महापरिनिर्वाणसूत्र · अध्याय 34
भूतपूर्वम् आनन्द कुशिनगरी (कुश्)आवती नाम राजधानी बभूव ॥ ऋद्धा च स्फीता च क्षेमा च स्(उभिक्षा चाकीर्णबहुजनमनुष्या च द्वादश यो)जनान्य् आयामेन सप्तयोजनानि विस्तारेण ॥
कुशावत्(य्) आनन्द राजधानी सप्तभिः प्राकारैः परिक्षिप्ता बभूव चतु(र्)व्(इ)ध्(ऐ)ः प्राकार्(ऐ)ः स्(औ)व(र्)ण्(ऐ) राजत्(ऐ)र् व्(ऐडूर्यमयैः) स्फटिकमयैः ॥
कुशावत्यां राजधान्यां चतुर्विधानि द्वाराणि मापितान्य् अभूवन् सौवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥
तेषु खलु (द्वारेष्)उ (चतु)र्विधा इष्(टि)का मापिता अभूवन् सौवर्णा राजता वैडूर्यमयाः स्फटिकमयाः सप्तपौरुषा अर्धचतुर्थपौरुषाश् च निखाता दृढाः स्थिराः सारवत्यो ऽचला असंप्रवेधिन्यः ॥
कुशावती राजधानी सप्तभिः परिखाभिः परिक्षिप्ता बभूव ॥ ताः खलु परिखाश् चतुर्विधाभिर् इष्टिकाभिश् चिता अभूवन् सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥
कुशावती राजधानी सप्तभिस् तालपङ्क्तिभिः परिक्षिप्ता बभूव चतुर्विधैस् तालैः सौवर्णै राजतैर् वैडूर्यमयैः स्फटिकमयैः ॥
सौवर्णस्य तालस्य राजतं पत्रं पुष्पं फलं मापितम् अभूत् ॥ राजतस्य सौवर्णं वैडूर्यमयस्य स्फटिक(मयं स्फटिकम)यस्य (व्)ऐडूर्यमयं पत्रं पुष्पं फलं मापितम् अभूत् ॥
तेषां खलु तालानां वायुना प्रे(रित्)आनाम् अयम् एवंरूपो मनोज्ञः शब्दो निश्चरति (यथा पञ्चाङ्गिकस्य) तूर्यस्य कुशलेन पुरुषेण सम्यक्सुप्रवादितस्य ॥
तासु खलु तालान्तरिकासु पुष्क्(अ)रिण्य्(ओ) मापिता अभूवन् ताः खलु पुष्करिण्(यश् चतुर्विधाभिर् इष्टिका)भ्(इ)श् च्(इ)ता अभूवन् सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥
तासु खलु पुष्करिणीषु चतुर्विधानि सोपानान्(इ मापितान्य् अभू)व(न्) सौवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥
ताः खलु पुष्करिण्यश् च्(अतुर्वि)धाभिर् वेदिकाभिः परिक्षिप्ता अभूवन् सौवर्ण्(ईभी रा)जतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥ सौवर्ण्या वेदिकाया राजतं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥ राजत्याः सौवर्णं स्फटिकम्(अय्या वैडूर्यम)यं वैडूर्यमय्याः स्फटिकमयं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥
तासु खलु पुष्करिणीषु विविधानि जलजानि माल्यानि रोपिता(न्य् अभ्)ऊवन् तद्यथोत्पलं पद्मं कुमुदं पुण्डरीकं सौगन्धिकं मधुगन्धिकं सर्वर्तुकं सर्वकालिकम् अनावृतं सर्वजनस्य ॥
तासां ख(लु) प्(उष्)करिणीनां तीरेषु विविधानि स्थलजानि माल्यानि रोपितान्य् अभूवन् तद्यथातिमुक्तकश् चम्पकः पाटला वार्षिका मालिका नवमालिका सुमना यू(थिका धानुष्क्)आरी सर्वर्तुकं सर्वकालिकम् अनावृतं सर्वजनस्य ॥
तासां खलु पुष्करिणीनां तीरेषु राज्ञा महासुदर्शनेन कन्याः स्थापिता (अभूवन्) या अन्नम् अन्नार्थिभ्यः प्रयच्छन्ति पानं पानार्थिभ्यो वस्त्रं वस्त्रार्थिभ्यः ॥ मालागन्धविलेपनानि मालागन्धविलेपनार्थिभ्यः प्रयच्छन्ति ॥
ये खल्(उ) कुशावत्यां राजधान्यां धूर्ता वा मत्त्(आ वा शौण्डा वा क्रीडितुकामा रमि)तुकामाः परिचारयितुकामा भवन्ति ते तासु तालान्तरिकासु क्रीडन्ति रमन्ति परिचार्(अयन्ति ॥)
तेनैव तालवृन्तशब्देन कुशावत्(य् आनन्द राजधानी द्वादशेन) विन्(आ)दिता बभूव तद्यथा हस्तिशब्देनाश्वशब्देन रथशब्देन पत्तिशब्देन शंख(शब्देन) पटहशब्देन भेरीशब्देन मृ(दङ्गशब्देन वाद्यशब्देन गीतशब्देन वंश)शब्देन ॥ दानानि ददत ॥ पुण्यानि कुरुत ॥ उप(व्)आसम् उपवसत ॥ शीलं समादाय वर्तध्व(ं) शब्देन ॥
कुश्(आ)वत्(य्)आम् आनन्द राजध्(आ)न्य्(आं राजा महा)सुदर्शनो नाम( बभू)व्(अ) सप्तभी रत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभिर् ऋद्धिभिः ॥
कतमैः सप्तभिः ॥ तद्यथा चक्ररत्नेन हस्तिरत्नेनाश्व(रत्नेन मणिरत्ने)न्(अ) स्त्रीरत्नेन गृहपतिरत्नेन परिणायकरत्नेन सप्तमेन ॥
कतमाभिश् चतसृभिर् मानुषिकाभिर् ऋद्धिभिः ॥ राजा महा(सुदर्शनो दीर्घायुष्को ऽ)भूच् चिरस्थितिकः ॥ स चतुरशीतिवर्षसहस्राणि कुमारक्रीडायां क्रीडितवान् ॥ चतुरशीतिवर्षसहस्राणि यौवरा(ज्यं कारितवान् ॥) चतुरशीतिवर्षसहस्राणि महाराज्यं कारितवान् ॥ चतुरशीतिवर्षसहस्राणि राजर्षिर् ब्रह्मचर्यम् अचार्षीत् ॥
यद् आनन्द राजा महासुद(र्)श्(अनो दीर्घायुष्को ऽभूच् चिरस्थितिकश् चतु)रशीतिवर्षसहस्राणि कुमारकक्रीडायां क्रीडितवान् पूर्ववत् ॥ इयं राज्ञो महासुदर्शनस्यर्द्धिर् इत्य् (उ)च्यते ॥
पुनर् अ(परं राजा महासुदर्शनो ऽ)भिरूपो ऽभूद् दर्शनीयः प्रासादिको ऽतिक्रान्तश् च मानुष्यकं वर्णम् असंप्राप्तश् च दिव्यं वर्णम् ॥
यद् आनन्द राजा महासुद(र्)शन्(ओ ऽभिरूपो ऽभूद् दर्शनीयः पूर्ववत् ॥ इयं रा)ज्ञो महासुदर्शनस्यर्द्धिर् इत्य् उच्यते ॥
पुनर् अपरं राजा महासुदर्शनो ऽल्पाबाधो ऽभूद् अरोगजातीयः समव्(इपचनया ग्रहण्या समन्वागतो नात्यु)ष्णया नातिशीतयाव्याबाधयर्तुसुखया ययास्याशितपीतखादितास्वादितं सम्यक् सुखेन परिपाकं (गतम् अभूत् ॥)
(यद् आनन्द राजा महा)सुदर्शनो ऽल्पाबाधो ऽभूद् अरोगजातीयः पूर्ववत् ॥ इयं राज्ञो महासुदर्शनस्यर्द्धिर् इत्य् उच्यते ॥
पुनर् अपरं राजा महासुद(र्)श्(अनः सर्व)ज्(आ)न्(अ)पदानां प्रियश् चाभून् मनापश् च तद्यथा पुत्राणां पिता ॥ राज्ञो ऽपि महासुदर्शनस्य नैगमज्(आ)नपदाः प्रिय्(आ)श् चा(भूवन् मनापाश् च तद्यथा पि)तुः पुत्राः ॥
एको ऽयं समयो राजा महासुदर्शन उद्यानभूमिं निर्यान् सारथिम् आमन्त्रयते ॥ मन्द(ं) मन्दं तावत् सारथे रथं (वर्तय यथाहं नैगमजानपदांश् चिरं पश्येयं ॥ नैगमजान)पदा अपि तत्र सारथिम् आमन्त्रयन्ते ॥ (मन्दं मन्दं तावत् सारथे रथं वर्तय यथा वयं देवं चिरं पश्येम ॥)
(यद् आनन्द राजा महासुदर्शनः सर्वजानपदानां प्रियश् चाभून्) मनापश् च पूर्ववत् ॥ इ(यं राज्ञो महासुदर्शनस्यर्द्धिर् इत्य् उच्यते ॥)
(अथ नैगम)जानपदाः प्रभूतं सुवर्णम् आदाय मणि(रत्नं च कंबलरत्नं च येन रा)जा महासुदर्शनस् ते(नोपजग्मुः ॥ उपेत्य राजानं महासुदर्शनम् इदम् अवोचन् ॥)
(इदं देवाय प्रभू)तं सुवर्णम् आनीतं मणिरत्नं च कंबलरत्नं च ॥ तद् देवः प्र(तिगृह्णात्व् अनुकम्पाम् उपादाय ॥)
(मद्राज्ये ऽपि यद् एवं धनजातम् इत्य् उक्त्वा निरवेक्षास्योत्पन्ना प्रतिग्रहीतुं नाधिवासयति ॥)
(नै)गमजानपदा राजानं महा(सुदर्शनम् इदम् अवोचन् ॥)
(इदं देवाय प्रभूतं सुवर्णम् आनीतं मणिरत्नं च कंबलरत्नं च ॥ तद् देवः प्रतिगृह्णात्व् अनु)कम्पाम् उपादाय ॥
द्विर् अपि त्रिर् अ(पि राजा महासुदर्शनो नैगमजानपदान् आमन्त्रयते ॥)
(मद्राज्ये ऽपि य)द् (ए)व(ं) धनजात(म्) इत्य् उक्त्वा निरव्(ए)क्षा(स्य्)ओत्(पन्ना प्रतिग्रहीतुं ना)धिवासयति ॥
अथ नैगमज्(आनपदानाम् एतद् अभवत् ॥)
(नास्माकं प्रतिरूपं स्याद् यद् इदं देवाय प्रभूतं सुवर्णम् आनीय मणिरत्नं च कंबलरत्नं च) तद् वयम् आदाय स्वकस्वक(निवेशनं गमिष्यामः ॥ यन्नु वयं राज्ञो महासुदर्शनस्य पुरतो महान्तं सुवर्णस्य च राजत)स्य (च रा)शिम् आकीर्य मणिरत्नं कंबलरत्नं चैकान्त उपनिक्षिप्य्(ऐ)त्(अद्) दे(वस्य धनजातम् इत्य् उपेक्ष्य प्रक्रामेम ॥)
(इति विदित्वा राज्ञो महासुदर्शनस्य पु)रतो महान्तं सुवर्ण(स्य च राजतस्य च राशिम् आकीर्य मणिरत्नं कंबलरत्नं चैकान्त उपनिक्षिप्यैतद् देवस्य धनजातम् इत्य् उपेक्ष्य प्रक्रान्ताः ॥)
(अथ राज्ञो महा)सुदर्शनस्यैतद् अभवत् ॥
संपन्न(ं) मे धनजातं धर्मेण नाधर्मेण ॥ यन्न्व् अहं ध्(आर्मं प्रासादं मापयेयम् ॥)
(अश्रौषुश् चतुरशीतिकोट्टराज)सहस्राण्(इ) राजा महासुदर्शनो धार्मं प्रासादं मापयितुकामः ॥
श्रुत्वा च (येन राजा महासुदर्शनस् तेनोपजग्मुः ॥ उपेत्य राजानं) मह्(आ)सुदर्शनम् इदम् अवोचन् ॥
अल्पोत्सुको देवो भवतु धार्मात् प्रासादात् (॥ वयं धार्मं प्रासादं माप)यिष्य्(आ)मः ॥
(ग्रा)म्(अण्)य्(ओ मद्राज्ये ऽप्य् एवं)रूपाणि (ध)नजातान्य् इत्य् (उक्त्वा नाध्)इ(वास)यति ॥
(द्विर् अपि त्रिर् अपि चतुरशीतिकोट्टराजसहस्राणि राजानं महा)सुदर्शनम् इदम् अवोचन् ॥
अ(ल्)प्(ओत्सुको देवो भवतु धार्मात् प्रासादात् ॥ वयं धार्मं प्रासादं मापयिष्यामः ॥)
(द्विर् अपि त्रिर् अपि राजा महासुदर्)शनश् चतुरशीतिं कोट्टराजसह(स्राण्य् आमन्त्रयते ॥)
(ग्रामण्यो मद्राज्ये ऽप्य् एवंरूपाणि धनजातान्य् इत्य् उक्त्वा नाधिवासयति ॥)
अथ चतुरशीतिः कोट्टराजसह(स्राणि राज्ञो महासुदर्शनस्)य्(अ पाद)य्(ओर् वै) श्(इरसास्)आद्य ॥ ए(क)त्या बाहू(न्) प्रगृह्य ॥ एकत्याश् चीव्(अरकर्णकं प्रगृह्य ॥) एकत्या येन राजा महासुदर्श(नस् तेनाञ्)जलि(ं) प्रणम्य राजानं महासुदर्श्(अनम् इदम् अ)वो(चन् ॥)
अल्पोत्सुको देवो भ्(अवतु धार्मात् प्रासादात् ॥ वयं धा)र्म(ं) प्रासादं मापयिष्यामः ॥
अधिवासयति राजा महासुदर्शनश् चतुरश्(ई)ति(कोट्टराजस)हस्राणां तूष्ण्(ई)म्भ्(आवेन ॥)
(अथ चतुरशीतिकोट्टराजसह)स्राणि राज्ञो महासुदर्शनस्य तूष्णी(म्भावेनाधि)वासनं विदित्वा स्वकस्वकनि(वेशन)म् आगत्य
प्रभूतं सुवर्ण(हिरण्यम् एकैकं च रत्नस्तम्भम् आदाय) य्(ए)न राजा महासुदर्शनस् तेनोपसंक्र्(आन्)त्(आ)ः ॥ आगत्य राजा(नं महासुदर्श)नम् इदम् अवोचन् ॥
कुत्र वयं देव (धार्मं प्रासादं मापयेम की)वन् वा ॥
तेन हि यूयं ग्रामण्यः पू(र्वेण कुशाव)त्य्(आ र्)आ(जधा)न्य्(आ) अस्य धार्मं प्रासादं मा(प)यथ योजनम् आयामेन योज(नं विस्तारेण ॥)
(एवं देवेति चतुरशीतिकोट्टराजसह)स्राणि राज्ञो महासुदर्शनस्य (प्रतिश्रुत्य पूर्वेण कुशावत्या) धार्मं प्रासादं मापयन्ति (तं च) योजनम् आयामेन योजन(ं) विस्ता(रेण ॥)
(धार्म आनन्द प्रासादे चतुर्वि)धानि प्राचीनानि मापित्(आ)न्य् अ(भू)वन् (स्)औवर्णानि राजतानि वैडूर्य(म)याणि स्फटि(कम)यानि ॥ चतुर्विधान्य् आस्(अनानि मापितान्य् अभूवन् सौवर्णानि राजतानि) वैडू(र्)यमया(णि) स्(फटिकमयानि ॥)
धार्मे प्रासादे चतुर्व्(इ)धाः स्तंभा उच्छ्रिता अभूवन् सौवर्णा राजता वैडूर्यमयाः स्फटिकमयाः ॥
सौवर्णस्य स्तंभस्य राजतः कु(ं)भकः कृपटकशीर्षकं गो(सा)रको मापितो बभूव ॥ राजतस्य सौवर्णः वैडूर्यमयस्य स्फ(ट्)इकमयः स्फ्(अटिकमयस्य स्)त्(अं)भस्य वैडूर्यमयः कुंभकः कृपटकशीर्षकं गोसारको मापितो बभूव ॥
धार्मे प्रासादे च(तुर्विधा गोपानस्यो मापिता अभूवन् सौवर्णा राज)ता वैडूर्यमयाः स्फटिकमयाः ॥
धार्मे प्रासादे चतुर्विधा बलधरणीया मापिता अभूवन् सौव्(अर्णा राजता वैडूर्यमयाः स्फटिकमयाः ॥)
(धार्मे प्रा)सादे चतुर्विधा अवषङ्गा मापिता अभूवन् सौवर्णा राजता वैडूर्यमयाः (स्)फटिकमयाः ॥
धार्मे (प्)र्(आसादे चतुर्विधा अट्टाला मापिता अभूवन् सौवर्णा राजता वैडू)र्यमयाः स्फटिकमयाः ॥
धार्मः प्रासादश् (च)तुर्विधैः फलकैश् छन्नो ऽभूत् सौवर्णै राजतैर् वैडूर्यमयै(ः स्फटिकमयैः ॥)
(धार्मे प्रासादे चतुर्विधानि सोपानानि मापितान्य् अभूवन्) सौवर्णानि राजतानि वैडूर्यमयाणि स्फ्(अटि)कमयानि ॥
धार्मः प्रासादश् चतुर्व्(इ)धाभिर् वेदिकाभिः परिक्षिप्तो (ऽभूत् सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥)
सौवर्ण्या व्(ए)दिकाया राजतं सूच्य्(आ)ल्(अं)बनम् अधिष्ठानं मापितम् अभूत् ॥ राज(त्य्)आः सौवर्णं वैडूर्य(मय्याः स्फटिकमयं स्फटिकमय्या वैडूर्यमयं सूच्यालंब)नम् अधिष्ठानं मापितम् अभूत् ॥
धार्म आनन्द प्रासादे चतुरशीतिकूटागारसहस्राणि मापिता(न्य् अभूवन् एकैकं चतुर्णां वर्णानां तद्यथा सौवर्णानां) राजतानां वैडूर्यमयाणां स्फटिकमयानाम् ॥
सौवर्णे कूटागारे राजतः पर्यङ्कः स्थापितो ऽभू(त् पटिकास्तृतो गोणिकास्तृतस् तूलिकास्तृतश् चित्रिका)स्तृतः पटलिकास्तृतः कालिङ्गप्रावारप्रत्यास्तरणः सोत्तरच्छदपट उभयान्तलो(हितोपधानः ॥)
(राजते सौवर्णो वैडूर्यमये स्फटिकम)यः स्फटिकमये वैडूर्यमयः पर्यङ्कः स्थापितो ऽभूत् पटिकास्तृतो गोणिकास्तृतस् तूलिकास्तृतश् चित्रि(कास्तृतः पटलिकास्तृतः कालिङ्गप्रावारप्रत्या)स्तरणः सोत्तरच्छदपट उभयान्तलोहितोपधानः ॥
सौव्(अर्णस्)य्(अ) कूटाग्(आ)र्(अस्)य्(अ प्)उर(स्)त्(आ)द् र्(आ)जतस् तालो मा(पितो ऽभूत् सौवर्णेन पत्रेण पुष्पेण फलेन ॥ राजतस्य सौवर्णो वैडूर्यमयस्य स्फटिकमयः ॥ स्फटिकमयस्य) वैडूर्यमयः स्फटिकमयेन पत्रेण पुष्पे(ण फलेन ॥)
(तेषां खलु तालानां वायुना प्रेरितानाम् अयम् एवंरूपो मनोज्ञः शब्दो निश्चरति यथा पञ्चाङ्गिकस्य) तूर्यस्य कुशलेन पुरुषेण (सम्यक्सुप्रवादितस्य ॥)
(धार्मः प्रासादः कनकवालिकास्तृतो ऽभूच् चन्दनवारिपरिषिक्तो हेमजालावतत)स् सुवर्णकङ्कणिकावृतः ॥
<हिएर् इम् तिब्. उद्दान>
अथ चतुरशीतिकोट्टराजसहस्राणि स्(अर्वजातकृतनिष्ठितं धार्मं प्रासादं विदित्वा धार्मस्य प्रासादस्य पुरस्ताद् धार्मीं पुष्करिणीं मापयन्ति योजनम् आया)मेन योजनं विस्तारेण ॥
धार्मी पुष्करिणी चतुर्वि(धाभिर् इष्टिकाभिश् चिता बभूव सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥)
(तस्यां खलु पुष्करिण्)य्(आं) चतुर्विधानि सोपानानि मापितान्य् अभूव्(अन्) स्(औवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥)
(सा खलु पुष्करिणी चतुर्विधाभिः वेदिकाभिः परिक्षिप्ता ब)भूव सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फ्(अटिकमयीभिः ॥ सौवर्ण्या वेदिकाया राजतं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥ राजत्याः सौवर्णं वै)डूर्यमय्याः स्फटिकमयं स्फटि(कमय्या वैडूर्यमयं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥)
(तस्यां खलु पुष्करिण्यां विविधानि ज)लजानि माल्यानि रोपितान्य् (अभूवन् तद्यथोत्पलं पद्मं कुमुदं पुण्डरीकं सौगन्धिकं मधुगन्धिकं सर्वर्तुकं सर्वकालिकम् अनावृतं स)र्वजनस्य ॥
तस्याः खलु पुष्करिण्यास् तीरे (विविधानि स्थलजानि माल्यानि रोपितान्य् अभूवन् तद्यथातिमुक्तकश् चंपकः पाटला वार्षिका मालिका नवमा)लिका स्(उ)मना य्(ऊ)थिका धानुष्कारी सर्व्(अर्तुकं सर्वकालिकम् अनावृतं सर्वजनस्य ॥)
(धार्मी पुष्करिणी कनकवालिकास्तृताभूच् चन्दनवारिपरिषि)क्ता हे(मजालावतत्)आ सुवर्णकङ्कणिकावृता ॥
अथ चतुरशीतिकोट्टराजसहस्राणि सर्वज्(आ)त(क्)ऋतन्(इ)ष्ठ्(इ)त्(अं) ध्(आर्)म्(अं प्रा)स्(आदं) ध्(आर्)म्(ई)ञ् च्(अ) पु(ष्)क्(अ)र्(इणीं विदित्वा धार्म्याः) पुष्करि(ण्याः पुरस्ताद् धा)र्मं तालवनं मापयन्ति योजनम् आयामेन योजनं विस्तारेण ॥
धार्मे तालवने चतुर्विधास् ताला मापिता अभूवन् सौवर्णा राजता व्(ऐ)डूर्यमयाः स्फ(टि)कमय्(आ)ः ॥ सौवर्णस्य तालस्य राजतं पत्रं पुष्पं फलं मापितम् अभूत् ॥ राजतस्य सौवर्णम् ॥ वैडूर्यमयस्य स्फटिकमयम् ॥ स्फटिकमयस्य वैडूर्यमयं पत्रं पुष्पं फलं मापितम् अभूत् ॥
तेषां खलु तालानां वायुना प्रेरितानाम् अयम् एवंरूपो मनोज्ञः शब्दो निश्चरति तद्यथा पञ्चाङ्गिकस्य तूर्यस्य कुशलेन पुरुषेण सम्यक्सुप्रवादितस्य ॥
धार्मं तालवनं चतुर्विधाभिर् वेदिकाभिः परिक्षिप्तम् अभूत् सौवर्णीभी राजतीभिर् वैडूर्यमयीभिः स्फटिकमयीभिः ॥
सौव(र्)ण्(य्)आ वेदिकाया राजतं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥ राजत्याः सौवर्णं वैडूर्यमय्याः स्फटिकमयं स्फटिकमय्या वैडूर्यमयं सूच्यालंबनम् अधिष्ठानं मापितम् अभूत् ॥
धार्मं तालवनं कनकवालिकास्तृतम् अभूच् चन्दनवारिपरिषिक्तं हेमजालावततं सुवर्णकङ्कणिकावृतम् ॥
अथ चतुरशीतिकोट्टराजसहस्राणि सर्वजातकृतनिष्ठितं धार्मं प्रासादं धार्मीं पुष्करिणीं धार्मं च तालवनं विदित्वा येन राजा महासुदर्शनस् तेनोपजग्मुर् उपेत्य राजानं महासुदर्शनम् इदम् अवोचन् ॥
सर्वजातकृतनिष्ठितो देवस्य धार्मः प्रासादो धार्मी पुष्करिणी धार्मं च तालवनम् ॥ यस्येदानीं द्(ए)व्(अः) कालं मन्(यत्)ए ॥
अथ राज्ञो महासुदर्शनस्यैतद् अभवत् ॥
न मम प्र(ति)रूपं स्याद् यद् अहम् एवम् एव धार्मे प्रासादे अध्यावसेयम् ॥ यन्न्व् अहं ये (मद्विजि)ते साधु(रूपसंमताः) श्र्(अ)मणब्राह्मणाः प्रतिवसन्ति तान् प्रथमतर्(अं) धार्मे प्रासादे भोजयित्वा प्रत्येकप्रत्येकं दुष्ययुगेनाच्छादयेयम् ॥
अथ राजा महासुद्(अर्श)नो ये (स्वविजिते साधु)रूपसंमताः श्रमणब्राह्मणाः प्रतिवसन्ति तान् प्रथमतरं धार्मे प्रासादे भोजयित्वा प्रत्येकप्रत्येकं दुष्ययुगेनाच्छादय(त्)इ ॥
अथ राज्ञो महासु(दर्श)न्(अ)स्य्(ऐत)द् (अ)भ्(अवत् ॥)
न्(अ) म्(अ)म प्रतिरूपं स्याद् यद् अहं धार्मे प्रासादे पञ्च(कामगुणैर् सम)र्पितः समन्वङ्गीभूतः क्रीडेयं रमेयं परिचारयेयं ॥ यन्न्व् अह्(अं) धार्मे प्रासाद एकेन पुरुषेणोपस्थायकेन राजर्षिर् ब्रह्मचर्य्(अं चरेयम् ॥)
(अथ रा)जा महासुदर्शन एकेन पुरुषेनोपस्थायकेन धार्मे प्रासादे राजर्षिर् ब्रह्मचर्यम् अचार्षीत् ॥
अथ राजा महासुदर्शनो धार्मे प्रासादे (प्)र्(अविश्य स्)औव्(अर्)ण्(अं) कूट्(आ)गार(म् अ)धिरुह्य राजते पर्यङ्के निषद्य विविक्तं कामैः पूर्ववद् यावत् प्रथमं ध्यानम् उपसंपद्य व्यहा(र्षीत् ॥)
सौवर्णात् कूटागा(रा)न् निष्क्रम्य राजतं (कूटागा)रम् अधिरु(ह्य) स्(औ)वर्णे पर्यङ्के निषद्य विविक्तं कामै(ः) पूर्(व)वद् यावत् प्र्(अथ)मं ध्यानम् उपसंपद्य व्यहार्षीत् ॥
राजतात् कू(टागारान् नि)ष्क्(र)म्य वैड्(ऊर्यमयं कूटागारम् अधिरुह्य स्फटिकम)ये पर्यङ्के निषद्य विविक्तं कामैः प्(ऊ)र्ववद् य्(आ)वत् प्रथ(म)ं ध्यानम् उपसंपद्(य व्य)हार्षीत् ॥
वैडूर्यमय्(आ)त् (कू)टा(गारान् निष्क्रम्य स्फटिकमयं कूटागारम् अधिरुह्य वैडूर्यमये पर्यङ्के निषद्य विविक्तं कामैः पूर्ववद् यावत् प्रथमं ध्यानम् उपसंपद्य व्यहार्षीत् ॥)
(अथ चतुरशीतिस्त्रीसहस्राणि येन स्त्रीरत्नं तेनोपजग्मुः ॥ उपेत्य स्त्रीरत्नम् इदम् अवोचन् ॥)
(देवि प्रतिवेदयस्व ॥ चिरम् अस्माभिर् अदृष्टो राजा येन वयं राजानं दर्शनायात्युत्सुक्याः ॥ राजानं वयं द्रष्टुकामाः ॥)
(आगमयध्वं तावद् भगिन्यो यावद् अहं परिणायकरत्नं प्रक्ष्यामि ॥)
(अथ स्त्रीरत्नं परिणायकरत्नं दूतेनाहूयैवम् आमन्त्रयते ॥ सेनापते जानीहि ॥ चिरम् अस्माभिर् अदृष्टो राजा येन वयं राजानं दर्शनायात्युत्सुक्याः ॥ राजानं वयं द्रष्टुकामाः ॥)
34.102-106 (तेन हि यूयं भगिन्यः सर्वाः पीतालङ्कारं पीतवस्त्रमाल्याभरणानि पीतानुलेपनं पीतपरिवारं संपादयथ ॥ यावद् अहं चतुरशीतिकोट्टराजसहस्राणि चतुरशीतिनागसहस्राण्य् उपोषथनागराजप्रमुखानि चतुरशीत्यश्वराजसहस्राणि वालाहाश्वप्रमुखानि चतुरशीतिरथसहस्राणि नन्दिघोषरथप्रमुखानि सङ्ग्रहिष्यामि ॥)
(अथ सर्वास् ताः स्त्रियः पीतालङ्कारं पीतवस्त्रमाल्याभरणानि पीतानुलेपनं पीतपरिवारं समपादयन् ॥)
34.108-111 (परिणायकरत्नं च चतुरशीतिकोट्टराजसहस्राणि चतुरशीतिनागसहस्राण्य् उपोषथनागराजप्रमुखानि चतुरशीत्यश्वराजसहस्रानि वालाहाश्वप्रमुखानि चतुरशीतिरथसहस्राणि नन्दिघोषरथप्रमुखानि समग्रहीत् ॥)
(सङ्गृह्य स्त्रीरत्नं नन्दिघोषरथे न्यषीदत् ॥ अन्या अवशेषस्त्रियः स्वकस्वकरथं निषद्य येन धार्मः प्रासादस् तेनोपजग्मुः ॥)
(तेन खलु समयेन धार्मस्य प्रासादस्याधस्ताद् महाजनकायस्योच्चशब्दमहाशब्दो नादितः ॥)
(अश्रौ)ष्(ई)द् राजा महासुदर्शनो ध्(आर्मस्य प्रासादस्याधस्ताद् महाजनकायस्योच्चशब्दमहाशब्दम् ॥ श्रुत्वा चान्यतमम् अन्तेवासिनं पुरुषम् एवम् आमन्त्रयते ॥)
क्(इ)म् एतद् भोः प्(उ)रुष धार्मस्य प्रास्(आ)दस्या(धस्ताद् महाजनकायस्योच्चशब्दमहाशब्दः ॥)
34.116-120 (इमानि देव चतुरशीतिस्त्रीसहस्राणि स्त्रीरत्नप्रमुखानि चतुरशीतिकोट्टराजसह)स्राणि परिणायकरत्नप्रमुखानि चत्(उरशीतिनागसहस्राण्य् उपोषथनागराजप्रमुखानि पूर्ववत् ॥)
(तेन भोः पुरुष धार्मस्य प्रासादस्याधस्ताद् सौवर्णं भ)द्र्(आ)सनं प्रज्ञ्(आ)पय यत्राहं निषद्य महाज(नकायं निरीक्षेय ॥)
(एवं देवेति स पुरुषो राज्ञो महासुदर्शनस्य प्रतिश्रुत्य धार्मस्य प्रासादस्याधस्तात् सौवर्णं भद्रासनं प्रज्ञप्य येन र्)आजा महासुदर्शनस् तेनोपजगाम ॥ उपेत्य राजा(नं महासुदर्शनम् इदम् अवोचत् ॥)
(प्रज्ञप्तं देव धार्मस्य प्रासादस्याधस्तात् सौ)वर्णं भद्रासनम् ॥ यस्येदानीं देवः क्(आलं) मन्यते ॥
अद्राक्षीद् राजा महासुदर्शनो धार्मप्रासादाधस्तात् सर्वास् ताः स्त्रि(यः पीतवस्त्रमाल्याभारणाः पीता)नुलेपना(ः ॥)
दृष्ट्वा च पुनर् अस्यैतद् अभवत् ॥ अतिरञ्जनीयो बत मातृग्राम (इ)ति विदित्वेन्द्रियाण्य् उत्क्ष्(इ)पति ॥
अद्राक्षीत् स्त्री(रत्नं राजानं महासु)द्(अ)र्शनम् इन्द्(र्)इयाण्य् उत्क्षिपन्तम् ॥ दृष्ट्वा च पुनर् अस्या एतद् अभवत् ॥
यथा खलु दे(वो ऽस्मान् दृष्ट्व्)एन्द्रियाण्य् उत्क्षि(प)ति मा हैव देवो ऽस्माभि(ः सङ्गम्यापकारं करिष्यति ॥)
(अथ) राजा महासुदर्शनो धार्मात् प्रासादाद् अवतीर्य सौवर्णे (प्रज्ञप्तभद्रासने न्यषीदत् ॥)
अथ स्त्रीरत्न्(अं) य्(ए)न राजा महा(स्)उद्(अर्शनस् तेनोपजगाम ॥ उपेत्य राजानं) महासुदर्शनम् इदम् अवोचत् ॥
इमानि देवस्य चतुरशीतिस्त्री(सहस्राणि ॥) अत्र देवश् छन्दं जनयत्व् अवे(क्षां देवः करोतु जीविते ॥)
चतुरशीतिकोट्टराजसहस्राणि परिणाय(क)रत्नप्रमुखा(नि ॥ अत्र देवश् छन्दं जनयत्व् अवेक्षां देवः करोतु जीविते ॥)
(चतुरशीतिनागसहस्रा)ण्य् उपोषथनागराजप्रमुखानि ॥ अत्र देवश् छन्दं जनयत्व् अवेक्षां (देवः करोतु जीविते ॥)
(चतुरशीत्यश्वसहस्राणि वालाहाश्व)राजप्रमुखानि ॥ अत्र दे(वश् छ)न्दं जनयत्व् अवेक्षां देवः करोतु जीविते ॥
(चतुरशीतिरथसहस्राणि नन्दिघोष)रथप्रमुखानि ॥ अत्र देवश् छन्दं जनयत्व् अवेक्षां देवः करोतु जीविते ॥()
चतुरशीतिनगरसह्(अस्राणि कुशावतीराजधानीप्रमुखानि ॥ अत्र देवश् छन्दं जनयत्व् अवे)क्षां देवः करोतु जीविते ॥
पूर्वे च त्वं भगिनि मां मित्रवत् समुदाचरसि सा त्(व्)अं तर्हि स(पत्नवत् ॥)
(अथ स्त्रीरत्नं भगिनीवादेन राज्ञा महासुदर्शनेन सम्)उदाची(र्)ण(ं) प्र्(आ)र्(ओ)दीद् अश्रूणि व(र्)त्(अ)यमानम् ॥
अथ स्त्रीरत्नं चीवरकर्णकेनाश्रूण्य् उत्स्तीर्य राजानं महासुदर्शनम् इदम् (अवोचत् ॥)
(कथं तर्हि वयं देवं मि)त्रवत् समुदाचरामो न सपत्नवत् ॥
एहि त्वं भगिनि ॥ एवं वद ॥
अल्पं जीवितं मनुष्याणाम् ॥ गमनीयः सांपरायः ॥ कर्तव्यं कुशलम् ॥ चरि(तव्यं ब्रह्मचर्यम् ॥ न प्रा)प्तजातस्यामरणम् ॥ सो ऽपि देव क्षणो ल(वो) मुहूर्तो न प्रज्ञायते यत्रा(स्य कायस्य) सर्वेण सर्वं निक्षेपो भविष्यति ॥
यद् देवस्य चतुरशीति(षु) स्(त्रीसहस्रेषु स्त्रीरत्नप्रमुखेषु च्छन्दो वा जनितो रागो वा जनित इष्टकान्तमनापत्वं वा जनितं तद्) देवः प्रजहातु निरवेक्षो देवो भवतु जीविते ॥
यद् देवस्(य चतुरशीतिषु कोट्टराजसहस्रेषु परिणायकरत्नप्रमुखेषु च्छन्दो वा पूर्ववद् यावन् निरवेक्षो) देवो भवतु जीविते ॥
यद् देवस्य चतुरशीतिषु नागसहस्रेष्व् (उपोषथनागराजप्रमुखेषु च्छन्दो वा पूर्ववद् यावन् निरवेक्षो देवो भवतु) जी(विते ॥)
(यद् देवस्य चतु)रशीतिष्व् अश्वसहस्रेषु वालाहाश्वराज(प्रमुखेषु च्छन्दो वा पूर्ववद् यावन् निरवेक्षो देवो भवतु जीविते ॥)
(य)द् द्(ए)वस्य चतुर्(अशीतिषु रथसह)स्र्(ए)षु नन्दिघोषरथप्रमुखेषु च्छन्दो वा (पूर्ववद् यावन् निरवेक्षो देवो भवतु जीविते ॥)
(यद् देवस्य चतुरशीतिषु) नगरसहस्रे(षु कुशावतीराज)धानीप्रमुखेषु च्छन्दो वा पूर्ववद् यावन् निरवेक्षो देवो भ(वतु जीविते ॥)
(ता इदम् अवोचन् ॥ तथा हि वयं समुदाचरामो देवं मित्रव)त् ॥
अल्पं देव जीवि(तं मनुष्याणां) गमनीयः सांपरायः कर्तव्यं कु(शलं चरि)तव्यं ब्र(ह्मचर्यम् ॥ न प्राप्तजातस्यामरणम् ॥ सो ऽपि देव क्षणो लवो मुहूर्तो न प्रज्ञा)यते यत्रास्य का(यस्य सर्वेण सर्वं निक्षेपो भविष्यति ॥)
(यद् देवस्य चतुरशीतिषु स्त्रीसहस्रेषु स्त्रीरत्नप्रमुखेषु च्छन्दो वा जनितो रागो वा जनित इष्टकान्तमनापत्वं वा जनितं तद् देवः प्रजहातु निरवेक्षो देवो भवतु जीविते ॥)
(यद् देवस्य चतुरशीतिषु कोट्टराजसहस्रेषु परिणायकरत्नप्रमुखेषु च्छन्दो वा पूर्ववद् यावन् निरवेक्षो देवो भवतु जीविते ॥)
(यद् देवस्य चतुरशीतिषु नागसहस्रेष्व् उपोषथनागराजप्रमुखेषु च्छन्दो वा) पू(र्ववत्) ॥
(यद् देव्)अस्य चतु(रशीति)ष्व् (अ)श्वसहस्र्(ए)षु च्छन्द्(ओ) वा पू(र्)वव(त्) ॥
(यद् देव)स्य चतुरश्(ई)त्(इ)षु (रथसहस्रेषु च्छन्दो वा पूर्ववत् ॥)
(यद्) देवस्य चतुरश्(ईतिष्)उ (नगरसह)स्रे(षु च्छ)न्द्(ओ) वा पूर्ववद् याव(न्) निरवेक्षो देवो भवतु (जीविते ॥)
अथ राजा महासु(दर्शनः स्त्रीरत्नम् अनेनाववादेनानुशास्य धार्मं प्रा)सादम् अधिरुह्य सौव(र्)णं कूटागारं प्र्(अवि)श्य राजते पर्यङ्के निषद्य मैत्रासहगतेन चित्तेनावैरेणासप(त्नेनाव्यावध्येन विपुलेन महद्गतेनाप्रमाणेनाद्वये)न सुभाविते(नैकां दिश)म् अधिमुच्य स्फरित्वोपसंपद्य व्यहार्षीत् ॥
तथा द्वितीयां तथा तृतीयां (तथा चतुर्थीम् इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वशः सर्वा)वन्त्(अम् इमं) लोकं मैत्रासह(ग)तेन च्(इ)त्तेनावैरेणासपत्नेनाव्यावध्येन विपुलेन महद्गतेनाप्र(माणेनाद्वयेन सुभावितेनैकां दिशम् अधिमुच्य स्फरि)त्वोपसं(पद्)य (व्)यहार्षीत् ॥
सौवर्णात् कूटागारान् न्(इ)ष्क्रम्य राजतं कूटागारं प्रविश्य सौवर्णपर्यङ्के निषद्य करुणासह(गतेन चित्तेनावैरेण पूर्ववत् ॥)
<इम् तिब्. wइएदेर्होलुन्ग् वोन् 157>
(अथ) राजतात् कूटागारान् निष्क्रम्य वैडूर्यमयं कूटागारं प्रविश्य स्फटिकमयपर्यङ्के निषद्य मुदितासहगतेन चित्तेनावै(रेण पूर्ववत् ॥)
<इम् तिब्. wइएदेर्होलुन्ग् वोन् 157>
(अथ वैडूर्यमयात् कूटागारान् निष्क्रम्य स्फटिक)मयं कूटागार्(अं प्र)विश्य वैडूर्यमये पर्यङ्के नि(षद्योपे)क्षासहगतेन चित्तेनावैरेण पूर्ववत् ॥
<इम् तिब्. wइएदेर्होलुन्ग् वोन् 157>
अ(थ राजा महासुदर्शनश् चतुरो ब्रह्मविहारान् भावयि)त्व्(आ) क्(आमेषु काम)च्छन्द्(अं) प्र्(अ)ह्(आय) तद्बहुल्(अविहारी ब्र)ह्मल्(ओ)कस्य स्वभावताय्(आ)म् उपगतः ॥
रज्ञ्(अ आनन्द महासुदर्शनस्य पश्चि)मा मार(णान्)त्(इ)का वेदना बभूव तद्यथा बलवतः पुरु(ष)स्य (सुभो)जन(ं) भुक्तवतो मुहूर्ते स्याद् भक्तक्लमः ॥
स्यात् खलु ते (आनन्दान्यः स तेन कालेन तेन) समयेन राजाभून् महासुदर्शनो नाम ॥ न खल्व् एवं द्रष्टव्(य)म् ॥ तत् कस्माद् धेतोः ॥ अहम् एव स तेन कालेन तेन समयेन र्(आ)जा (महासुदर्शनो ऽभूवम् ॥)
(षट्कृत्वः खल्व् आ)नन्द कुशि(न)गरी यावन् नद्(ई हिर)ण्यवती यावद् यमकशालवनं यावन् मल्लाना(ं) मकुटबन्धनं चैत्यम् अत्रा(न्तरा द्वादश योजनानि सामन्तकेन भूयो ऽपि तथागत)स्य (श)रीरनिक्षे(प्)ओ (बभू)व तच् च र्(आ)ज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य ॥ इदं सप्तमं वारम् ॥
तच् च्(आनन्दार्हतः सम्यक्संबुद्धस्य नाहं तं लोके) पृथिवीप्रदेशं समनुपश्यामि (नैव) पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमस्याम् उत्तरस्यां दिशि यत्र तथाग(तस्याष्टमः शरीरनिक्षेपः ॥)
(तत् कस्माद् धेतोः ॥)
+ + + + + + + +
(सम्)उच्छि(न्ना) भव(ने)त्(र्)ई ॥
(व्)इ(क्ष्)ई(णो) ज्(आतिसं)सा(रो
ना)स्(त्)ईदानीं पुनर्भवः ।
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0