भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 8

8.1

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

8.2

आगम्य्(आनन्द येन कु)ट्(इ)ग्रामकः ॥

8.3

एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥

8.4

अथ भगवान् येन (कु)टि(ग्रा)मकस् तेन चर्यां प्रक्रान्तः ॥ अनुपूर्वेण चर्याञ् (चरङ् कुटिग्रामकम् अ)नुप्राप्तः कुटिग्रामके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने ॥

8.5

तत्र भगवा(न् भिक्षून्) आमन्त्रयते ॥

8.6

इतीमानि भिक्षवः शीलान्य् अयं स्(अमाधिर् इयं प्रज्ञा ॥) शीलपरिभावितः समाधिश् चिरस्थितिको भवति ॥ प्रज्ञापरिभावितं चित्तं सम्यग् एव विम्(उ)च्यते रागद्वेषमोहेभ्यः ॥

8.7

एवं सम्यक्सुविमुक्तचित्त आर्यश्रावकः सम्यग् (एव) प्रज्(आनाति ॥) क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc