महाप्रतिसरामहाविद्याराज्ञी · अध्याय 11
सिध्यन्त्य् अयत्नतस् तानि विद्यातो नात्र संशयः ।
[49] इदानीं सम्प्रवक्ष्यामि आतुराणां चिकित्सनम् ।
चतुरश्रं मण्डलं कुर्यान् मृद्गोमयसमन्वितम्
पञ्चरङ्गिकचूर्णेन चित्रयेन् मण्डलं शुभम् ।
चतुरः पूर्णकुम्भांश् च स्थापयेद् विधिना बुधः
पुष्पाण्य् अवकिरेत् तत्र धूपयेद् धूपम् उत्तमम् ।
बलिकर्म च कुर्वीत महासाहस्रप्रमर्दनम्
पूर्ववद् गन्धपुष्पांश् च दद्याच् चात्र विधानवित् ।
चतस्रस् तीरिकाः स्थाप्याः सर्वाश् च पट्टबद्धिकाः
स्नापयित्वातुरं पश्चाच् छुचिवस्त्रसमावृतम् ।
शुभगन्धानुलिप्ताङ्गं प्रवेशयेन् मध्यमण्डलम्
पूर्वामुखं निषाद्यैनं विद्याम् एताम् उदाहरेत् ।
सप्तशो जप्तया चास्य रक्षां कुर्याद् विचक्षणः
आतुरस्य ततो ऽर्थाय वारांश् चाप्य् एकविंशति ।
उदाहरेद् इमां विद्यां सर्वरोगोपशान्तये
भूयश् च सप्त वारान् वै बलिकुम्भसुमन्त्रितम् ।
पश्चान् निवेदयेन् मन्त्री बलिपुष्पान् यथाविधि
इत्य् एवं दक्षिणे पार्श्वे क्षिपेत सप्त एव तु ।
पश्चिमायां च सप्तैव उत्तरायां तथा दिशि
अध ऊर्ध्वं तु सप्तैव कृता रक्षा भविष्यति ।
एवं कृते द्विजश्रेष्ठ सर्वदुःखात् प्रमुच्यते
एषा रक्षा समाख्याता शाक्यसिंहेन तायिना ।
नास्त्य् अस्याः परा काचिद् रक्षाविद्या त्रिधातुके
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0