महाप्रतिसरामहाविद्याराज्ञी · अध्याय 13
[51] वज्रपाणिश् च यक्षेन्द्र इन्द्रश् चैव शचीपतिः ।
हारीती पाञ्चिकश् चैव लोकपाला महर्द्धिकाः
चन्द्रसूर्यौ सनक्षत्रौ ये ग्रहाः परमदारुणाः ।
ते च सर्वे महानागा देवता ऋषयस् तथा
असुरा गरुडा गन्धर्वाः किंनराश् च महोरगाः ।
नित्यानुबद्धा रक्षार्थं यस्य विद्या महाबला
लिखितां धारयेत् प्राज्ञो बाहौ बद्ध्वा महर्द्धिकाम् ।
महतीं लभते पूजां संपदं चापि नित्यशः
मूल पाठ: Mahāpratisarāmahāvidyārājñī · Edition: Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636). · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0