महापरिनिर्वाणसूत्र · अध्याय 35
तेन खलु सम(य्)ए(ना)युष्मान् उपमानो भग(वतः पुरस्तात् स्थितो ऽभूद् भगवन्तं वीजयन् ॥)
(अथ भगवान् आयुष्मन्तम् उपमानम् आमन्त्रयते ॥ भि)क्(ष्)ओ मा म्(ए) पुरस्तात् तिष्ठ ॥
अथायुष्मान् (आनन्दो भग)वन्तम् इदम् अवोचत् ॥
(विंशतिं वर्षाणि समधिकानि भदन्त मया भगवान् उपस्थितः ॥ नाश्रौषं पूर्वे एवंविधां परुषां वाचं यथायुष्मत उपमानस्यावसादे ॥)
(तथा ह्य् अनेककल्पशतायुषो देवता अवध्यायन्ति क्षिपन्ति विवाचयन्ति ॥)
(कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते तद्यथोदुंबरे पुष्पम् ॥)
(तस्य चाद्य भगवतो रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ पर्निर्वाणं भविष्यति ॥ अयं च महाशक्यमहाशक्यो भिक्षुर् भगवतः पुरस्तात् स्थितो ऽस्माभिः पृष्ठेन दृष्टः ॥ तेन न शक्नुमो भगवतो दर्शनाय पूजाधिकारिकायै समुपक्रमितुम् ॥)
(कियत भदन्त भगवान् देवताः सञ्जानाति ॥)
(यावद् आनन्द कुशिनगरी यावन् नदी हिरण्यवती यावद् यमकशालवनं यावन् मल्लानां मकुटबन्धनं चैत्यम् अत्रान्तरा द्वादश योजनानि सामन्तकेन नास्ति किञ्चिन् महाशक्यमहाशक्याभिर् देवताभिर् अस्फुटं स्फरणीयम् अन्ततो दण्डकोटिविष्टंभनमात्रम् अपि ॥)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0