महाप्रतिसरामहाविद्याराज्ञी · अध्याय 12
[50] न तस्य मृत्युर् न जरा न रोगो
न चाप्रियं नापि च विप्रयोगः ।
यस्येयं विद्या सुभाषितात्मा
भविष्यति मृत्युगणेन पूजितः
यमो ऽपि तस्य वरधर्मराजा
करिष्यते पूजां सगौरवेण ।
कथयिष्यते देवपुरं हि गच्छ
क्षणिकं ममेदं नरकं करिष्यसि
ततो विमानैश् च बहुप्रकारैर्
महर्द्धिको याति सुरालयं शुभम् ।
एवं ह्य् असौ किंनरयक्षराक्षसैः
संपूजितस् तत्र सदा भविष्यति
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0