महापरिनिर्वाणसूत्र · अध्याय 4
तत्र भ(गवान् आयुष्मन्तम् आनन्)दम् (आ)मन्त्रयते ॥ आगमयानन्द येन पाटलिग्रामकः ॥
एवं भदन्तेत्य् आयुष्मा(न् आ)नन्(द्)ओ भगवतः प्रत्यश्रौषीत् ॥ अथ भ(गवा)न् (मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकम् अनुप्राप्तः पाटलिग्रामके विहरति पाटलके चैत्ये ॥
अश्रौ(षु)ः पाट(लिग्रामी)य्(अक्)आ ब्राह्मणगृहपत(य्)ओ (भगवान् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकम् अनुप्राप्तः पाटलिग्रामके विहरति पा(ट)लके चैत्ये ॥
(श्रुत्वा च पुनः सं)घात् संघं पूगात् पूगं सं(गम्य समागम्य पाटलिग्रामकान् निष्क्रम्य येन) भगवांस् तेनोपजग्मुर् उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्(ते न्यषीदन् ॥)
एकान्त्(अनि)षण्णान् पाटलिग्रामीय(कान् ब्राह्मणगृहपतीन् भगवान् इ)दम् अ(वो)चत् ॥
पञ्चेमे ब्राह्मणगृहपतय आदीनवाः प्रमादे ॥ कतमे पञ्च ॥
इह ब्र्(आह्म)णग्(ऋह)पतयः प्रमत्तः प्रमाद्(आधिकरणहेतोर्) महतीं भोगज्यानिं निगच्छति ॥ यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणह्(एतो)र् महती(ं) भोगज्यानिं निगच्छति ॥ अयं प्रथ्(अम) आद्(ईनवः प्रमादे ॥)
पुनर् अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति यदि वा क्षत्रियप(र्)इ(षदं यदि वा ब्राह्)मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्र मद्गुर् उपसंक्रामत्य् अनुदग्रो ऽविशारदः ॥ यद् ब्राह्मणगृहपत(यः) प्(र)मत्तः प्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति पूर्ववद् यावद् अविशारदः ॥ अयं द्वितीय आदीनवः प्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर् दिग्विदिक्षु (पा)पको ऽव(र्णो ऽकीर्तिश)ब्दश्ल्(ओ)को ऽभ्युद्गच्छति ॥ यद् ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर् दिग्विदिक्षु पापको ऽवर्णो ऽकीर्तिशब्दश्लोको ऽभ्य्(उद्)ग्(अच्)छति ॥ अयं तृतीय आदीनवः प्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर् विप्रतिसारी कालं करोति ॥ यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर् विप्रतिसारी कालं करोति ॥ अयं चतुर्थ आदीनवः प्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान् नरकेषूपपद्यते ॥ यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान् नरकेषूपपद्यते ॥ अयं पञ्चम आदीनवः प्रमादे ॥
पञ्च त्व् इमे ब्राह्मणगृहपतय आनुशंसा अप्रमादे ॥ कतमे पञ्च ॥
इह ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न महतीं भोगज्यानिं निगच्छति ॥ यद् ब्र्(आ)ह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न महती(ं) भोगज्यानिं निगच्छति ॥ अयं प्रथम आनुश्(अं)सो ऽप्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति यदि वा क्षत्रियपरिषदं यदि वा ब्राह्मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्रामद्गुर् उपसंक्रामत्य् उदग्रो विशारदः ॥ यद् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति पूर्ववद् यावद् विशारदः ॥ अयं द्वितीय आनुशंसो ऽप्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयो ऽप्रमत्तस्याप्रमादाधिकरणहेतोर् दिग्विदिक्षूदारः कल्याणः कीर्तिशब्दश्लोको ऽभ्युद्गच्छति ॥ यद् ब्राह्मणगृहपतयो ऽप्रमत्तस्याप्रमादाधिकरणहेतोर् दिग्विदिक्षूदारः कल्याणः कीर्तिशब्दश्लोको ऽभ्युद्गच्छति ॥ अयं तृतीय आनुशंसो ऽप्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न विप्रतिसारी कालं करोति ॥ यद् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न विप्रतिसारी कालं करोति ॥ अयं चतुर्थ आनुशंसो ऽप्रमादे ॥
पुनर् अपरं ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते ॥ यद् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोः क्(आयस्य) भेदात् सुगतौ स्व्(अ)र्गलोके देवेषूपपद्यते ॥ अयं पञ्चम आनुशंसो ऽप्रमादे ॥
(अथ भगवान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥ अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत् ॥)
अथ पाटलिग्रामीयका ब्राह्मणगृहपतय उत्थायासनाद् एकांसम् उत्तर्(आस)ङ्गं कृत्वा ये(न) भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचन् ॥ अधिवासयत्व् अस्माकं भगवान् आवसथे रात्रिंवासाय ॥ अधिवासयति भगवान् पाटलिग्रामीयक्(आ)नां ब्राह्मणगृहपतीनां तूष्णींभावेन ॥
अथ पाटलिग्रामीयका ब्राह्मणगृहपतयो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्त्(आः) ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0