भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 9

9.1

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

9.2

आगमयानन्द येन नादि(क्)आ ॥

9.3

एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥

9.4

अथ भगवान् वृजिषु जनपदेषु चर्याञ् चरन् ना(दिकाम् अनुप्राप्तो नादिकायां विहरति कुञ्जिकावसथे ॥)

9.5

(तेन समयेन नादिकाया महतो जनकायस्य मार्य् उत्थिताभूत् ॥ तथा हि कर्कटक उपासकः कालगतः ॥)

9.6

(निकट उपासकः कडङ्गरः कात्यर्षभश् चारुर् उपचारुर् अरिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरो ऽपि कालगतः ॥)

9.7

(अथ संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय नादिकां पिण्डाय प्राविक्षन् ॥)

9.8

(अश्रौषुः संबहुला भिक्षवो नादिकां पिण्डाय चरन्तः ॥ अस्यां नादिकायां महाञ् जनकायो मृतः ॥ तथा हि कर्कटक उपासकः कालगतो निकटो कडङ्गरः कात्यर्षभश् चारुर् उपचारुर् अरिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरः कालगतः ॥)

9.9

(श्रुत्वा च पुनर् नादिकां पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपाताः प्रतिक्रान्ताः ॥ पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य येन भगवांस् तेनोपजग्मुः ॥ उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥)

9.10

(एकान्ते निषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन् ॥)

9.11

(इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय) नादिकां पिण्डाय प्राविशाम ॥ अश्रौष्म (वयम्) अस्यां नादिकायां क(र्कटक उपासकः कालगतः) पूर्वव(द् यावद् यशोदत्तो यशोत्तरः कालगतः) तेषां भदन्त का गतिः कोपपत्तिः को ऽभिसंपरायः ॥

9.12

कर्कटक उप्(आसकः पञ्चानाम् अवरभागीया)नां सं(योजनानां प्रहाणाद् औपपादुकास् तत्र परिनिर्वाय्य् अनागाम्य् अनावृत्तिधर्मा पु)नर् इमं लोकं ॥

9.13

निकटः कडङ्गरः पूर्ववद् यावद् यशोत्तर उपासकः पञ्(चानाम् अवरभागीयानां पूर्ववद्) यावत् पुनर् इमं लो(कम् ॥)

9.14

(सन्ति भिक्षवो नादिका)याम् अर्धतृतीयान्य् उपासकशतानि कालगतानि यानि पञ्चानाम् अ(वरभागीयानां संयोजनान्)आं प्रहाणाद् औपपादुकास् तत्र परिनिर्वायिणो ऽनागामिनो ऽनावृत्तिधर्माणः पुनर् इमं लोकम् ॥

9.15

साति(रेकाणि भिक्षवो नादिकायां त्र्युपास)कशतानि अभ्यतीतानि कालगतानि यानि त्रयाणां संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वा(त् कालं कृत्वा सकृदागामिनः सकृद् इमं लोकम् आगम्य दुःखस्यान्तं क)रिष्यन्ति ॥

9.16

सातिरेकाण्य् अस्यां नादिकायां पञ्चोपासकशतान्य् अभ्यतीतान्(इ) कालगतानि यानि (त्रयाणां संयोजनानां प्रहाणाच् छ्रोतआपन्ना अविनिपा)तधर्माणो नियतं संबोधिपरायणाः सप्तकृत्वःपरमाः सप्(तकृत्वो दे)वांश् च मनुष्यां(श् च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति ॥)

9.17

(कालगताः का)लगता इति यूयं भिक्षवस् तथागतं प्रक्ष्यथ विहेठयिष्यथ तथागतं (न पुन)र् अनेन तथा(गत्). + + + + + + + + (जातस्यावश्यं कालक्र्)इया ॥

9.18

किम् अत्र्(आ)श्चर्यम् ॥ उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवेयं धर्मता धर्म(स्थितये धातूंस् तांस् तथागतः) स्वयम् अभिज्ञायाभिसं(बुद्ध्या)ख्याति प्रज्ञ्(आ)पयति प्र(स्थ्)आपय्(अति विभ)जति विवरत्य् उत्तानीक(रोति दे)शयति सं(प्रकाशयति ॥)

9.19

(यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते यदुताविद्याप्रत्ययाः संस्कारा यावत् समुदयो निरोध)श् च भवति ॥

9.21

अपि (धर्मादर्शं नाम धर्म)पर्यायं देशयिष्ये ॥ (तं शृण्)उत स्(आ)धु च सु(ष्ठु) च मनसि कुरुत भाषिष्ये ॥ धर्माद(र्)श्(ओ धर्मप)र्यायः (कतमः ॥ बुद्धे धर्मे संघे ऽवेत्यप्रसा)देन समन्वा(गतो भवत्य् आ)र्यकान्तैः शीलैः समन्वागतो भवति ॥ अयम् उच्यते धर्मादर्शो धर्मपर्यायः ॥ धर्मादर्श्(ओ धर्मपर्याय इ)ति मे यद् उक्त्(अं युष्माकं भिक्षवस् तद् उक्तम् ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc