भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 36

36.1

(अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥)

36.2

(कथं वयं भदन्त परिनिर्वृते भगवति भगवतः शरीरपूजायाम् औत्सुक्यम् आपद्येमहि ॥)

36.3

(अल्पोत्सुकस् त्वम् आनन्द भव शरीरपूजायाः ॥ प्रसन्ना ब्राह्मणगृहपतय एतद् आपादयिष्यन्ति ॥)

36.4

(कथं भदन्त ब्राह्मणगृहपतय एतद् आपादयिष्यन्ति ॥)

36.5

(तद्याथानन्द राज्ञश् चक्रवर्तिनो यथा ॥)

36.6

(कथं) भदन्त राज्ञश् चक्रवर्तिन(ः ॥)

36.7

(राज्ञश् चक्रवर्तिनः कायो विहतैः कर्पासैर् वेष्ट्यते ॥ विहतैः कर्पासैर् वेष्टयित्वा पञ्चभिर् युगशतैर् वेष्ट्यते ॥ पञ्चभिर् युगश)त्(ऐ)र् वेष्टयित्वा तैलपूर्णाया(म् अयोद्रोण्यां प्रक्षिप्यान्ययायोद्रोण्या प्रच्छाद्य गन्धकाष्ठैश् चितां चित्वा ध्याप्यते गोवता क्षीरेण निर्वाप्यते ॥) तान्य् अस्थीनि सौवर्णे कुम्भे प्र(क्षिप्य सौवर्ण्यां शिविकायाम् आरोप्य चतुर्महापथे शरीरस्तूपः प्रतिष्ठाप्यते च्छत्रध्वजपताका आरोप्यन्ते महश् च) प्र्(अ)स्थाप्यते गन्धैर् माल्यैः पुष्पै(र् धूपैर् वाद्यैः सत्क्रियते गुरुक्रियते मान्यते पूज्यते ॥)

36.8

(एवम् एवानन्द राज्ञश् चक्रवर्तिनः ॥ अत उत्तरे तथागतस्यार्हतः सम्यक्संबुद्धस्य ॥)
36ब् (स्त्.इइइ), ह्स्.101.5-104.5 (स् 360, ब्ल्. 225-226)
ह्स्.101.5: ॥। + गवां कुशिनगर्यां विह
ह्स्.101.6: ॥। + + + प्(अर्)इ(नि)र्वृतस्य मे
ह्स्.102.1: ॥। + + + + + .य्.+ + श्वर्या
ह्स्.102.2: ॥। + + न्. क्षेत्रकुशला स प्र
ह्स्.102.3: ॥। + रबहुला भविष्यंति प्र
ह्स्.102.4: ॥। काश् च परिषत्सु लाभसत्का
ह्स्.102.5: ॥। (अ)सुरगरुडकिन्नरमहोरगा
ह्स्.102.6: ॥। + ष्यंति सत्कृत्वा गुरुकृत्वा
ह्स्.103.1: + + + + + + + + + + + + + + रिष्यंति श्रावकाश् च लाभसत्कारबहुला भविष्यंति ॥ षष्ठमवर्षशतपरिनिर्वृतस्य मे आनन्द + + सार्(अ)क्(अं शासनं)
ह्स्.103.2: + + + + + + + + + (कलह)जाता भण्डनजाता विगृहीता विवादम् आपन्ना भविष्यंति ॥ सप्तमवर्षशतपरिनिर्वृतस्य मे आनन्द प्रतिपत्तिसारक(ं) शा(सनं भविष्यति)
ह्स्.103.3: + + + + + + + + + + (प)ण्डिता भविष्यंति ते च अभिधर्म अवलोकयिष्यंति अन्यतीर्थिकानां निग्रहाय ॥ अष्टमवर्षशतपरिनिर्वृत
ह्स्.103.4: (स्य मे आनन्द + + + + सार)कं शासनं भविष्यति श्रावकाश् चान्योन्याघातचित्ता भविष्यंति सखिलचित्ता अप्रसन्नचित्ता मुष्टस्मृतय अमै(त्री)
ह्स्.103.5: + + + + + + + + + + + विष्यंति ॥ नवमवर्षशतपरिनिर्वृतस्य मे आनन्द कृषिसारकं शासनं भविष्यति श्रावकाश् च कृषिकर्मान्तानि करिष्यंति ना
ह्स्.103.6: + + + + + + + + + + + + .य्. + तेन च जीविकां कल्पयिष्यंति क्षिप्रतराश् च भविष्यंति यद् उत आमिषप्रतिसंयुक्ताः दशमवर्षशतपरिनिर्वृत
ह्स्.104.1: + + + + + + + + + + + + + ष्यति य इमे सूत्रान्ता गंभीर्(आ) गं(भीरार्था) लोकोत्तरा बुद्धभाषिताः शुन्यताशुन्यताप्रतिसंयुक्ता तद्यथा सूत्रं गेयं
ह्स्.104.2: + + + + + + + + + + + + इतिवृत्तकजातकवैपुल्याद्भुतधर्मपदेशाः रिञ्चित्वान्यकथारामानुयोगम् अनुयुक्ता विहरिष्यंति तद्यथा राजक
ह्स्.104.3: + + + + + + (युद्धकथा)याम् अन्नकथाया(ं) पानकथायां वस्त्रकथायां वीथीकथायां वैश्यकथायां लोकाख्यानकथायां कुर्माख्यानकथा
ह्स्.104.4: + + + + + + + + + (जन)पदमहामात्राख्यानकथायाम् इत्य् एवंरूपासु कथासु रात्रिन्दिवंश् चित्तम् अभिरमिस्यंति रिञ्चिष्यंति प्रतिसंलयनं
ह्स्.104.5: + + + + + + + + + + + (अनुयो)गम् अनुयुक्तं तस्मात् तर्ह्य् आनन्द एवं शिक्षितव्यम् ।

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc