महापरिनिर्वाणसूत्र · अध्याय 3
(तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥ आगमयानन्द येन पाटलिग्रामकः ॥)
(एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥ अथ भगवान् सार्धं भिक्षुसंघेन मगधेषु जनपदेषु चर्यां चरन् अन्तरा च पाटलिग्रामकम् अन्तरा च राजगृहं राजागारके रात्रीं विहरति वेणुयष्टिकाम् उपनिश्रित्य ॥)
(अथ भगवान् भिक्षून् आमन्त्रयते स्म ॥ चतुर्णां भिक्षव आर्यसत्यानाम् अज्ञानाद् अदर्शनाद् अनवबोधाद् अप्रतिवेधाद् इदं दीर्घम् अध्वानं संधावितं संसृतं मया युष्माभिर् एव च ॥ कतमेषां चतुर्णाम् ॥)
(दुःखस्य दुःखसमुदयस्य दुःखनिरोधस्य दुःखनिरोधगामिन्याः प्रतिपदो ऽज्ञानाद् अदर्शनाद् अनवबोधाद् अप्रतिवेधाद् इदं दीर्घम् अध्वानं संधावितं संसृतं मया युष्मा)भिर् एव च ॥
तद् इदं दुःख(म् आर्यसत्यम् अनुविद्धं प्)र्(अति)विद्धम् उच्छ्(इ)न्ना भवनेत्री विक्षीणो जातिसंसारो नास्तीदानी(ं) पुनर्भवः ॥
दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रति(पद् आर्यसत्यम् अनुविद्धं) प्(र)त्(इ)विद्धम् उच्छिन्(न्)आ भवनेत्री विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भवः ॥
नुर् इम् तिब्.
चतुर्णाम् आर्यसत्यानां
यथाभूतम् अदर्शनात् ॥
संसृतं (द्)ईर्घ(म् अध्वानं
मया यु)ष्माभिर् एव च । 1
तानि सत्यानि दृष्टानि
भवनेत्री समुद्धृता ॥
विक्षीणो जातिसंसारो
नास्तीदानीं पुनर्भवः । 2
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0