलविविक्तपर्यवदातचित्तसंतानैः ।
[3] तद्यथा । वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन । वज्रगात्रेण च । वज्रमतिना च । वज्रहस्तेन च । वज्रसंहतेन च । वज्रनारायणेन च । वज्रविकुर्वितेन च । वज्रकूटेन च । वज्रराशिना च । सुवज्रेण च । वज्रकेतुना च बोधिसत्त्वेन महासत्त्वेन । एवम्प्रमुखैश् चतुरशीतिभिर् बोधिसत्त्वकोटीनियुतशतसहस्रैः ।
[4] सम्बहुलैश् च महाश्रावकैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् उच्छिन्नभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् अचिन्त्यऋद्धिबलप्रातिहार्यविकुर्वणमहास्थामप्राप्तैर् असङ्गज्ञानदर्शिभिः सर्वैर् विगतमलैर् निर्दग्धसर्वक्लेशवासनाबीजैः ।
[5] यद् उतायुष्मता च शारद्वतीपुत्रेण । आयुष्मता च पूर्णेन मैत्रायणीपुत्रेण । आयुष्मता च कफिणेन । आयुष्मता च सुभूतिना । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च चुन्देन । आयुष्मता च नन्देन । आयुष्मता च महाकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । एवम्प्रमुखैः सम्बहुलैश् च महाश्रावकैः ।
[6] महेश्वरदेवपुत्रप्रमुखैश् चासंख्येयैर् अपरिमाणानभिलाप्यानभिलाप्यैः शुद्धावासकायिकैर् देवपुत्रैः । ब्रह्मणा च सहापतिना । ब्रह्मकायिकदेवपुत्रप्रमुखैः । सुयामेन च देवपुत्रेण । सुयामकायिकदेवपुत्रपरिवारेण । संतुषितेन च । निर्माणरतिना च । परनिर्मितवशवर्तिना च । शक्रेण च देवानाम् इन्द्रेण सर्वदेवपुत्रपरिवारेण ।
[7] वेमचित्रिणा चासुरेन्द्रेण । बलिना च । प्रह्लादेन च । राहुणा च । वैरोचनेन च । एवम्प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् असुरेन्द्रैः ।
[8] सागरेण च नागराजेन । तक्षकेन च । वासुकिना च । शङ्खपालेन च । कर्कोटकेन च । पद्मेन च । महापद्मेन च । एवम्प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् नागराजैः ।
[9] द्रुमेण च किंनरराजेन । अनेककिंनरराजपरिवारेण । पञ्चशिखेन च गन्धर्वराजेन । अनेकगन्धर्वराजपरिवारेण । सर्वार्थसिद्धेन च विद्याधरराजेन । अनेकविद्याधरराजपरिवारेण । सुपर्णाक्षेन च गरुडराजेन । अनेकगरुडराजपरिवारेण । वैश्रवणेन च । माणिभद्रेण च । पूर्णभद्रेण च । पाञ्चिकेन च महायक्षराजेन । अनेकयक्षराजपरिवारेण ।
[10] हारीत्या च पञ्चपुत्रशतपरिवारया । सप्तभिश् च लोकमातृभिः । सप्तभिश् च महाराक्षसीभिः । सप्तभिश् च महर्षिभिः । अन्तरीक्षचरैश् च । सर्वनक्षत्रग्रहदेवतैः । दिग्भिश् च विदिग्भिश् च । पृथिव्या च सरस्वत्या च । भूतैश् च । विघ्नैश् च । विनायकैश् च । प्रेतभूतमहर्धिकैः । सर्वैश् च पर्वतराजैः । वरुणेन च लोकपालेन सर्वसमुद्रपरिवारेण । विरूढकेन च । विरूपाक्षेण च । दण्डपाणिना च । नैरृतेन च । जातवेदसा च । सप्तभिश् च महावायुभिः । ईशानेन च सपत्नीकेन अनेकगणकोटीनियुतशतसहस्रपरिवारेण । नारायणेन च सपरिवारेण । दत्तकेन च । दामकेन च । लोहकेन च । महागणपतिना च । मेघोल्केन च । विनायकेन्द्रेण । अनेकविघ्नविनायकपरिवारेण । षष्ट्या च कोटरया । चतसृभिश् च भगिनीभिः सभ्रातृकाभिः । वज्रसंकलया च । चतुःषष्टिभिश् च वज्रदूतीभिः । वज्रसेनेन च । सुबाहुना च । मूर्धटकेन च । अनेकवज्रकुलपरिवारेण । तदन्यैश् च बुद्धधर्मसंघाभिप्रसन्नैर् अपरिमिताप्रमेयासंख्येयैर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगभूतप्रेतपिशाचोन्मादापस्मारसाध्यमहल्लकौस्तारकैः । सूर्येण च देवपुत्रेण । चन्द्रेण च देवपुत्रेण । संध्यया च देवतया । उषया च देवतया । सर्वैश् च ऋतुभिः । रोदसिन्या च सार्धम् ।
[11] इत्य् अपि भगवान् सुप्रवर्तितधर्मचक्रः सुपरिनिष्ठितबुद्धकार्यः सुपरिपूर्णपुण्यज्ञानसंभारः सुपरिगृहीतसर्वज्ञतामहाबोधिपारमिताभूमिलाभो ज्वलितद्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरश् चतुरशीत्यनुव्यञ्जनविराजितसर्वाङ्गावयवशोभः सर्वसत्त्वानवलोकितमूर्धानिर्जितः सर्वमारकर्मकोविदः सर्वसत्त्वज्ञानपञ्चविधचक्षुः सर्वाकारवरोपेतसर्वज्ञज्ञानसमन्वागतः सर्वबुद्धधर्मसमन्वागतः सर्वमारपरप्रवादिप्रमथन उद्गतकीर्तिशब्दश्लोक आर्षभसिंहनादनादी समुच्छिन्नाविद्यान्धकारो ऽसंख्येयापरिमाणकल्पकोटीनियुतशतसहस्रदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायबलप्रणिधानज्ञानपारमिताप्राप्तो दुष्करचर्याविनिवर्तितो द्वात्रिंशन्महापुरुषलक्षणचतुरशीत्यनुव्यञ्जनालंकृतगात्रशोभः महावज्ररत्नपद्मगर्भसिंहासने अनेकवज्ररत्नमुक्ताकिङ्किणीजालकलकलोन्नादिते अनेकवज्ररत्नवेदिकापादपीठसुप्रतिष्ठिते अनेकवज्ररत्नमकरमुखोद्गीर्णलोहितमुक्तावलीनिबद्धगण्डूषके अनेकवज्ररत्नपद्मकर्णिकाविलग्नकर्केतनेन्द्रनीलमहानीलपुष्परागरश्मिज्वालावभासिते समन्तप्रासादिके अनेकवज्ररत्नशलाकाविभूषितोद्दण्डातपत्रकोटीनियुतशतसहस्रकृतछायापरिकरे अनेककल्पद्रुमोपशोभितविस्तारे सुमेरुमात्रे वज्ररत्नपद्मासने निषण्णः ।
काञ्चनपर्वतराज इव श्रिया ज्वलन् सूर्यसहस्रातिरेकप्रभामण्डलविराजितभूमिभागः सुपरिपूर्णचन्द्र इव सर्वलोकप्रियदर्शनो महाकल्पवृक्ष इव बुद्धधर्मसंकुसुमितो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ।
[12] अथ खलु भगवान् मूर्ध्नः संधेर् ऊर्णाकोशात् सर्वबुद्धसंदर्शनं नाम रश्मिजालं प्रमुञ्चति स्म । तेन च रश्मिजालेनायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटीकृतो ऽभूत् । यावन्ति च गङ्गानदीवालिकोपमानि बुद्धक्षेत्राणि तानि सर्वाणि तेनावभासेन स्फुटान्य् अभूवन् । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो ऽनेकसिंहासनव्यूहकूटागारविमानेषु धर्मं देशयन्ति स्म सार्धं महाश्रावकैर् बोधिसत्त्वैर् महासत्त्वैर् भिक्षुभिक्षुण्युपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः । अथ खलु भगवान् विस्तीर्णां पर्षदम् आमन्त्रयते स्म ।
[13] प्रतिसरां प्रवक्ष्यामि सर्वसत्त्वानुकम्पया ।
धारणी दुष्कृतस्यैषा सर्वदुष्टप्रमर्दनी
यस्याः श्रवणमात्रेण पापा गच्छन्ति संक्षयम् ।
सर्वसत्त्वसुखदा ह्य् एषा सर्वव्याधिप्रमोचनी
कारुण्यात् सर्वसत्त्वानां लोकनाथेन भाषिता ।
परित्राणाय सर्वेषां देहिनां दुर्गतिगामिणाम्
अनया कृतरक्षस् तु प्रविशेद् असुरालयम् ।
अडकवतीं तथा गच्छेद् राक्षसाणाम् आलयं भुवि
भूतनागपिशाचानां युद्धे भैरवदारुणे ।
अधृष्यः सर्वशत्रूणां सर्वभूतगणैर् अपि
ग्रहाः सर्वे विनश्यन्ति नामग्रहणकीर्तनैः ।
स्कन्दोन्मादा अपस्माराः पिशाचा डाकिनीस् तथा
ओजोभक्षा महातेजा हिंसन्ते मानुषीं प्रजाम् ।
ते सर्वे स्तम्भिता भोन्ति प्रतिसरस्यैव तेजसा
परचक्रा विनश्यन्ति काखोर्दा ये च दारुणाः ।
मन्त्रकर्मा न बाधन्ते मूलकर्माच् च मुच्यते
न विषं न गरं नाग्नि न शस्त्रं नैव चोदकम् ।
अशनिर् विद्युतश् चैव कालवायुर् न बाधते
सर्वशत्रून् प्रमथ्नाति विद्याराज्ञ्या हि तेजसा ।
सर्वे ऽर्थास् तस्य सिध्यन्ति जयं प्राप्नोति नित्यशः
यः कश्चिद् धारयेद् विद्यां कण्ठे बाहौ बद्धापि वा ।
तस्य सर्वाणि कार्याणि सिध्यन्ते नात्र संशयः
नित्यं रक्षन्ति देवेन्द्रा नागराजास् तथैव च ।
बोधिसत्त्वा महावीर्या बुद्धाः प्रत्येकनायकाः
श्रावकाः सर्वबुद्धानां विद्यादेव्यो महर्द्धिकाः ।
रक्षां कुर्वन्ति सततं प्रतिसराधारकस्य वै
वज्रपाणिश् च यक्षेन्द्रो राजानश् चतुरस् तथा ।
तस्य रक्षां करिष्यन्ति दिवारात्रौ न संशयः
शक्रश् च त्रिदशैः सार्धं ब्रह्मविष्णुमहेश्वराः ।
नन्दिकेशो महाकालः कार्त्तिकेयो गणेश्वरः
सर्वे मातृगणास् तस्य तथान्ये मारकायिकाः ।
ऋषयश् च महातेजा देवाश् चैव महर्द्धिकाः
नित्यं रक्षां करिष्यन्ति प्रतिसराधारकस्य वै ।
बुद्धाश् चैव महात्मानो विद्यादेव्यो महाबलाः
मामकी भृकुटी चैव तारादेवी तथाङ्कुशी ।
वज्रसंकलया श्वेता महाश्वेता तथैव च
महाकाली च दूत्यश् च वज्रदूत्यस् तथा पराः ।
सुपाशी वज्रपाशी च वज्रपाणिर् महाबला
वज्रमाला महाविद्या तथैवामृतकुण्डली ।
अपराजिता महादेवी कालकर्णी महाबला
तथा धन्या महाभागा पद्मकुण्डलिर् एव च ।
पुष्पदन्ती मणिचूडा स्वर्णकेशी च पिङ्गला
महातेजा तथा देवी धन्या च विद्युन्मालिनी ।
राक्षस्य् एकजटा चैव बुद्धा क्षितिकनायका
कापालिनी महाभागा धन्या लङ्केश्वरी तथा ।
अन्याश् च बहवो विद्याः सत्त्वानुग्रहकारिकाः
तस्य रक्षां करिष्यन्ति यस्य विद्या करे स्थिता ।
हारीती पाञ्चिकश् चैव शङ्खिनी कूटदन्तिनी
श्रीदेवी सरस्वती चैव तं रक्षन्ति सदानुगाः ।
महाप्रतिसराम् एतां या स्त्री धारयते सदा
सर्वसिद्धिर् भवेत् तस्याः पुत्रगर्भा च नित्यशः ।
सुखं गर्भाणि वर्धन्ते सुखं प्रसूयति गुर्विणी
व्याधयश् चापि नश्यन्ति सर्वपापा न संशयः ।
पुण्यवान् बलवान् नित्यं धनधान्यैः प्रवर्धते
आदेयवचनश् चापि पूजनीयो भविष्यति ।
शुचिर् धारयते यस् तु स्त्रियो वा पुरुषो ऽपि वा
स भवेत् सर्वसत्त्वानां मोक्षणार्थं समुद्यतः ।
सुखितश् च भवेन् नित्यं सर्वव्याधिविवर्जितः
राजानो वशगास् तस्य सान्तःपुरमहाजनाः ।
नित्यं च ज्वलते लक्ष्म्या पुण्यराशिर् विवर्धते
सिध्यन्ते सर्वकल्पाश् च प्रविष्टः सर्वमण्डले ।
सर्वत्र समयज्ञो ऽसौ जिनस्य वचनं यथा
दुःस्वप्ना न प्रबाधन्ते सर्वपापहरं परम् ।
किल्बिषाश् चैव नश्यन्ति प्रत्यमित्रास् तथैव च
सर्वग्रहविनाशार्थं भाषिता ज्ञानमहेश्वरैः ।
सर्वकामंददा ह्य् एषा भावयेद् यस् तु नित्यशः
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0