महापरिनिर्वाणसूत्र · अध्याय 32
(तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)
(आगमयानन्द येन कुशिनगरी ॥)
(एवं भदन्तेत्)य् (आ)युष्मान् (आ)नन्दो (भगवतः प्रत्यश्रौषीत् ॥)
(अथ भगवान् मल्लेषु जनपदेषु चर्यां चरङ् कुशिनगरीम् अनुप्राप्तः ॥ कुशि)नगर्यां विहरति मल्लानाम् उपवर्तने यमकशालवने ॥
अथ भगवांस् तदैव (परिनिर्वाणकालसमय आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म ॥)
(प्रज्ञापयानन्द तथा)गतस्यान्तरेण यमकशालयोर् उत्तराशीर्षं मञ्चम् अद्य तथागतस्य रात्र्या (मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
(एवं भदन्)तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्यान्तरेण यमकशा(लयोर् उत्तराशीर्षं मञ्चं प्रज्ञप्य येन भगवांस् तेनोपजगाम ॥)
(उपेत्य भग)वत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ॥
एकान्तस्थित आयुष्मान् आनन्द्(ओ भगवन्तम् इदम् अवोचत् ॥ प्रज्ञप्तो भदन्त तथागतस्यान्तरेण यमकशालयोर्) उत्तराशीर्षो मञ्चः ॥
अथ भगवान् येन मञ्चस् तेनोपजगाम ॥ उपेत्य दक्षिणेन पार्श्वे(न शय्यां कल्पयति पादं पादेनोपधायालोकसंज्ञी प्रतिस्मृतः संप्रजानो निर्वाणसंज्ञाम् एव मनसि कुर्वाणः ॥)
अथायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो मञ्चम् अवलंब्य प्रारोदीद् अश्र्(ऊ)णि वर्तयमान्(अ एवम् आह ॥)
(अतिक्षिप्रं भगवान् परिनिर्वात्य् अतिक्षिप्रं सुगतः) परिनिर्वात्य् अतिक्षिप्रं चक्षुर् लोकस्यान्तर्धीयते ॥
पूर्वे च भिक्षवस् ताभ्यस् त्(आ)भ्य्(ओ दिग्भ्यस् तेभ्यस् तेभ्यो जनपदेभ्य आगच्छन्ति भगवतो ऽन्तिकेनोपदर्श)नाय भगवन्तं पर्युपासनायै ॥ तेषाम् उपसंक्रान्तानां भगवान् धर्मं देशय्(अत्य् आदौ कल्या)ण्(अं) म(ध्)ये कल्याण्(अं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं) परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति ॥
यतो (ऽनुका)लं गंभीरगंभी(रां धर्मकथां ये श्रोतुम् आगतास् ते भग)वान् परिनिर्वृत इति श्रुत्वा नागमिष्यन्ति ॥ महतो धर्मसंभोगस्य्(ऐव लोके ऽन्तर्धानं भविष्यति ॥)
(अथ) भगव्(आ)न् भिक्षून् आमन्(त्)र्(अयते ॥)
(क्व च नु स्थित आनन्दो) भिक्षुः ॥
एष भदन्तायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो मञ्चम् अवलंब्य प्रारो(दीद् अश्रूणि प्रवर्तय)मानः
पूर्व्(आवद्)
(यावद् अन्तर्धानं भ)विष्यति ॥
तत्र भग(व्)आन् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥
मा त्वम् आनन्द शोच मा क्ला(म ॥ तत् कस्माद् धेतोः ॥)
(त)थ्(आग)त उपस्थितस् त (आनन्द मैत्रेण कायकर्मणा हितेन सुखेनाद्वयेनाप्रमाणेन ॥ मैत्रेण वाक्कर्मणा मैत्रेण मनस्कर्मणा हितेन सुकेनाद्वयेना)प्रमाणेन ॥
ये ते (ऽतीते ऽध्वनि तथागता अर्हन्तः सम्य)क्स्(अं)बुद्धास् तेष्(आं बुद्धानां भगवतां सदृशम् उपस्थानं करिष्यते तद्यथा त्वया मह्यम् एतर्हि ॥)
(ये) ऽपि ते भविष्यन्त्य् अ(नागते ऽध्वनि तथागता अर्हन्तः) सम्यक्संबुद्धास् ते(षा)म् अपि बुद्ध्(आनां भगवतां सदृशम् उपस्थानं करिष्यते तद्यथा त्वया मह्यम् एत)र्(ह्)इ ॥
(मा) तस्मात् त्वम् आन्(अन्द शोच मा क्लाम ॥ कस्माद् एव तत् ॥ कुत एतल् लभ्यं य)त् तज् जातं भूतं कृतं संस्कृतं पूर्व्(अवद्)
(यावद् विसंयोगः ॥)
(अथ भगवान् आयुष्मन्तम् आ)नन्दं संहर्(षयितुं भिक्षून् आमन्त्रयते ॥)
(चत्वारो भिक्षव आश्चर्या अद्भुता ध)र्मा राज्ञश् चक्रवर्तिनः ॥ कतमे च(त्वारः ॥)
(सचेत् क्षत्रियपरिषद् राजानं चक्रवर्तिनं दर्श)नायोप(संक्रामत्य् आप्तमनस्का भवति दर्शनेन ॥ सचेद् उपसंक्रान्तायां धर्मं देश)यत्य् आप्तमनस्का भवति धर्मश्र्(अवणेन ॥)
(सचेद् ब्राह्मणपरिषद्)
(गृहपतिपरिषच्)
(छ्रमणपरिषद् राजानं) चक्रवर्तिनं द(र्)श्(अनायोपसंक्रामत्य् आप्तमनस्का भवति दर्श)नेन ॥ सचेद् उपसंक्रान्तायां धर्म्(अ)ं (देशयत्य् आप्तमनस्का भवति धर्मश्रव)णेन ॥
एवम् एव (भिक्षवश् चत्वार आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः ॥ कतमे चत्वा)रः ॥
सचेद् भिक्षुपरिषद् आनन्(द)ं (दर्शनायोपसंक्रामत्य् आ)प्तमनस्का भवति (दर्शनेन ॥ सचेद् उपसंक्रान्तायां धर्मं देशयत्य् आप्तमनस्का भवति ध)र्म्(अ)श्रवणेन ॥
स(च्)ए(द्) भिक्षु(णीपरिषद्)
(उपासकपरिषद्)
(उपा)सिकापरि(षद् आनन्दं दर्शनायोपसंक्रामत्य् आप्तमनस्का भवति दर्शनेन ॥ सचेद् उपसंक्रान्तायां धर्मं देशयत्य् आप्तमनस्का भव)ति धर्मश्रव(णेन ॥)
(अपरे ऽपि चत्वारो भिक्षव आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः ॥ कतमे चत्वारः ॥)
(सचेद् आनन्द भिक्षुर् भिक्षुपरिषदे धर्मं देशयति सत्कृत्य देश)यति नासत्कृत्य (देशयति ततो भिक्षुसंघस्यैवं भवति ॥ अहो बतायुष्मान् आनन्दो धर्मम् एव भाषेत न तूष्णीं स्यात् ॥ अतृप्तैव भवति भिक्षुपरिषद् आनन्दस्य) भ्(इ)क्षोर् धर्मश्रवणेन ॥ (पुनर् आनन्दो भिक्षुस्) तूष्णीं भवति ॥
सचेद् भिक्षुणीपरिषद
उपासकपरि(षद)
उपासिकापरिषदे धर्मं देश(यति) सत्कृत्य देशयति नास्(अत्कृत्य देशयति तत उपासकसंघादेर् ए)वं भवति ॥ अहो बतायुष्मान् आनन्दो धर्मम् एव भाषेत न तूष्णीं स्यात् ॥ अतृप्तैव भवत्य् उपासिकापरिषद् आनन्दस्य भिक्षोर् धर्म(श्रवणेन ॥) पुनर् आनन्दो भिक्षु(स्) त्(ऊष्णीं भ)वति ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0