महापरिनिर्वाणसूत्र · अध्याय 5
अथ भगवान् अचिरप्रक्रान्तान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् विदित्वा बहिर् आवसथस्य पादौ प्रक्षाल्यावसथं प्रविश्य न्यषीदत् ॥
(तेन समयेन वर्षाकारो ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम् ॥ तदा पाटलिग्रामके महाशक्यमहाशक्या देवता वस्तुनि प्रतिगृह्णन्ति ॥)
पर्यङ्कम् आभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्याद्राक्षीद् भगवान् आवसथे दिवाविहारोपगतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण पाटलिग्रामके महाशक्यमहाशक्या देवता वस्तूनि प्रतिगृह्णन्ति ॥ दृष्ट्वा च पुनः सायाह्ने प्रतिसंलयनाद् व्युत्थायावसथाद् अवतीर्यावसथप्रच्छायायां प्(उ)रस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥
निषद्य भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥
क आनन्दोद्युक्तः पाटलिग्रामकं न्(अगर)ं मापयितुम् ॥
वर्षाकारो भदन्त ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम् ॥
साधु साध्व् (आनन्द + + वर्षा)कारो ब्राह्मणमगधमहामात्रो यथा (देवैस् त्रायस्त्रिंशैः सार्धम्) + + + + + + + ॥
(अत्राहम् आन)न्दाद्राक्षम् आवसथे दिवाविहारोपगत्(अः पाटलिग्रामके महाशक्यमहाश)क्या देवता वस्(तू)नि प्(रत्)इ(गृह्णन्ति ॥)
(यस्मिन्न् आनन्द प्रदेशे महाशक्यमहाशक्या दे)वता वस्तूनि प्रतिगृह्णन्ति म्(अहाशक्यानां मनुष्याणां तस्मिन् प्रदेशे) च्(इ)त्तं क्रामति यदुत वा(साय ॥)
यस्मिन् प्रदेशे मध्या देवता व्(अस्तू)नि प्रतिगृह्णन्ति मध्यानां मनुष्याणां तस्मिन् प्रदेशे चित्तं क्रामति यदुत वासाय ॥
यस्मि(न् प्र)द्(ए)शे नीचा देवता वस्तूनि प्रतिगृह्णन्ति नीचानां मनुष्याणां तस्(मिन्) प्रदेशे चित्तं क्रामति यदुत वासाय ॥
अस्मिन्न् आनन्द पाटलिग्रामके महाशक्यमहा(श)क्या देवता वस्तूनि प्रतिगृह्णन्ति ॥ अस्मिन् प्रदेशे महाशक्यानां मनुष्याणां चित्तं क्रमिष्यति यदुत वासाय ॥
यावद् एवानन्दार्या आवासा आ(र्या) व्यवहारा आर्या वाणिर् यथैतद् अग्रं भविष्यति पुटभ्(एदना)नां यदुत पाटलिपुत्रं नगरं ॥
तस्य त्रयो ऽन्तराया वेदितव्या अग्नितो ऽप्य् उदकतो (ऽप्य् अ)भ्यन्तरतो ऽपि मिथोभेदात् ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0